________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तस्मिन्नेव दिने नक्त-मदृश्याञ्जनयोगतः । जनोक्तं शृण्वती भ्रान्ता, प्रतिवेश्म पुरेऽखिले ॥२०४।। एकस्मिंश्च गृहे ब्रूते, वृद्धा विद्याधरी वच: । सुतां सक्षेपतो वत्से ! सामग्री प्रगुणां कुरु ॥२०५॥ प्रज्ञप्ती मम पुत्रेण, मेघनादेन साधिता । यात्रा युगादिदेवस्य, महाटव्यां प्रवर्तिता ।।२०६।। आनिन्ये कन्यके तत्र, खेचरी भूमिगोचरी । गीतनृत्यकलाजाल-कुशला रूपशालिनी ॥२०७।। नेपथ्यं भोजनं भोगा:, भव्यास्तेषां कृते मया। नेतव्या: पुत्रसन्देशा-त्तद्याने प्रगुणीभव ॥२०८॥ ततस्तया यथादिष्टं, समस्तं प्रगुणीकृतम् । ततश्चचाल सानन्दा-च्छीघ्रं गगनवर्त्मना ।।२०९॥ तदनु कौतुकाक्षिप्ता, चेले मदनमञ्जरी । पश्यन्ती च महीं रम्यां, सम्प्राप्ता जिनमन्दिरे ॥२१०।। बहुविद्याधराकीर्णे, नानाविद्याधरीभृते । कर्पूरागुरूसन्दोह-गन्धद्रव्यैर्मनोहरे ॥२११॥ दृष्टं युगादिदेवस्य, बिम्बं जनमनोहरम् । विधाय सहजं रूपं, रत्नचन्द्रेण तत्क्षणात् ।।२१२॥ रोमाञ्चाञ्चितगात्रेण, सुगन्धा सुमनोहराम् । गृहीत्वा मालतीमालां, पूजित: परमेश्वरः ॥२१३॥ परमात्मा जगन्नाथ:, पुत्रीयितजगत्त्रय: । ऋषभो भवकान्तार- सार्थवाहो निरञ्जनः ॥२१४।। चिरं चालोकि पूजादि, निर्निमेषेण चक्षुषा । तनूकृतो भवाम्भोधि:, सञ्जाता चित्तनिर्वृतिः ॥२१५॥ भूयोभूयस्तत: पश्यन्, स्निग्धदृष्ट्या जिनाननम् । प्रेक्षामण्डपमागत्य, निषण्णो वरविष्टरे ॥२१६॥ अत्रान्तरे सशृङ्गारा, सर्वलोकमनोहरा । अष्टादशाब्ददेशीया, नर्तिता रत्नमेखला ॥२१७॥ आक्षिप्तश्च जन: सर्व:, शिरांसि च धुनापित: । अहो नृत्यकला काचि-दपूर्वात्र विलोकिता ॥२१८।। तत: प्रनर्तिता हाव-भावसारं ससम्भ्रमम् । हेमचन्द्रनरेन्द्रस्य, सुता मदनमञ्जरी ॥२१९॥ तयापि रञ्जितो लोको, गुणग्राही विनिर्मित: । गता सा नृत्यपर्यन्ते, तत्रस्थपितुरन्तिके ॥२२०॥ हेमचन्द्रनरेन्द्रेण, स्नेहसारं ससम्भ्रमम् । सन्तोषामृततृप्तेन, पृष्टा मदनमञ्जरी ।।२२१॥ वत्से ! कथय मे सर्वं, विस्मयो मम वर्तते । क्व नीता केन चानीता, त्वया किं वान्वभूयत? ॥२२२॥ तयापि मूलत: सर्वं, यथावृत्तं निवेदितम् । मद्गृहे च त्वदाकारा, त्वदाह्वाना च कन्यका ॥२२३॥ क्षणे क्षणेऽन्यथाकारा, नटीवाश्चर्यकारिणी। सा का कथय मे पुत्रि!, यदि त्वं मदनमञ्जरी ॥२२४१॥ तयोक्तं न विजानेऽहं, तात ! तत्त्वं शरीरिणां । भूरिधूर्तसमाकीर्णा, नानाकारा वसुन्धरा ॥२२५॥ क्षन्तव्यं मम तातेन, यदात्मा परिणायितः । गुरूणां हि प्रमोदाय, डिम्भदुश्चेष्टितं मम ॥२२६।। राजाह मर्षितं पुत्रि!, ते भर्ता कुत्र साम्प्रतम् ? । अत्रान्तरे स्वभावस्थो, रत्नचन्द्रस्तयेक्षित: ॥२२७।। तत्समीपे स्थिता रत्न-मेखला मुदितानना । दृष्टा मदनमञ्जर्या, तत: पित्रे निवेदितम् ॥२२८॥ तेनापि स समाहूत:, समायातस्तदन्तिके। पृष्टश्च भो महासत्त्व!, रत्नचन्द्रः कुतो भवान् ? ॥२२९।। स च प्राह सुवेलारव्य-पर्वतात्तु परिभ्रमन् । प्रयोजनवशादत्र, सम्प्राप्तो जिनमन्दिरे ॥२३०॥ ततो गतस्तमादाय, हेमचन्द्रो निजे पुरे । सकलत्रो धृतस्तत्र, गुरुगौरवयोगत: ॥२३१॥ हेमचन्द्रनरेन्द्रेण, पृष्टा मदनमञ्जरी । ब्रूहि त्वं यदि जानासि, विस्मयो मम वर्तते ॥२३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org