________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मदीय: सुन्दरो देशो, मदीय: सुन्दरो नृपः । भव्यो भोज्यविधि स्तत्र, देशाचारोऽपि सुन्दरः ॥१६७।। इत्यादि निष्फलं फल्गु, विवदन्त: परस्परम् । दृष्टाः पृष्टा कुमारेण, कौतुकाकुलचेतसा ॥१६८॥ भो भो भिक्षाचरा नूनं, नानादेशविचारिणः । किं दृष्टं किञ्चिदाश्चर्य, कुत्रापि जगतीतले ? ||१६९।। एकेनोक्तं मया दृष्टो, हटता चैकपत्तने । एकाक्ष एकपादश्च, विहस्तो विकृताकृतिः ॥१७०।। तृणाहारो नर: कोऽपि, स्थानासनविवर्जित: । न पुमान्न पशु: पूर्णो, नृपशुः प्रथितो जने ॥१७१॥ ततोविस्मयमापन्नो, लग्नोऽहं तस्य मार्गत: । कर्तुं तस्योपचारं च, प्रयच्छामि तृणादिकम् ॥१७२।। अन्यदा गतचिन्तोऽसौ, नरपशुरभाषत। किमर्थं क्रियते भद्र!, मम सेवा त्वया वद ।।१७३॥ विस्मयो मे महाभाग !, तव वृत्तान्तवेदने । किं त्वमेवंविधो जातः, पश्चाद्वा केनचित्कृत: ॥१७४।। तेनाभाणि समस्त्यत्र, विप्रो विश्वम्भराभिध: । आहितानिश्चचतुर्वेदी, तत्पुत्रोऽहं जनार्दनः। समिधानयनायाथ, पित्राहं प्रेषितो वने । गच्छन् गतो महाटव्यां, दिग्मोहेन च मोहित: ॥१७६॥ तत्राश्रमपदं दृष्टं, नानावृक्षसमाकुलम् । विहङ्गविततारावं, मृगयूथनिषेवितम् ॥१७७।। गतोऽहं तत्र च दृष्टा, सहकारतरोरध: । कुरङ्गकेसरानाम्नी, तापसी नवयौवना ॥१७८॥ सम्भ्रमादंसत: सस्तं, वल्कलं करपल्लवै: । आनयन्ती निजस्थाने, मधुरं भणिता मया ।।१७९|| अहं ब्रह्मसुतो भद्रे! आहिताग्निर्जनार्दनः । दिग्मोहादिहायात:, का त्वं कस्यायमाश्रम: ? ॥१८॥ तस्या रूपं वयो वर्णं, विभ्रमं वीक्ष्य विस्मित: । सर्वसीमन्तिनीसीमा, वेधसेयं विनिर्मिता ॥१८१।। एतस्यां मन्मनो याति, धत्ते लज्जां कुलक्रमः । एषापि सानुरागेव, लक्ष्यते किं ममोचितम् ? ॥१८२।। क्वेदं कर्म द्विजन्मनो मम हहा वैखानसी तापसी, रूपं रञ्जितलोकलोचनमहो चित्तस्य मे विक्रिया।
वेदार्थस्मृतिगोचरा: क्व च गिर: क्वेयं मनोदुर्लभा,
चेतश्चिन्तनमेव ते यदि परं धन्यो वरं धास्यति ॥१८३।। लज्जे! दूरतरं याहि, मुञ्च मुञ्च कुलक्रमं । शौच! व्रज त्वमन्यत्र, अकालोऽयं भवादृशाम् ॥१८४॥ कुरङ्गकेसरा त्राण-मत्राणस्य ममाधुना, ततो मया समारब्धा । तया सार्धं रतक्रिया ॥१८५॥ अत्रान्तरे समायातः, शृङ्गवैरो वनान्तरात् । एतद् दृष्ट्वाऽतिरुष्टेन, शापो दत्तस्तपस्विना ॥१८६।। हस्तपादशिरोभिश्च, लोष्टकल्पेच हि त्वया । भ्रमितव्यं महाटव्या-मेष ते पापनिग्रहः ॥१८७।। सादरं पादलग्नेन, क्षामितोऽसौ मया मुनिः । शेषतापसलोकैश्च, दृष्टान्तेन प्रबोधित: ॥१८८॥ किं वराक: करोत्येष, सद्धिवेकविवर्जितः । शक्रादयोऽपि नो शक्ता:, कर्तुमिन्द्रियनिग्रहम् ।।१८९।। कार्याकार्यं न जानन्ति, जीवा मन्मथपीडिता: । अपदेऽपि प्रवर्तन्ते, यतोऽवाचि विचक्षणैः ॥१९॥ किमु कुवलयनेत्रा: सन्ति नो नाकनार्य-स्त्रिदशपतिरहल्यां तापसीं यत् सिषेवे । हदयतृणकुटीरे दीप्यमाने स्मराना-वुचितमनुचितं वा वेत्ति क: पण्डितोऽपि ? ॥१९१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org