________________
अधिकार २ / श्लोक ५०-५९ / गन्धपूजायां रत्नसुन्दरकथा २
प्रभावना कृता गुर्वी, शासनस्याखिले जने । सम्यक्त्वं निर्मलं जातं, सिद्धिः करतले कृता ॥ २४९॥ चत्वारश्च सुता जाता, जातरूपसमप्रभाः । भुक्ता निरुपमा भोगा, मानुष्यं सफलीकृतम् ॥२५०॥ विहरन्तः समायाताः, सूरयः श्रुतसागराः । शान्तिसागरसूरीणां शिष्याः सर्वत्र विश्रुताः ॥ लतासुन्दर उद्याने, स्थिताः साधुजनोचिते । प्राशुके वसुधादेशे, त्रसजीवविवर्जिते ॥ २५२ ॥ रत्नसुन्दरभूपालो, वन्दनार्थं समागतः । वन्दित्वा विधिना सूरि, निषण्णो धरणीतले ॥ २५३॥ गम्भीरमेघनादेन, प्रारब्धा धर्मदेशना । संवेगजननी हृद्या, भवनिर्वेदकारिणी ॥ २५४॥ श्रुत्वा च देशनां राजा, ह्यभिषिच्य निजे पदे । रत्नशेखरनामानं, रत्नमालातनूद्भवम् । २५५|| विस्मापयन् जनं सर्वं, त्यागभोगादिभिर्गुणैः । श्रुतसागरसूरीणां, समीपं प्राप्य भूपतिः || २५६|| तृणवत्सर्वं परित्यज्य, वस्त्राभरणभूषणम् । राजा जग्राह प्रव्रज्यां, सर्वकर्मनिषूदनीम् ॥ २५७॥ प्रतिपन्नोऽभिग्रह स्तेन, कर्मनिर्मूलनाकृते । आजन्म [हि ] मया षष्ठा द्भोक्तव्यं कारणं विना ॥ २५८ ॥ तदपि नीरसं रुक्षं, विरसं स्नेहवर्जितम् । [ एषणादिविशुद्धं च, दोषमुक्तं समन्ततः ] ॥२५९॥ श्रुतसागरगुरोः पार्श्वे, सदा संविग्नमानसः । पठिताशेषसूत्रार्थी गीतार्थो गुरुतालयः ॥२६०॥ मोक्षमार्गाहितस्वान्तः, सम्प्राप्तपरमोदयः । संयमैकरतो धीरः, सम्यग्दर्शननिर्मलः ॥ २६१ ॥ सम्यग्ज्ञानातियुक्तात्मा, सम्यक्चारित्रतत्परः । अनुप्रेक्षाभिरात्मानं, भावयन्न च भीतधीः ॥ २६२॥ संयमस्योपकारासु, धर्मानुगुणभूमिषु । मुनिभिर्विमलाचारैः सह तासु निरन्तरम् ॥ २६३ ॥ विहरन् सर्वजीवानां, 'दयावांश्च पिता यथा । बाह्येन च सहान्तःस्थं, वर्धयन् सन्ततं तपः ॥२६४|| आवासतां महर्द्धानां परिप्राप्तः प्रशान्तधीः । दमश्रिया परिष्वक्तः, परिशुद्धसुदर्शनः ॥ २६५ ॥ उच्चैरुच्चैर्गुणस्थान-सोपानाऽऽरोहणादृतः । सबाह्याभ्यन्तरोदग्र-ग्रन्थग्रन्थिविवर्जितः ॥ २६६॥ श्रुतेन सकलं पश्यन्, कृत्याकृत्यं महामुनिः । महासंवरसम्पन्नः, सातयन् कर्मसंहतिम् ॥ २६७॥ प्राणधारणमात्रार्थं, भुञ्जानः सूत्रदेशितम् । धर्मार्थं धारयन् प्राणान्, धर्मं मोक्षार्थमर्जयन् ॥ २६८ ॥ आनन्दं भव्यलोकानां, कुर्वन्नुत्तमदर्शनः । चरितेनोपमाभूतो, 'यथोक्तश्च तपस्विनाम् ॥ २६९॥ चिरं विहृत्य मेदिन्यां, तपसा क्षीणविग्रहः । गुरुणा समनुज्ञात-श्चकारानशनक्रियाम् ॥२७०॥ चतुर्धाहारसंहारां, देहसंहारहेतवे । मासमानां महासत्त्वः, संनिषण्णः शिलातले ॥ २७१|| विधायाराधनां वीरो, निर्धूयौदारिकां तनुं । पंचमी गतिमापन्नो, यत्र यान्ति निराश्रवाः ॥ २७२॥ मत्वेदं सर्वदा सद्भिः, कार्यो धर्मे समुद्यमः । [ सुलभाऽमलभा येन । मुक्तिरामा भवेत्करे] ॥२७३॥ यः करोति जिनेन्द्राणां, सद्गन्धैः पादपूजनम् । लभते सर्वतो लक्ष्मीं, यथासौ रत्नसुन्दरः || २७४||
इति गन्धपूजाकथानकं समाप्तम् || श्रीरस्तु ।।
१ दयावान् पिता- BPJC ॥ २ यथोक्त त BPCI
Jain Education International
For Private & Personal Use Only
६३
www.jainelibrary.org