________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततो राजाब्रवीदेवं, नास्त्यसाध्यं सुकर्मणाम् । विपदोऽपि हि पुत्रस्य, सम्पदो विधिना कृताः ॥२६२।। कालेन गच्छता जाता:, पुत्रा जनमनोहरा: । कुमारस्य कृतार्थोऽस्मि, मुदितो मेदिनीपतिः ॥२६३।। ततो दत्त्वा निजं राज्यं, रत्नचन्द्राय धीरधी: । धर्मस्थाने धनं भूरि, विनियोज्य विधानतः ॥२६४।। दमघोषमुनीन्द्राणां, समीपे व्रतमुज्ज्वलम् । विधाय विधिना धीरो, जगाम त्रिदशालयम्॥ रत्नचन्द्रनरेन्द्रोऽपि, पालयामास हेलया। स्वराज्यं नामिताशेष-भूपालकृतसन्नतिः ॥२६६।। साधिताशेषदुर्दान्तं, पालिताखिलधार्मिकम् । कोषागारादिसम्पूर्णं, सुरञ्जितजगज्जनम् ॥२६७।। समुल्लसद्यशोराशि-धवलीकृतभूतलम् । एकातपत्रमुत्खात-कण्टकं मेदिनीतलम् ॥२६८॥ कान्तकान्तासुखासक्तो, धर्मार्थकृतसेवनः । सर्वलोककृतानन्दो, कालं नयति भूपतिः ॥२६९।। एकदा च समागत्य, पुरुषेण ससम्भ्रमम् । विज्ञप्तोऽसौ यथा देव! दयासुन्दरनामके ॥२७०।। त्वदुद्याने समायाता, दमघोषमुनीश्वरा: । प्राशुके भूमिभागे च, तस्थुः शिष्यगणान्विताः ॥२७१।। तच्छ्रुत्वा रञ्जितो राजा, दत्त्वास्मै पारितोषिकम् । पुरुषं प्रेषयामास, चतुरङ्गबलान्वितः ॥२७२।। स्वयं चचाल जात्याश्व-खुरोत्क्षुण्णमहीतलः । दमघोषमुनीन्द्राणां, वन्दनाय धराधिपः ॥२७३।। गत्वा प्रदक्षिणापूर्वं, वन्दित्वा भक्तियोगत: । नातिदूरे न चासन्ने, स निषण्ण: कृताञ्जलि: ।।२७४॥ प्रारब्धा दमघोषेण, सूरिणा र्धमदेशना । आदौ धर्मस्य सम्यक्त्वं, तस्य शुद्धिविधायकम् ॥२७५।।
चैत्यवन्दनमाख्यातं, तच्च पूजापुरस्सरम् । पूजा च मुखकोषादि-विधानेन महाफला ॥२७६।।। परिणामोऽपि पूजाया:, समीहितफलप्रदः । विधानं विधिना दत्ते, किं किं नात्र शरीरिणाम् ? ॥२७७।। यत:-चैत्यपूजनत: सम्यक्, शुभो भाव: प्रजायते । तस्मात्कर्मक्षय: सर्वं, तत: कल्याणमश्नुते ॥२७८॥ एए एव जगत्सार:, शुभो भाव: प्रकीर्तितः । एष एव जगत्त्राण-मेष एव च बान्धवः ॥२७९॥ एष एव भवावर्ते, पततामवलम्बनम् । एष एव भवाटव्या-मटतां मार्गदर्शकः ॥२८०॥ एष एव भिषक्कल्पः, सर्वव्याधिनिषूदनः । एष एव गदोच्छेद-करणे परमौषधम् ॥२८१।। एष एवं महामन्त्रः, परमानन्दकारणम् । एष एव परं तत्त्वं, सम्मतं तत्त्ववेदिनाम् ॥२८२॥ एष एव कुमानुष्य-दु:खविच्छेददायकः । एष एव कुदेवत्व-मन:सन्तापनाशक: ।।२८३॥ एष एव महामोह-वृक्षोच्छेदकुठारकः । एष एव महानिद्रा-द्रावणप्रतिबोधकः ॥२८४॥ एष एव गुरुक्रोध-वह्निविध्यापने जलम् । एष एव महामान-पर्वतोद्दलने पवि: ॥२८५|| एष मायाकुडङ्ग्याश्च, दहने दवसन्निभ: । एष लोभसमुद्रस्य, शोषणे वडवानल: ।।२८६।। मत्वेदं शुभभावेन, कर्तव्यं जिनपूजनम् । तत: पूर्णविधानेन, विशुद्ध चैत्यवन्दनम् ॥२८७।। पञ्चमङ्गल महामन्त्रो, ध्यातव्यस्तदनन्तरम् । एकसन्ध्यं द्विसन्ध्यं वा, त्रिसन्ध्यं वा विधानतः ।।२८८।। अष्टावष्टाधिकं वापि, शतं वारान् जपेदमुम् । एकचित्तेन भावेन, प्रत्यहं विजनस्थितः ।।२८९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org