________________
अधिकार २ / श्लोक ५०-५९ / गन्धपूजायां रत्नसुन्दरकथा २
पप्रच्छ कुशलं मातुः, कुतस्तेऽत्र समागम: । प्रोवाच वत्स! जाताहं, मृत्वा नाम्नासुलोचना॥२८॥ यक्षिणी जगति ख्याता, क्रीडन्तीह समागता । भवद्दर्शनसम्भ्रान्ता, सम्प्राप्ता च तवान्तिकम् ॥२९॥ स नीतश्च तया तूर्णं, विधाय करकुङ्मले। पुरे पुरिमतालारव्ये, उत्तराशाशिरोमणौ ॥३०॥ निधानानि समस्तानि, करस्थानीव पश्यति । अनेनाञ्जितनेत्रो हि, पुरुषो मेदिनीतले ॥३१॥ तदिदं दृष्टसामर्थ्यम्, करस्थं कुरु पुत्रक !, । भूयोऽपि व्यसने वत्स!, स्मर्तव्याहं विशेषतः ॥३२॥ इत्युक्त्वा सा गता देवी, निजस्थानं सुलोचना । दूरादेव कुमारण, दृष्टमेकं सरोवरम् ॥३३॥ गत्वा तत्राञ्जिते नेत्रे, भ्रान्त: पाल्यां समन्तत: । दृष्टानि च निधानानि, सञ्जातो हृदि निश्चयः ॥३४॥ ततश्च तत्सरो दृष्टं, पद्मखण्डविराजितम् । स्फटिकाकाशशुभ्राभिः, शिलाभिर्बद्धभित्तिकम् ॥३५॥ नानारत्नशिलासार्था-ञ्चितसोपानपङ्क्तिकम्, । कलकूजितविभ्रान्त-शकुन्तगणसङ्कुलम् ॥३६॥ शुभ्रादभ्रपय:पूर्णं, कल्लोलालिविराजितम् । घनपल्लवसच्छायं, लतामण्डपमण्डितम् ॥३७॥ प्रविश्यान्त:कृतस्नानो, लोचनक्षालिताञ्जन: । पय: पीत्वा समुत्तीर्णः, स्वर्णसुन्दरनन्दनः ॥३८॥ सरोवरसमासन्ने, उद्याने गुणसुन्दरे। शिष्यसङ्घसमायुक्ता:, सूरयो मतिसागरा: ॥३९॥ सागरादपि गम्भीरा, मेरोरपि गरीयसः । पूर्णा: परमरूपेण, हेपयन्तो रुचा विधुम् ॥४०॥ नानातिशयसम्पन्नाः, सर्वसत्त्वहितावहा: । धर्मध्यानसमारूढा, रागद्वेषविवर्जिताः ॥४१॥ भग्नत्रिदण्डसञ्चारा:, कषायकषणोद्यता: । ज्ञानदर्शनचारित्र - रत्नत्रयविराजिता: ॥४२॥ हृषीकाणां विजेतारो, जीवानां जननीसमा: । भयस्थानैर्विनिर्मुक्ता, मदाष्टकविवर्जिताः ॥४३॥ प्राशुके विपुले शुद्धे, भूतले जन्तुवर्जिते । उपविष्टास्तनुच्छाया-च्छादिताखिलदिङ्मुखाः ॥४४॥ सितवस्त्रा: स्वदन्तांशु-शुभ्रिताखिलदिङ्मुखाः । साधुसमूहमध्यस्था, मध्यस्था: सोममूर्तयः ॥४५॥ सजलमेघनादेन, कुर्वाणा धर्मदेशनाम् । भव्यपद्मप्रबन्धानां, बोधने नवभास्करा: ॥४६।। प्रणिपत्य कुमारेण, पृष्टा धर्मं मुनीश्वरा: । ततस्ते वक्तुमारब्धाः, परोपकृतिचञ्चवः ॥४७॥ अहिंसैव परो हेतु-धर्मस्योक्तो जिनेश्वरैः । शेषस्तु परिवारोऽस्य, सत्यवादादिरिष्यते ॥४८॥ यां यां जीवा: प्रपद्यन्ते, गतिं कर्मवशानुगाः । तत्र तत्र प्रकुर्वन्ति, रतिं हिंसानिबन्धने ॥४९॥ योको वसुधां दद्या-दन्यो दद्याच्च जीवितम्। विहाय वसुधां भीतो, जीवो गृह्णाति जीवितम्॥५०॥ किमत्र बहुनोक्तेन, स्वसंवेद्यमिदं नृणाम् । यथा स्वं जीवितं कान्तं, सर्वेषां प्राणिनां तथा ॥५१॥ तस्मादेवंविधं मूढा, जीवितं ये शरीरिणाम् । हरन्ति रौद्रकर्माण:, पापं किं किं न तैः कृतम् ? ॥५२॥ जीवानां जीवितं हृत्वा, कर्मभारगुरूकृता: । पतन्ति नरके जीवा, अय:पिण्डो यथा जले ॥५३॥ मधु श्रवन्ति ये वाचा, हृदये विषदारुणा: । कायेन पापकर्माणि, कुर्वते ते नराधमा: ॥५४॥ शिष्टाचारविनिर्मुक्ता, यथाकामविचारिणः । ते भ्रमन्ति दुरात्मान-स्तिर्यग्गर्भपरम्पराम् ॥५५॥ विषयेभ्यो जना: सौख्यं, कीदृशं नाम जायते । यत्र प्रत्युत दुःखाना-मुपर्युपरि सन्ततिः ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org