________________
अधिकार २ / श्लोक ५०-५९ / गन्धपूजायां रत्नसुन्दरकथा २
जराजीर्ण: काय: श्रुतिविरहितं कर्णयुगलं, बलभ्रष्टा दृष्टिः पलितकलितं मस्तकमिदम् । तथाप्युच्चैर्बाणान् किरति सततं कामहतको, हहा कष्टं कष्टं कथयत कथं मुक्तिरमुत: ।।१९२।। तत: किञ्चित्सतोषेण, शृङ्गवैरतपस्विना। अर्धीकृत्य निजं शाप-महमेवंविध: कृतः ॥१९३॥ कुरङ्गकेसरा शप्ता, जाता नारी शिलामयी। गौतमस्य पदे स्पृष्टे, पापे पापात्प्रमोक्ष्यसे ॥१९४|| यद् दृष्टं तन्मयादिष्ट-मन्यो ब्रूते मयापि च । यद् दृष्टं तत् शृण्वन्तु, भवन्तो विहितादरा: ॥१९५।। उत्तरस्यां दिशि श्रेष्ठं समस्ति भुवि विश्रुतम् । पुरं पञ्चपुरं नाम, मेदिनीमुखमण्डनम् ॥१९६।। तत्र राजा महामल्लो , रणनि ढसाहस: । संपूर्णो भूरिकोशेन, चतुरङ्गबलान्वितः ॥१९७॥ तेन धन्येन धर्माय, ज्ञानसत्रं प्रवर्तितम् । अध्यापको धृतस्तत्र, सविद्यच्छात्रपाठक: ।।१९८॥ शतानि पञ्च छात्राणां, पेठुस्तत्र निरन्तरम् । भोजनाच्छादनं तेषां, प्रदत्ते मेदिनीपतिः ॥१९९॥ राजपुत्रोऽपि पाठार्थं, गतस्तत्र सकौतुकः । अध्यापककृतानुज्ञ: प्रारब्ध: पठितुं कला: ।।२००॥ अथान्यस्मिन् दिने तस्य, पठतो गुरुसन्निधौ । पृच्छद्भिर्ज्ञायते तत्त्व-मिदं वाक्यमुपागतम् ।।२०१॥ गृहीतं तत्त्वबुद्धया च, तद्वाक्यं नृपसूनुना । अध्यापककरस्तत्र, छात्राणां सर्वदाप्ययम् ॥२०२।। शतानिपञ्च पूलाना-मानेतव्यानि बाह्यतः। विचारो नैव कर्तव्यो, गुरुवाक्यमिदं यतः ॥२०३॥ अध्यापकगृहे नास्ति, छात्रा: ! किञ्चिच्चतुष्पदम् । एनांश्चरति कश्चारि ?, ब्रूत मे कौतुकं महत्॥ कुमारो भणितश्छात्रै-र्न वयं तप्तिकारका: । त्वमिव परगेहेषु, किन्त्वादिष्टविधायकाः ॥२०५॥ कुमारेणान्यदा रात्रौ, प्रच्छन्नेन निरीक्षितम् । अध्यापकजनी दृष्टा, गच्छन्ती गृहपृष्ठतः ॥२०६। विधाय करजापं सा, कृत्वा प्रश्रवणं भुवि । तस्योपरि लुठित्वा च, जाता सपदि रासभी ॥२०७।। द्रुतमेव तया सर्वे, भक्षितास्तृणपूलका: । भूयोऽपि सहजा जाता, कुमारेण विलोकिता ।।२०८॥ कथितं शेषछात्राणां, यथेयं नैव भद्रिका । आत्मा प्रत्यहमेतस्या, रक्षणीय: प्रयत्नतः ॥२०९॥ विकाले तृणपूलांश्च, लातुं छात्रा: समागता: । अटव्यां लब्धलक्षत्वाद्, गृहीत्वा पुनरागता: ॥२१०॥ अनभिज्ञः कुमारस्तु, भ्रमन् प्राप्तो महाटवीम् । क्षुत्क्षामकुक्षिना दृष्टो, राक्षसेन दुरात्मना ॥२११॥ भणितस्तेन रे ! पृष्ठे, मामारोपय सत्वरम् । आरोपित: कुमारेण, पूर्वमनु चचाल स: ।।२१२॥ महासर: समायातम्, पुरतो गच्छतोस्तयोः । कुमार: प्राह भो भद्र ! साम्प्रतं गम्यते कथम् ॥२१३॥ तेनोक्तं जलमध्येन, गच्छ त्वं हि निराकुल: । न भयं चेतसि कर्तव्यं, जानुदलं जलं यतः ॥२१४॥ कुमारो गन्तुमारब्धः, प्रोवाचेदं निशाचरः । पुरतो दृश्यते गर्ता, वामतो याहि किञ्चन ॥२१५॥ स्तोकान्तरं गते भूयो, जजल्प निशिसञ्चरः । कजश्च कण्टकाश्चागे, दक्षिणेनाथ गम्यताम् ।।२१६॥ शनैः शनैः समुत्तीर्य, सरस: स्थलमागतौ । लग्नश्च हेलया गन्तुं, कुमारो भीतमानसः ॥२१७॥ । रक्ष: पादतलं दृष्ट्वा, नवनीतादपि कोमलम् । पृष्टोऽसौ च कुमारेण, कथं ते पादयोस्तलम् ॥२१८।। सुखस्पर्शं मनोहारि, हृद्यं कमलकोमलम् । स प्राह क्षालनं कृत्वा, यावनोपरतं जलम् ॥२१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org