________________
५८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
सूरिणा भणितं भद्र,! प्रतिपत्तिर्न दुष्करा । गृहीतपालना गुर्वी, सैव सर्वसुखावहा ॥११०।। तत्र यत्नो महान्कार्य:, सत्यवाक्या महाधियः । प्रतिपद्य ये न कुर्वति, ते नूनमधमाधमाः ॥१११।। तथा त्वं प्रतलीभूत-चतुर्गतिगमागमः । सर्वसौख्यखनिर्जातो, गन्धपूजाप्रभावतः ॥११२॥ अत्रैव नगरे राज्यं, भोगा जनमनोहरा: । पर्यन्ते निर्मला दीक्षा, ततस्ते सिद्धिसङ्गमः ॥११३।। वियोजित: सवित्र्या य-न्माधवेन सता त्वया । कुरङ्गीतनयस्तेन, वियुक्तस्त्वं सहाम्बया ॥११४॥ नित्यं धर्मेण वर्धस्व, किमन्यद् ब्रूमहे वयं । वर्तमानेन योगेन, यास्यामोऽतो वयं प्रगे ॥११५॥ विहृता: सूरयोऽन्यत्र, मुदितो रत्नसुन्दरः । सद्धर्मरत्नलामेन, सन्तुष्टो निजमानसे ॥११॥
अन्यस्मिंश्च दिने नक्तं, भिक्षाकार्येण निर्गतः । भ्रमन् गृहाद्गृहं चैष, सम्पाप्तश्चैकमन्दिरे ॥११७॥ विशाले स्वल्पमानुष्ये, व्याधिगृहीतनायके । पुष्पताम्बूलकर्पूर-पूर्णसज्जितभाजने ॥११८|| निर्गतैकाबला भिक्षा-मादाय करकुड्मले । दत्ता तया गृहीता च, भणिता तेन सा यथा ॥११९।। करोमि भोजनं भद्रे,! नयाम्यत्रैव शर्वरीम् । प्रभातेऽहं गमिष्यामि, यदि व: प्रतिभासते ॥१२०॥ तयापि दर्शितं तस्य, शून्यमेकं कुटीरकम् । भुक्त: सुप्तश्च तत्रैव, शृणोत्येवंविधं वचः ॥१२१॥ पाहि पाहि पय: पापे!, म्रियेऽहं तृषयाधुना । ततस्तया विषं क्षिप्त्वा, स पय: पायितो रुषा ॥१२२॥ समागतो विट: कोऽपि, कृता प्रगुणता तया। कियानपि गत: कालो, विषयासक्तयोस्तयोः ॥१२३।। विटेन भणिता किं न, गृहस्वामी प्रजल्पति । सुखसंवेदनादद्य, लब्धनिद्रो भविष्यति ॥१२४॥ तेनोक्तं महतीर्वारा:, पय:पानं न याचते । अतिनिद्रापितो भद्र!, सोऽपि चेतसि शङ्कित: ॥१२५॥ स्वल्पस्नेहो विषण्णश्च, कामक्रीडापराङ्मुखः । ताम्बूलान्तर्विषं दत्त्वा, तया सोऽपि निपातित:।१२६। कुटीरकात्समाहूया-नीत: कार्पटिकस्तया । भणितश्च गृहाणेदं, मुखमूले कलेवरम् ।।१२७॥ स्वयं च पादयोर्लग्ना, नीतं तद्गृहपुष्टत: । प्रक्षिप्तं विजले कूपे, व्यतीता जारसङ्कथा ॥१२८॥ कचवरेण चाच्छाद्य, समागत्य निजे गृहे । सुप्ता निराकुला याव-त्ताम्रचूडेन वासितम् ॥१२९॥ भूयोऽपि च समुत्थाय, गता तस्मिन् कुटीरके । स्वप्रपञ्चाप्रकाशार्थं, सदर्प जल्पितं तया ॥१३०॥ मुहर्तमेकमत्रैव, स्थेयं भिक्षाचर! त्वया। विसर्जितेन गन्तव्यं, प्रपन्नं तेन तद्वचः ॥१३१॥ मुक्तकेशा निरानन्दा, दुःखसम्भारभारिता । सशोकेव कृताक्रन्दा, सदु:खेव रुरोद सा ॥१३२॥ मिलितो हेलया लोको, दृष्ट्वा तां दु:खदुःखिताम् । रुदन्तीं भर्तृनामानि, समुच्चार्य पुनः पुनः॥१३३।। पृष्टा च तेन किं भद्रे! रोदितव्ये निबन्धनम् । न ददाति वचस्तेषां, रुदत्येव हि केवलम् ॥१३४॥ हा नाथ! दुःखितां मुक्त्वा-ऽशरणां मां कृपास्पदाम् । गच्छन्नपि न विज्ञातो, हृदयस्थोऽपि सर्वदा।१३५। हा विधे! ते कृपा नास्ति, कि कृतं मूढ वैशसम् । यत्प्रियोऽपहृतश्चित्ता-द्रक्षिताहं कुतोऽधुना ॥१३६॥ किं गुणान् वर्णयाम्यस्य, किं सौभाग्यं मनोरमम् । किं रूपं कि मतिं त्यागं, किं भोगं विस्मयावहम्॥ मांसलौ परिघाकारौ. करौ कनककोमलौ । मदङ्गसङगमं त्यक्त्वा, कथमेतौ करिष्यत: ?॥१३८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org