________________
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
किम्पाकफलकल्पेभ्यो, विषयेभ्य: पराङ्मुखा:। ये नरास्तान्नमस्यामि, त्रिसन्ध्यं शुद्धचेतसा ॥५७॥ हा कष्टं वञ्चितो लोको, दीर्घकालं विसंस्थुलैः । विषयैर्विषमासङ्गै-विषवन्मारणात्मकैः ॥५८॥ स्वर्गेऽपि मोहिता: सन्तो, हिताहितपराङ्मुखा: । च्युत्वा गर्भगृहे भूयो, विण्मूत्रकृतलेपने ॥५९॥. वसन्त्यतीवबीभत्से, दुर्गन्धेऽत्यन्तदुस्सहे। चर्मजालकसञ्छन्ना: पित्तश्लेष्मादिमध्यगा: ॥६०॥ जनन्याहारनि:ष्यन्दं, लिहन्तो नाडिकाच्युतम् । पिण्डीकृतसमस्ताङ्गा, दुःखसम्भारपीडिता: ॥६१॥ गर्भाद्विनिर्गता: सन्तो, नियमाचारवर्जिता: । जीवघातरता धर्मे, विषीदन्ति पदे पदे ।।६२।। तथा चात्रानृतं वाक्यं, वर्जनीयं प्रयत्नतः । हिंसाया: कारणं तद्धि, सा च संसारकारणम् ।६३।। स्तेयं च दुरतस्त्याज्यं, परस्त्री मातृसन्निभा । द्रव्येच्छापरिमाणं च, कर्तव्यं सुविवेकिना ।।६४।। उक्तं च भोजनत्याग:, सदाचारप्रर्वतनम् । मर्यादावर्तनं चैव, धर्मोऽयं सिद्धिसाधनः ॥६५॥ श्रुत्वेदं सूरिसद्वाक्यं, संविग्नो रत्नसुन्दरः । पप्रच्छ प्रणतिं कृत्वा, व्यतीतं भवमात्मनः ॥६६॥ चतुर्ज्ञानोपगूढात्मा, विनयेनोपसेदुषे । रत्नसुन्दरभूपाय, जगाद मतिसागरः ॥६७|| कुमार शृणु सक्षेपा-त्पूर्वजन्मविचेष्टितम् । न हि निष्कारणं कोऽपि, वेत्ति जन्तुः सुखासुखम् ।।६८|| मगधेषु मागधग्रामे, माधव: कुलपुत्रकः । भवानभवद्भार्या च, माधवी बद्धमुष्टिका।। मधुसूदननामा च, माधवस्य सहोदरः । मधुसूदनी तद्भार्या, धर्मकर्मपरायणा ॥७०॥ पापर्धी च रत: प्राय:, स्वभावेनैव माधव: । माधवी च महालोभा, न दत्ते कस्य किञ्चन ॥७१॥ एवं सरति संसारो जीवघातरतस्य ते । कटुकानि प्रजल्पन्त्या, माधव्या भिक्षुकानभि ।७२।।। अकुलीनेति वन्ध्येति, दुर्मुखेति च निन्दिता । सर्वभिक्षुकसार्थेन, कालं नयति माधवी ७३॥ अन्यदा च महाटव्यां, माधवो मृगयां गतः । दृष्टैका हरिणी तेन, मृगशावसमन्विता ॥७४॥ गत्वाऽतिवेगतो हस्ते, गृहीतो हरिणीसुतः । भीतभीता मृगी नष्टा, पश्यन्ती पुत्रकं निजम् ।।७५।। बद्ध्वा वल्लीवितानेन, शावं तं लोललोचनम् । धावितो मृगयूथस्य, वधायाधिज्यकार्मुकः ॥७६।। अथासौ दैवयोगेन, कन्दमूलफलार्थिना । अटवीमटता दृष्ट-स्तापसेन मृगीसुत: ।।७७।।। मोचितो बन्धनात्तेन, करुणाकृष्टचेतसा । गत्वा च मिलितो मातु-र्मोदते कान्तकानने ॥७८।। दूर दूरतरं नीतो, मृगयूथेन माधवः । सिंहनादं तत: श्रुत्वा, माधवेन पलायितम् ॥७९|| नश्यता तेन दृष्टा च, मृगी प्रसवधर्मिणी। अपत्यस्नेहसम्भार-तन्तुसन्दृब्धमानसा ||८|| इतश्चेतश्च निक्षिप्त-चलच्चकितलोचना। लिहन्ती जिह्वया पुत्रान्, महामोहपरायणा ॥८१।। मृगश्च तत्समीपस्थ: कण्डूययन्मृगीतनुम् । अहो कामस्य माहात्म्यं, पशूनामपि दुर्जयम् ॥८२॥ वनात्तृणानि भक्ष्याणि, वनाच्च विमलं जलम् । मृगमृग्योस्तथाप्युच्चैः, प्रेमाजन्म निरन्तरम् ॥८३।। सिंहनादभयं मुक्त्वा, पुन: सञ्जातपौरुष: । आकृष्टशरस्तरसा, धावितस्तज्जिघांसया ॥८४॥ एकतो हरिणी नष्टा, ह्यन्यतो मृगपोतका: । मृगश्चाप्यन्यतो नष्टो, वियुक्तं तत्कुटुम्बकम् ।।८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org