________________
अधिकार २ / श्लोक ५०-५९ / पुष्पपूजायां रत्नचन्द्रकथा १
यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति निद्रालसा, द्वारे हेमविभूषिताच तुरगा हेषन्ति यद्दर्पिताः । वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्वोध्यते, तत्सर्वं सुरलोकसौख्यसदृशं धर्मस्य विस्फूर्जितम् ॥१८०॥
एवमुक्त्वा गतो देवः, क्षणादेव सुरालये । ततो गत: कुमारोऽपि, पुरे गगनवल्लभे ॥१८१॥ मा मेऽवज्ञा भवेत्तत्र, नूनं श्वशुरमन्दिरे । रूपं मदनमञ्जर्या, विधाय तद्गृहे गत: ॥१८२॥ पिता कण्ठग्रहं कृत्वा, रुरोद जननी तथा। हा वत्से! क्व गतासि त्वं, केनाऽऽनीतासि साम्प्रतम्॥१८३।। तयापि कथितं सर्वं, येन नीता च यत्र च । आनीता रत्नचन्द्रेण, रत्नशेखरसूनुना ॥१८४|| क्वासौ क्वासौ महाभाग-स्तै: ससम्भ्रममूचिरे । तव सङ्कल्पितो भर्ता, जामाता पुनरावयोः ॥१८५।। कन्यका प्राह मां द्वारि, मुक्त्वा तेन तिरोदधे । यत्सम्बन्धिगृहे सन्तो, न विशन्ति यतस्ततः ॥१८६॥ ततश्च हेमचन्द्रेण, वायुवेगास्तुरङ्गमा: । वरवेगा महाप्राणा, योधाश्चापि समन्ततः ॥१८७॥ सम्प्रेषिता: प्रयत्नेन, कुमारान्वेषणाकृते । गत्वाऽऽगता न तैर्दृष्टो, रत्नशेखरनन्दनः ॥१८८।। सखेद: पार्थिवो जात:, साशङ्का हेमसुन्दरी। अहो गृहागतो दूरी-भूतो जामातृकः कथम् ॥१८९।। यद्यसावुपरोधेन, नागच्छति गृहे स्वयम् । किमर्थं च करे कृत्वा, नानीत: पुत्रिके! त्वया ॥१९०।। त्वं हि तस्य मया दत्ता, विवाहश्चात्र वत्सरे । भविष्यत्यन्तरा कर्म, यदि ते नो विबाधकम् ॥१९१॥ प्रेषित: पुरुषस्तेन, लेखहस्तो महारथः । बङ्गाजनपदे गत्वा, पुरे विजयवर्धने ॥१९२॥ रत्नशेखरभूपाय, गत्वा लेखमथार्पयत् । भणितोऽनेन भूपोऽसौ, विनम्य विधिपूर्वकम् ।।१९३॥ हेमचन्द्रनरेन्द्रस्य, सुता मदनमञ्जरी । रत्नचन्द्राय सा दत्ता, युष्मभ्यं यदि रोचते ॥१९४|| श्रुत्वेदं सविषादोऽसौ, तस्मै प्रत्युत्तरं ददौ । अश्वारूढश्च पुत्रो मे, नीत: केनापि वैरिणा ॥१९५॥ आश्वीयं पृष्टतो लग्नम्, पादातं च समुद्धतम् । तदद्यापि च नायाति, सखेदा वयमास्महे ॥१९६।। प्रतिलेखं समादाय, गच्छ त्वं निजमन्दिरे । सति धर्मिणि चिन्त्यन्ते, धर्माः किं कथ्यतेऽधुना ॥१९७।। एतच्छ्रुत्वा समायातः, स्वस्थाने लेखवाहकः । मुखेन कथितं किञ्चि-ल्लेखोऽपि च समर्पितः॥१९८।। अहो संसारवैचित्र्य-मुभयत्राप्यनिर्वृति: । हेमचन्द्रो विचिन्त्यैवम्, मनसा मौनमाश्रित: ॥१९९॥ श्यामाकारा कुरूपा च, जाता मदनमञ्जरी । किमेतदिति सोद्वेगा, सम्पन्ना हेमसुन्दरी ॥२००॥ कदाचन कृशा स्थूला, गोरी तन्वी कदाचन । नानारूपधरा दृष्टा, सिद्धयोगेव योगिनी ॥२०१।। विस्मिता जननी तस्याः, जनकोऽपि च विस्मितः । एकान्ते भणिता ताभ्याम्, कि त्वं मदनमञ्जरी? ।। तयोक्तं कथयिष्यामि, सर्वं हि समयागतम् । या काचिद्येन सजाता, नानारूपविधायिका ॥२०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org