________________
अधिकार २ / श्लोक ५०-५१ / गन्धपूजायां रत्नसुन्दरकथा २
५७
मृगस्य मार्गतो लग्नो, मारयामीति चिन्तयन् । धावमानोऽपतद्भूमौ, स्खलितो विषमस्थले ॥८६॥ लब्ध्वाऽन्तरं कुरङ्गोऽपि, नश्यन्नुच्वैर्भयातुरः । वटस्याधो मुनिं दृष्ट्वा, तत्समीपमुपागतः ।।८७॥ रक्ष रक्ष महाभाग!, कुरु त्राणं दयानिधे! । इत्युक्त्वा च मृगो नत्वा, साधवे शरणं गतः ॥८८।। माधवोऽपि समुत्थाय, लग्न: सारङ्गपृष्ठतः । साधो: पादान्तिकं प्राप्त:, साधुनैवं प्रजल्पितः ।।८९।। पप्राणप्रहाणेन, निजप्राणप्रधारणम् । न तत्सन्त: प्रशंसन्ति, शरं संहर माधव ! ॥९०॥ कोदण्डं विगुणं कृत्वा, शरं संहृत्य सत्वरम् ! नमस्कृत्य मुने: पादौ, निषण्ण: सोऽपि भूतले ॥११॥ पृष्टश्च स मुनिस्तेन, भाषते किमयं मृग: ? मुञ्चन्नधूणि शोकार्तः, साधुः प्राह निशामय ॥१२॥
त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली, । विश्रम्भस्थितिहेतवो न गणिता बन्धूपमा: पादपां: ।।९२॥ बालापत्यवियोगदुःखविधुरा मुक्ता मृगी वल्लभा,।।
धावन्त: पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति मे ॥१३॥ मामेवं कथयत्येष, स्वदुखं निजया गिरा । यतो मातृसम: प्रोक्तः, साधुवर्ग: शरीरिणाम् ॥१४॥ तवापि युज्यते नैव, कर्तुं कर्म सुनिघृणम् । परं मारयता येन, भवत्यात्मापि घातितः ॥१५॥ क्रियन्ते यानि कर्माणि, रागद्वेषविसंस्थुलैः । तेषां फलविपाकं हि, जानाति यदि केवली ॥९॥
यत: हन्मीति जन्मजनितं सुकृतं निहन्ति, शस्त्रग्रहस्त्रिभवसम्भवमेव धर्मम् ।
शस्त्राभिघातसमये शतजन्मजातं, सर्वं निहन्ति सुकृतं सति जीवधाते ॥१७॥ आत्मैव घातितस्तेन, परं घ्नता न संशय: । यतो हन्यादसौ हन्ता, लभते शतशो वधम् ॥९८॥ शरासनं शरा: सर्वे, माधवेन द्विधा कृता: । श्रुत्वा धर्मं दयासारं, मुनिमुखाद्विनिर्गतम् ॥९९।। संसाराम्बुधिमग्नेन, यानपात्रसमो मया । सम्प्राप्तस्त्वं च 'लप्स्येऽहं, पारं धर्मप्रभावतः ॥१००॥ जीवघातान्निवृत्तोऽहं, यावज्जीवं तवाग्रत: । निशि भक्तं सुरापानं, मांसमद्मि न सर्वदा ॥१०१।। भद्रकत्वं समापन्नो, देवभक्तिपरायण: । गुरुपूजारतो नित्यं, कालं नयति माधवः ॥१०२॥ अन्यदा च समायात:, सुगन्धपुटिको नर: । प्रयोजनवशात्कोऽपि, गन्धको माधवान्तिकम् ॥१०३।। प्रदत्तो रुपकस्तस्मै, गन्धान् जग्राह माधव: । भावसारं स्वहस्तेन, तेन तैरर्चितो जिन: ॥१०४॥ पुण्यानुबन्धि यत्पुण्यं, गन्धपूजां प्रकुर्वता । निर्वर्तितं तदा काले उदयस्तस्य साम्प्रतम् ॥१०५।। ततो दानरतो मृत्वा, मध्यमगुणयोगत: । जातस्त्वं सुन्दराकारः, स्वर्णसुन्दरन्दनः ॥१०६॥ एतत् श्रुत्वा कुमारोऽपि, रोमाञ्चाञ्चितविग्रहः । सानन्दः सूरिपादान्ते, श्रावकत्वं प्रपन्नवान् ॥१०७।। सर्वज्ञो देवता मां, गुरुवस्तु सुसाधवः । सर्वज्ञोक्तो दयासारो, धर्मो धर्मधिया मम ॥१०८।। अस्तं गते दिवानाथे न करोमि भुजिक्रियाम् । करोमि स्मरणेनापि, त्रिसन्ध्यं चैत्यवन्दनम् ॥१०९॥ १ लास्ये-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org