________________
अधिकार २ / श्लोक ५०-५९ / गन्धपूजायां रत्नसुन्दरकथा २
ज्वलज्ज्वालावलीसङ्गं, पश्यतां भयकारणम् । अहो कर्मवशाज्जीवै - जवद्भिः किं न दृश्यते ॥ १३९ ॥ उद्वसितमिवाभाति, जनलक्षसमाकुलम् । कान्तारसदृशं कान्तं, पुरं नाथ ! त्वया विना ॥ १४० ॥ त्वया त्यक्तापि नो त्यक्ष्ये, भवन्तं चुम्बकोपलम् । मम चित्तायसं यस्मा त्वमाकर्षसि दूरतः ॥ १४१ ॥ नीतिरेषा जने रुढा, धर्मोऽयं मनुनेरितः । मृतमप्यनुगच्छन्ति, भर्तारं कुलकन्यकाः ॥१४२॥ एवंविधसमुल्लाप-सञ्जातकरुणैर्जनैः । भणिताऽर्त्तिर्न कर्तव्या, यदेषैव भवस्थितिः ॥१४३॥ एतच्छ्रुत्वा जनोल्लापं, बहिर्दर्शितशोकया । लोकानां रञ्जनाहेतो, रुदन्त्या भणितं तया ॥ १४४॥ यदि मे स्वजना यूयं सुहृदो वाऽथ वत्सलाः । सम्पादयत सर्वेऽपि, मामकीनमिदं वचः ॥ १४५ ॥ कुरुतैकां चितां गुर्वी, सारकाष्टविनिर्मिताम् । निर्वापयामि येनेदं, दुःखदग्धं शरीरकम् ॥१४६॥ प्रविक्ष्यामि शिरस्यस्य, दत्त्वा बाहूपधानकम् । परलोकगतस्यापि भवाम्युत्सङ्गशायिनी ॥ १४७॥ श्रुत्वेदं विस्मितो लोकः, शिरोधूननपूर्वकम् अहो महासती धन्या जगादेदं परस्परम् ॥ १४८॥ पतिभक्तं गुणे सक्तं, शीलाभरणभूषितम् । एवंविधं कलत्रं हि, नाल्पपुण्यैरवाप्यते ॥१४९॥ साता बन्धुभिर्गे, नीतं भर्तृकलेवरम् । विधाय तस्य संस्कारं, यथास्थानं गता जना: ॥ १५० ॥ रोरेदमपि सन्दृष्टं, मदीयं वैशसं त्वया । न कार्यः स्त्रीषु विश्वास, उपदेशोऽयमुत्तमः || १५१ ॥ कुमारस्तत्तथा दृष्टवा, चिन्तयामास मानसे । पुस्तकानि पठन्तोऽपि, स्त्रीचरित्रं न जानते ॥ १५२ ॥ प्रथमं मारितो भर्ता, पश्चाज्जारोऽपि घातितः । ततोऽपि रञ्जितो लोकः स्वयं जाता महासती ॥१५३॥ अलब्धान्तःप्रवेशाय, कूटकपटवेश्मने । संसारतरुबीजाय, स्त्रीवृत्ताय नमो नमः ॥१५४॥ सर्पिण्येव महाभीति-कारिण्या वक्रचर्यया । यज्जीव्यते तदाश्चर्यं समीपस्थितयानया ॥ १५५ ॥ अयशश्च निजो वासः, अकीर्ते: कुलमन्दिरम् । दुर्गतौ गच्छतां पुंसां, समा सोपानपङ्क्तिका ॥१५६॥ सर्वाभ्याख्यानशस्यानां, क्षेत्रं दुष्कर्मणां खनिः । सत्यशौचबहिर्भूता, महासाहसकारिणी ॥ १५७॥ लालिताः पालिताः पुत्राः परपुत्रीप्रतारिताः । तृणायापि न मन्यन्ते, मातरं पितरं गुरुम् ॥ १५८॥ बन्धुभिश्चित्तविश्लेषं, कुर्वन्ति कारयन्ति च । क्लेशं विनापि कार्येण, कष्टंकष्टाः खलु स्त्रियः ॥ १५९ ॥ अकन्दराः स्त्रियो व्याघ्यो, विना भोज्यं विसूचिका: ।
सञ्चरन्त्यः स्वपादाभ्यां नार्यो ह्यार्य ! भयङ्कराः ॥ १६० ॥
शृङ्खलारहितो बन्धो, मालिन्यं कर्दमं विना । महासाहसशस्यानां वनिता वनिसन्निभा ॥ १६९ ॥ यथैव राजहंसेन, भ्रमरेण समं तथा । पद्मिनी कुरुते सङ्ग, निर्विवेका हि योषितः ॥ १६२॥ कुलीनेति विशुद्धेति, स्त्रीविश्रम्भो न सङ्गतः । यतोऽमला दीपशिखा, कुरुते मलिनं गृहं ॥ १६३ ॥ एवं खेदसमापन्नः, कुमारो रत्नसुन्दरः । यक्षागारं समायातो, बहुकार्पटिकाकुलम् || १६४|| भुक्त्वौदनं पयः पीत्वा, निरारम्भो निराकुलः । वेदिकैकां समाक्रम्य, निषण्णः क्षितिपाङ्गजः ॥ १६५॥ नानादेशसमायाता, नानानेपथ्यधारिणः । क्रोधिनो बहुरूपाश्च नानाभाषाविचक्षणाः || १६६ ||
1
For Private & Personal Use Only
Jain Education International
५९
www.jainelibrary.org