________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तावद्भूमौ न मुञ्चामि, ममैष दृढनिश्चयः । पुन: पृष्टः कुमारेण, राक्षसो हृष्टचेतसा ।।२२०॥ गर्तादिकं विजानाति, जलमध्ये कथं भवान् ? | तेनोक्तंन हिगच्छामि, भास्कराभिमुखं सदा॥२२१॥ एवं क्रमेण गच्छन्तौ, प्रश्नोत्तरपुरस्सरम् । शतशाखं महाकायं, वटमेकमुपागतौ ॥२२२॥ उत्तीर्णः पृष्ठतो रक्ष: कृतं चरणधावनम् । प्राची प्रति कुमारोऽपि, प्रणष्ट: सत्वरैः पदैः ॥२२३॥ राक्षस: क्रमश: पादौ, क्षालयित्वा जले गते । धावित: पश्चिमै: पादै-दृष्टिं रक्षन् दिवाकरात् ॥२२४॥ कुमारोऽपि गतो दूरं, प्रविष्टः शून्यपत्तने । तत्रापि च मठे शून्ये, सम्प्राप्तश्च निशाचरः ॥२२५॥ रक्षसोक्तं समागच्छ, नागच्छामि तवान्तिकम् । यद्यर्थी च तदागच्छ, त्वमेव हि ममान्तिकम् ।२२६। तेनोक्तं च न शक्नोमि, समागन्तुं तवान्तिकम् । किमर्थं कथितं तेन, रहस्यं ऋजुचेतसा ॥२२७॥ येयं बलानके व्यक्ता, करोटी दृश्यते त्वया । योगिनो मन्त्रसिद्धस्य, सास्माकं दुरतिक्रमा ॥२२८॥ इदं तत्त्वं परिज्ञाय, गृहिता कुमरेण सा । राक्षसाभिमुखं सोऽथ, गतो नष्टो निशाचरः ।।२२९॥ यैः पदैः स समायत-स्तैरेव चलितो द्रुतम् । कृताञ्जलिर्जगादेदं, राजपुत्रं निशाचरः ॥२३०॥ सौभाग्यसुन्दरं नाम, महारत्नं करे कुरु । अनेन कण्ठलग्नेन, स्त्रीप्रियस्त्वं भविष्यसि।।२३।। त्रयाणामपि सिन्धूनां, सारभूता मनोहरा । मुक्तावली त्वया ग्राह्या, मदनुग्रहकाम्यया ॥२३२।। प्रयोजने समुत्पन्ने, स्मर्तव्योऽहं सदा त्वया । सङ्क्षोभो नैव कर्तव्यो, यतोऽहं तव किङ्करः ॥२३॥ शृण्वन्नित्यादिवृत्तान्तान्, कार्पटिकैः प्रजल्पितान् । नीत्वा रात्रिं मठे तत्र, प्रगेऽसौ रत्नसुन्दरः ॥२३४|| सविस्मयस्तत: स्थानात्, पुरिमतालपुरे गतः । अत्रान्तरे मृतस्तत्र, निस्सन्तानो नरेश्वरः ॥२३५॥ अभिषिक्तानि दिव्यानि, मन्त्रिभिर्मण्डलेश्वरैः । हयेन हेषितं तत्र, शब्दितं गन्धहस्तिना ॥२३६॥ अभिषेक: कृतो लक्ष्म्या ढलिते चारुचामरे । शिरस्यस्य स्थितं छत्रं, स्वत एव महीयसः ॥२३७॥ गन्धवारणमारूढः, प्रविष्टो नगरे नृपः। सिंहासने निषण्णस्य, मन्त्रिभिर्मण्डलेश्वरैः ॥२३८॥ श्रेष्ठिभि: सार्थवाहैश्च, स्वीकृतं तस्यं शासनम् । कृताखिलेतिकर्तव्यो, विज्ञप्तो मन्त्रिणा नृपः ॥२३९॥ यथा राज्यं तथा कन्या, रत्नमालेतिसज्ञिता । स्वरूपा लक्षणोपेता, कान्तकाञ्चनसन्निभा ॥२४०॥ विमृश्य वेधसा चेयं, मन्ये युष्मत्कृते कृता । रत्नसुन्दरभूपेन, परिणीता मन्त्रिवाक्यत: ॥२४१।। एकातपत्रमत्रस्त:, पालयामास हेलया। गुणानुरक्तनि:शेष-लोकमुद्धृतकण्टकम् ॥२४२।। सम्पूर्णभूरिभाण्डारं, बहुकोशं भुवस्तलम् । [राज्यं भूमिपतिरेष, रत्नसुन्दरसज्ञकः] ॥२४३॥ महामल्लनरेन्द्रस्य, मुक्तमालाभिधा सुता। स्वयंवरा समायाता, महर्द्धया च विवाहिता॥२४४॥ नानाविधनिधानानि, दूरं पश्यति पार्थिव: । दिव्याञ्जनप्रभावेण, पूर्वपुण्यानुयोगत: ।।२४५।। नानापुराकरग्राम-पत्तनेषु समन्तत: । मन्दिरैर्मन्दराकार-मण्डिता तेन मेदिनी ॥२४६।। कारिताश्च जिनेन्द्राणां, तदन्त: प्रतिमा: परा: । अक्षयनीवीद्रव्यार्थं, ग्रामारामादि चिन्तितम् ।।२४७॥ कल्याणकानि यात्राश्च, रथनिष्क्रमणादिकम् । साधुसाधर्मिकाणां च, सत्कारं कुर्वता सदा ॥२४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org