________________
अधिकार २ / श्लोक ५०-५९ / पुष्य पूजायां रत्नचन्द्रकथा १
नानारूपधरः कोऽयं, त्वद्रूपेण च मद्गृहे। स्थित्वा गतो न वार्तापि, कथिता तेन गच्छता ।।२३३।। साचख्यौ ज्ञातवृत्तान्ता, स्वपित्रे भर्तृचेष्टितम् । यथावज्ञाभियानेन, दर्शितर्द्धिनिजा तव ॥२३४॥ ततो रञ्जितचित्तेन, हेमचन्द्रेण जल्पितम् । अहो वीर्यमहो लब्धि-भूमिगोचरचारिणः ॥२३५॥ भूमिगोचर इत्येषा, अनास्था नैव सङ्गता। विद्याधरोऽयमित्येष, बहुमानोऽस्तु सङ्गत: ।।२३६॥ ततोऽसौ द्विगुणस्नेहः, सम्पश्यति वधूवरम् । स्वसुतातो विशेषेण, वल्लभां रत्नमेखलाम् ॥२३७॥ मेघनादेन सानन्दं, नृत्यन्ती रत्नमेखला । दृष्टा मन:प्रविष्टा च, हृत्वा नीता च पर्वते ॥२३८|| वसन्त सुन्दराह्वाने, झरनिर्झरसङ्कुले । नानावृक्षसमाकीर्णे, गुहाकूटसमाकुले ॥२३९॥ तत: सञ्जातखेदेन, हेमचन्द्रेण सादरम् । स्मृता विद्या तया सर्वः, वृत्तान्तोऽस्य निवेदितः ॥२४०॥ स्थाने स्थाने ततस्तूर्णं, सामर्षो रत्नचन्द्रकः । निषेध्य गच्छत: सर्वान्, विद्याधरमहाभटान् ॥२४१॥ एकाकी खामादाय, वार्यमाणोऽपि खेचरैः । चचाल विकटै: पादैः, खासत्त्वसमन्वित: ॥२४२।। वसन्तसुन्दरे प्राप्तो, गिरौ दृष्टश्च खेचरः । मेघनादो रुदन्ती च, सशोका रत्नमेखला॥२४३॥ समाकृष्य तत: खड्गं, रे रे भव पुरो मम । प्रजल्पन् मेघनादस्य, तूर्णमभ्यर्णमागतः ॥२४॥ लग्नं ततस्तयोर्युद्धं, मत्तद्विरदयोरिव । परस्परं महाधोरं, दूरमारुष्टचित्तयोः ॥२४५॥ जित्वा क्षणेन तं कृत्वा, प्रहारशतजर्जरम् । गृहीतमायुधं तस्य, कुमारेण बलादपि ॥२४६।। तत: संरोहिणीयोगा-त्प्रहारास्तस्य तत्क्षणम् । संरोहिता: कुमारेण, खेचर: प्रगुणोऽभवत् ॥२४७|| ततस्तस्मै स्वसा स्वीया, मेघनादेन सादरं । तत्रैवानीय संक्षेपा-दत्ता कनकमञ्जरी ॥२४८॥ कारितं च तया सार्धं, पाणिग्रहणमङ्गलम् । कुमाररत्नचन्द्रस्य, खेचरेण प्रमोदतः ॥२४९।। दत्तं च मेघनादेन, धनदेवेन पुष्कलम् । धनं कनकमञ्जर्या, लक्षश: कोटिशोऽपि वा ॥२५०॥ ददौ च रत्नवस्त्रादि, कुमारायापि खेचरः । ततो गतो निजे गेहे, तामादाय कुमारकः ।।२५१॥ सस्नेहं दृश्यमानोऽसौ, हेमचन्द्रेण भूभुजा । आस्ते तत्र प्रमोदेन, कान्तात्रयसमन्वितः ॥२५२॥ रत्नचन्द्रकुमारेण, विनम्य भणितो नृपः । साम्प्रतं तात! गच्छामि, पश्यामि पितरौ निजौ ॥२५३॥ हेमचन्द्रनरेन्द्रेण, विमानं प्रगुणीकृतम् । भृतम् च भूरिरत्नानां, मुक्तानां वरवाससाम् ॥२५४॥ युष्माभिर्यददत्ता मे, ऊढा मदनमञ्जरी । तत्तात ! मर्षणीयं मे, सन्तो हि नतवत्सला: ॥२५५।। कान्ताभि: सहितस्तत्र, विद्याधरगणान्वित: । रत्नचन्द्रः समारूढो, विमानं चलितं ततः ॥२५६।। क्षणादेव च सम्प्राप्तं, पुरे विजयवर्धने । रत्नशेखरभूपस्य, तत्रापि वरमन्दिरे ॥२५७॥ अवतीर्णः कृतातिथ्यो, रत्नशेखरभूभुजा। विद्याधरजन: सर्वः, कुमारेण विसर्जितः ॥२५८|| पितु: पादग्रहं कृत्वा, प्रणतो मातृपादयोः । लब्धाशी राजवृद्धानां, यथायोगं ननाम स: ।।२५९॥ वध्वोऽपि च यथाज्येष्ठं, प्रणेमुर्गुरुपादयोः । दत्ताशिषश्च ता: श्वश्वा, निषेदुः पादयोः पुरः ॥२६०॥ रत्नचन्द्रकुमारण, मातापित्रो: सविस्तरः । कथितो निजवृत्तान्तो, यावदन समागतः ॥२६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org