________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
गन्धपूजायां रत्नसुन्दरकथा
पुष्पपूजाफलं प्रोक्तं, स्वर्गमोक्षप्रसाधकम् । साम्प्रतं गन्धपूजाया:, फलं शृणुत कथ्यते ॥१॥ समस्ति सर्वदेशानां, सारभूतो महीतले । बङ्गाजनपदो नाम्ना, पदं नि:शेषसम्पदाम् ॥२॥ रत्नादिखनिभिर्यत्र, क्षरन्तीभिर्वरं वसु । जनर्द्धिहेतुभूताभि-यथार्था सा वसुन्धरा ॥३॥ बङ्गाजनपदे तस्मिन्, नगरं रत्नसञ्चयम्। निवास: सर्वरत्नानां, रम्यं जनमनोहरम् ।।४।। रराज यत्सदाकालं, सदन्तैर्मत्तवारणैः । सद्गृहैश्च समुत्तुङ्गैः, सदन्तैर्मत्तवारणैः ।।५।। द्विरदेषु मदो यत्र, धातूनां सोपसर्गता। निपातनं च शब्देषु, कुचेषु करपीडनम् ॥६॥ द्विजिह्वता भुजङ्गेषु, परचिन्ता च योगिनाम् । वनितोदरेषु तुच्छत्व-मोष्ठेष्वधरसम्भव: ॥७॥ बभूव तस्य देशस्य, नगरस्य च शासिता । राजा सर्वजनानन्दो, नाम्ना कनकसुन्दरः ॥८॥ अचिन्त्यशक्तिसंयुक्तो, गुरुतेजा महाभुजः । विक्रमाक्रान्तनि:शेष-महीपालनतक्रमः ॥९॥ सवृत्तेन कुलं यस्य, यशोभिःशीलमुज्ज्वलम् । शरदभ्रनिभैः कान्तै-र्गुणै रूपं च पप्रथे ॥१०॥ तस्याजनि जनी देव-पादपङ्कजभृङ्गिका। निर्धातस्वर्णवर्णाभा, रत्नमालेति विश्रुता ॥११॥ सर्वातिशायिशब्दादि-विषयास्वादनिष्ठयोः । याति काल: सुखेनैव, निबिडस्नेहयोस्तयोः ॥१२॥ अन्यदा सुन्दराकार:, शुभस्वप्नेन सूचित: । जातस्तमोर्जनानन्दी, तनयो रत्नसुन्दरः ॥१३॥ द्वासप्ततिकलावेदी, सञ्जात: स्वल्पवासरैः । मृता माता कुमारस्य, पिता स्नेहेन पश्यति ॥१४॥ सपत्न्यो मातर: सर्वाः, प्रतिकूला: समत्सरा: । परिवारोऽप्युदासीन:, सर्वोऽपि कुमरं प्रति ॥१५॥ अन्यदा देशपर्यन्ते, कनककेतुर्भूमिप: । स्वर्णसुन्दरभूपस्य, न सेवां प्रतिपद्यते ॥१६॥ आज्ञाभङ्गे समुत्पन्ने, दूतवचनफूत्कृत: । स्वर्णसुन्दरभूपस्य, दिदीपे कोपपावकः ॥१७॥ स चचाल महाद्वेषा-च्चतुरङ्गबलान्वित: । गत्वा च तं विनिर्जित्य, वलित: सत्वरैः पदैः ॥१८॥ कुमारोऽपि पराभूति-दुःखदुःखितमानस: । निशीथे नक्तमेकाकी, सखड्गोऽलक्षितो जनैः ॥१९॥ उत्तरायणसङ्क्रातौ, मन्दतेजा: शनै: शनैः । सुवृत्त: कनकच्छाय:, सवितेव चचाल सः ॥२०॥ भिक्षाभोगी गतस्नानो, रुक्षदेहो महीशय: । यत्याचारधरो धीरः, परं नियमवर्जितः ॥२१॥ विधिरेवोन्नतिं नीत्वा, निपातयति देहिनम् । एकजन्मनि जीवानाम्, दर्शयति द्विजन्मताम् ॥२२॥ अन्यस्मिंश्च दिने सुप्तो, दृष्टोऽयं रत्नमालया। वटस्याधो महाटव्या-मेकाकी रत्नसुन्दरः ॥२३।। स्पृष्टः पादतले मात्रा, प्रबुद्धश्च ससम्भ्रम: । गाढं कण्ठग्रहं कृत्वा, मुक्तकण्ठं रुरोद सा ॥२४॥ कथं पुत्र ! महाटव्या-मेकाकी त्वं समागतः । वृत्तान्त: कथितस्तेन, पराभूतिसमुद्भवः ॥२५॥ भोजितो भोजनं भव्यं, पायितो निर्मलं जलम् । विलिप्ताशेषगात्रश्च, चन्दनेन सुगन्धिना ॥२६॥ कर्पूरपूरसन्मिश्रो, दत्तस्ताम्बूलबीटक:, । स्वस्थावस्थ: सुखासीन:, कुमार: स्वस्थचेतन: ।।२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org