________________
अधिकार २ / श्लोक ५०-५९ / पुष्प पूजायां रत्नचन्द्रकथा १
ॐ नमोऽर्हत इत्यादि, स्वाहान्तं पदमुच्चरन् । मुञ्चन् पदे पदे पुष्पं, सर्वदुःखैर्विमुच्यते ॥२९०॥ अङ्गानङ्गप्रविष्टं हि, श्रुतं व्याप्य व्यवस्थितः । एष एव महातत्त्वं, कथितस्तत्त्ववेदिभिः ॥२९१।। शेषश्रुतं परित्यज्य, मरणे समुपस्थिते । एष एव बुधैर्येय:, कर्मनिर्मूलनाकृते ॥२९२॥ यदि भक्तिनमस्कारे, शक्ति: संसारलङ्घने । अभक्तिश्चेन्नमस्कारे, न शक्तिर्भवलङ्घने ॥२९३॥ ऐहिकानि फलान्यस्य, प्रसिद्धानि पदे पदे । कियन्ति तव कथ्यन्ते, जानाति यदि केवली ॥२९४।। किञ्चात्र ये महापापा, निर्भाग्या: पुरुषाधमा: । न पठन्ति नमस्कारं, न चापि बहु मन्वते ॥२९५।। य एव भाविकल्याणा:, पुण्यभाजो नरोत्तमा: । त एव हि नमस्कार, पठन्ति विहितादरम् ।।२९६।। किं भूरिभाषितेनात्र, राजंस्तत्त्वं निशामय । नमस्कारे मनो यस्य, भवाब्धिस्तस्य गोष्पदम् ॥२९७।। तदेतदस्य सामर्थ्य, सक्षेपेण निदर्शितम् । विशेषेण पुनः कोऽस्य, गुणान् वर्णयितुं क्षम: ॥२९८॥ एतच्छ्रुत्वा जन: सर्वो, जिनपूजाकृतादरः । पञ्चमङ्गलपाठे च, प्रवृत्तो विधिपूर्वकम् ।।२९९।। अथ स्वकर्द्धितुष्टेन, रत्नचन्द्रेण भूभुजा । समयं प्राप्य सम्पृष्टा, दमघोषमुनीश्वराः ॥३००।। भगवन् ! किं मया पूर्व-जन्मन्यासेवितं शुभम् । येनेदृक्षा महाभोगा, भूपत्वे समुपस्थिताः ॥३०१।। अथोचुरवधिज्ञान-विज्ञातभवविस्तरा: । सजलाम्भोदनादेन, नर्तयन्तो मयूरकान् ।।३०२॥ प्रभवो दमघोषाख्या:, सर्वसत्त्वहितावहा: । पुरे राजगृहे राज-नासीस्त्वं पुष्पशेखरः ॥३०३।। मालाकारो महारम्भ:, स्वभावेनैव भद्रकः । एकदा च समायात:, पुष्पाण्यादाय मन्दिरे ॥३०४॥ जैने जनसमाकीर्णे, जातस्नात्रमत्रहोत्सवे । दृष्ट्वा जैनेश्वरं बिम्ब, भक्तिरुल्लसिता तव ॥३०५॥ सुगन्धपञ्चवर्णानां, पुष्पाणां भक्तियोगत: । माला स्वयं समादाय, पूजितो जिननायकः ॥३०६।। सञ्जाता परमा श्रद्धा, संसार: प्रतलीकृत: । बद्धं परभवायुष्कं, भोगसारं तदा त्वया ।।३०७॥ मृत्वा चेह समायातो, रत्नशेखरमन्दिरे । यत्पूजोपार्जितं पुण्य-मुदीर्णमिह तेऽधुना ॥३०८॥ इतो देवगतिं गत्वा, भूत्वा च नृपनन्दनः । विधाय निर्मलां दीक्षां, गन्ता त्वं शाश्वते पदे ।।३०९।। श्रुत्वेदं रञ्जितो राजा, धर्मेऽत्यन्तं स्थिरोऽभवत् । नत्वा सूरि गतो गेहे, श्रावकत्वमपालयत् ॥३१०॥
इति पुष्पपूजाकथानकं समाप्तम् ।। श्रीरस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org