________________
६४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
धूपपूजायां नरकेसरिकथा
गन्धपूजाफलं प्रोक्तं, स्वर्गमोक्षफलप्रदम् । भावसारस्य धूपस्य, फलं सम्प्रति वर्ण्यते ॥१॥ समस्ति भारत वर्षे, निवास: सर्वसम्पदाम् । साधुसाधर्मिकाकीर्णो, देशो देशशिरोमणिः।।२।। काशी जनपदो नाम, पुरी तत्र मनोरमा । वाणारसी जने रूढा, धनधान्यसमाकुला ॥३।। तत्रारिमत्तमातङ्ग-कुम्भनिर्भेदकेसरी । साहसाङ्कसम: शूरो, नरेन्द्रो नरवाहनः ॥४॥ तत्रास्ति शङ्खचूडाख्यो, विप्रो भार्या च दुर्गिला। दुर्भगा दुर्मुखा दुष्टा, निर्दया बद्धमुष्टिका॥ वर्जिता शङ्खचूडेन, दुर्गदौभा>पीडिता। कामभोगपरित्यक्ता, कालं नयति दुःखिता ॥६॥ शङ्खचूडलघुभ्राता, मधुसुन्दरसञ्जितः । दानधर्मरता तस्य, गेहिनी मधुसुन्दरी ॥७॥ एवं सरति संसारे, मासक्षपणपारणे । तपस्वी तपसा क्षीणो, दुर्गिलागृहमागत: ॥८॥ दृष्टवा साधु सदाचार-मसदाचारया तया । प्रयुक्तं कर्कशं वाक्यं, दुष्टं दुर्गतिकारणम् ॥९॥ किं नास्ति कोऽप्युपायस्ते, मुण्ड! निर्वाहकारणम् । सुखहेतुराश्रितो येन, ह्युपाय: परपीडकः ॥१०॥ श्रुत्वैतत्साधुदेहस्थो, गुणग्राही महोदर: । यक्षस्तां वक्तुमारेभे, रुष्ट: कर्कशया गिरा ।।११।। यदि पापे! न ते श्रद्धा, दातव्यं वा न विद्यते । निषेधस्ते तदा श्रेया-त्रो कर्कशप्रजल्पितम् ॥१२॥ दौर्भाग्योपरि दौर्भाग्यं, दुर्गिले! ते भविष्यति । गण्डान्त: स्फोटिकातुल्यं, दुर्गतिं च गमिष्यसि ॥१३॥ एवमुक्त्वा गत: साधु-द्वितीयक्षपणे स्थितः । भिक्षामटति नान्यत्र, विमुच्य प्रथमं गृहम् ॥१४॥ साप्युत्कटमहामोह-वेदोदयविवर्तिनी । येन तेन समासक्ता, परं सर्वेण वर्जिता ॥१५॥ न शीलं यमहीनत्वा-न कामो दुर्भगत्वतः । न धर्मो वासनासाध्यः, सा च तस्यां न विद्यते ॥१६॥ अन्यदा मिलित: कोऽपि, दुर्भग: कुलपुत्रकः । तेनापि दूरतस्त्यक्ता, दौर्भाग्यप्रचुरत्वतः ॥१७॥ अन्यदा च मृतो भर्ता, जाता रण्डा निरनला। शिक्षिता मधुसुन्दर्या, ततो जज्ञे समत्सरा ॥१८॥ रुष्टया च विषं दत्त्वा, मारिता मधुसुन्दरी । भणितश्च सशृङ्गारं, तद्भर्ता मधुसुन्दरः ॥१९॥ अमृतेनेव सिच्येते, त्वयि दृष्टे मम लोचने । प्रतिपद्यस्व मां भार्यां, सफलां कुरु याचनाम् ।।२०।। श्रुत्वेदं स्तम्भिते तेन, श्रोतसी-कम्पितं शिरः । भूयोऽपि न वक्तव्यं, त्वयेदृक्षं ममाग्रतः ।।२१।। ततो वैलक्ष्यमापन्ना, विदित्वा तस्य निश्चयम् । आत्मानमवटे, क्षिप्त्वा, मृतां सा दुर्गतिं गता ॥२२॥ निघ्नन्ति निजभर्तारं, स्वं पुत्रं मारयन्ति च । आत्मानमपि निघ्नन्ति, जीवा विरतिवर्जिताः ॥२३॥ शङ्खचूडस्य जीवोऽपि, मध्यमगुणयोगत: । मृत्वा वणिक्सुतो जात: शुद्धबुद्धिर्गुणाश्रयः ॥२४॥ रत्नचन्द्रकृताभिख्य:, सदाचारपरायण: । शुद्धबुद्धिर्गुणाधारो, धार्मिको धर्मवत्प्रिय: ॥२५॥ दुर्गिलापि शुनीभावा-दुद्धृत्याजनि पुत्रिका । वणिजो वसुदत्तस्य, नाम तस्या वसुन्धरा॥२६॥ परिणीता रत्नचन्द्रेण, कथञ्चिदैवयोगतः । अहो धातुरकौशल्यं, विषममृते योजितम् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org