________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञकासहिते धर्मरत्नकरण्डके
एषापि तेन पापेन, ततो हत्वा दुरात्मना । मुक्ता ममान्तिके कामं, कामपीडितचेतसा ॥१५५॥ तदेष ते मया सर्वः, स्ववृतान्तो निवेदित: । साम्प्रतं श्रोतुमिच्छामि, गोत्रं नाम च तावकम् ॥१५६।। कथयाऽनुग्रहं कृत्वा, कुरुष्व मम निर्वृतिम् । कुमारोऽपि स्ववृत्तान्तं, तस्यै सर्वं न्यवेदयत् ॥१५७॥ श्रुत्वेदमाहतु: कन्ये, समानन्दितमानसे । अहो नौ कीदृशं पश्य, सत्कल्याणमुपस्थितम् । ॥१५८॥ यस्मादमृतवृष्टयाभं, सञ्जातं तव दर्शनम् । नूनमरण्यवासोऽपि, स्वर्गावाससमोऽजनि ॥१५९।। तन्नाथालं विलम्बेन, शीघ्रं परिणयस्व नौ। यावन्नायाति मूढात्मा, पापोऽसौ खेचराऽधमः ॥१६०॥ कुमारोऽपि हि ते कन्ये, सङ्केपात्परिणीतवान् । ततस्तिष्ठति सानन्द- स्तत्र यावत्क्षणान्तरम् ॥१६१।। तावद्भानुप्रभो वेगा-दाजगाम तदन्तिकम् । विलोक्य कुमरं तत्र, कोपाविष्टोऽब्रवीदिदम् ॥१६२॥ रे! रे! शस्त्रं गृहाण त्वं, यद्यस्ति तव पौरुषम् । एषोऽहं मारयामि त्वां, रटन्तं विस्वरैः स्वरैः ।।१६३।। एवमाक्रोशयन्नुच्चै-रागत: कुमरान्तिकम् । मुक्त: खड्गप्रहारश्च, कुमारस्य यथाबलम् ॥१६४॥ कुमारेणापि वञ्चित्वा, खगघातं तकं जवात् । प्रहत: खड्गमादाय, स दुष्ट: खेचराऽधमः ॥१६५।। प्रापित: पञ्चतामाशु, रञ्जितं भार्ययोर्मन: । ततो भार्ये गृहीत्वाऽसौ, तत: स्थानाद्विनिर्गत: ॥१६६।। स्तोकान्तरं गतो याव-त्तावदस्तं गतो रवि: । गूढद्वारां गृहाकारां, दृष्ट्वाऽसौ वंशजालिकाम् ।।१६७|| प्रिये ! प्रवेशयामास, तत्र सानन्दमानस: । स्वयं तु खामादाय, द्वारदेशे व्यवस्थितः ॥१६८॥ गता रात्रि: क्रमेणाथ, यावदालोकते प्रिये । तावन्ने वीक्षते नैव, तस्मिन् वंशकुडङ्गके ॥१६९।। ततोऽसौ चिन्तयामास, विस्मयाकुलमानस: । क्वगते ते कथं वापि, केन नीते मम प्रिये? ॥१७०॥ एवं चिन्तातुरो यावत्, स तिष्ठति कुमारकः । तावदेकं सुरं कान्तं, सम्पश्यति पुरः स्थितम् ॥१७१।। देव: प्राह कुमार! त्वं, किं जानासि न वेति माम्। न चेति कुमरो ब्रूते, सुर: प्राह निशम्यताम्॥१७२।।
सोऽहं विद्याधरो भद्र !, यस्तु निर्यामितस्त्वया ।
मृत्वाहं पञ्चमे कल्पे, शक्रतुल्य: सुरोऽजनि (ऽभवम्) ॥१७३।। तदहो मा कृथाः खेदं, त्वदीये यद्गते प्रिये । अचिरादेव ते ताभ्यां, सार्धं सङ्गो भविष्यति ॥१७४।। चिन्तारत्नमिदं सर्वं, चिन्तितार्थप्रदायकम् । गृहाण कुरु मे तुष्टिं, कुमारोऽपि तथाऽकरोत् ।।१७५।। सुर: प्रोवाच भूयोऽपि, कुमर! त्वं व्रज़ाधुना । वैताढ्यपर्वते रम्ये, पुरे गगनवल्लभे ॥१७६।। स्थातव्यं च त्वया तत्र, हेमचन्द्रस्य मन्दिरे । तिष्ठतस्तत्र ते सर्वं, सम्पत्स्यते समीहितम् ॥१७७|| तथा भद्र ! त्वया यत्न:, कार्यो धर्मे जिनोदिते । धर्म एवाऽङ्गिनां येन, सर्वकल्याणकारकः ॥१७८||
यत:-धर्माजन्म कुले शरीरपटुता सौभाग्यमायुधैंनं,
धर्मेणैव भवन्ति निर्मलयशोविदयार्थसम्पत्तयः ।। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org