________________
अधिकार २ / श्लोक ५०-५९ / अन्तिम आराधना
पेच्छंतु जिणे सन्वे, सिद्धा य तिलोयपूइया सव्वे । पुरओ भगवंताणं, तुम्हाणमिणं तु सव्वंपि ॥१३३॥ पाणवहं सुहुमेयर-तस-थावरगोयरं तु तिविहेणं । मणसा वयसा तणुणा, कय-कारिय-अणुमईहिं तु ॥१३४॥ पञ्चक्रवामि इयाणिं, जावज्जीवाए सव्वभावेण । . तह कोह-लोह-मायाइ-भेयओ अलियवयणंपि ॥१३५॥ सञ्चित्त-मीस-अचित्त-गोयरं गाम-नयर-रन्नेसु । परकीयादत्तंपि हु, तिविहं तिविहेण वोसरिमो ॥१३६॥ देवीहिं माणुसीहिं, तिरिक्खजोणीहिं मेहणं सव्वं । धम्मोवगरणवजं, परिग्गहं वोसिरेऽवजं ॥१३७॥ सव्वं असणं पाणं, खाइमं तह साइमं च तिविहेणं । तुम्ह पुरओ इयाणिं, वोसिरिमो जावजीवाए ॥१३८॥
इत्थं विभावयंश्चेत:-संशुद्धया शुद्धभावना: । स्मरन् पञ्चनमस्कारं, भक्त्या संविग्नमानस: ॥१३९।। प्रतिजागर्यमाणश्च, रत्नचन्द्रेण सादरम् । सत्त्वेषु समतां बिभ्र-जीवित्वा दिनपञ्चकम् ॥१४०॥ अन्ते समाधिना मृत्वा, जात: कल्पे स पञ्चमे। इन्द्रसामानिको देवो, दीर्घायुश्च महर्द्धिकः ॥१४१॥ अथासौ रत्नचन्द्रोऽपि, तं निर्याम्य नभश्चरम् । औदिची दिशमाश्रित्य, चलित: पर्वतात्तत: ।।१४२।। गच्छता च कुमारेण, दृष्टमेकत्र सुन्दरम् । काननं नागवल्लयादि-नानामण्डपसङ्कुलम् ॥१४३॥ तस्य मध्ये च शुभ्रोच्च:, प्रासादः सुमनोहर: । आरूढ: कुमरस्तत्र, सानन्दो गतसाध्वस: ॥१४४॥ तत्रापश्यत्सुरूपाढयं, सुन्दरं कन्यकाद्वयम् । पृष्टे च ते कुमारेण, के युवां किमुनामिके ? ॥१४५।। एकाकिन्यौ किमित्यत्र, तिष्ठत: कथ्यतां मम । तत्रैका वक्तुमारब्धा, कम्पमानाङ्गयष्टिका ॥१४६।। श्रूयतां भो महासत्त्व!, सङ्घपात्तव कथ्यते । वैताढ्ये दक्षिणश्रेण्यां, पुरे गगनवल्लभे ॥१४७॥ हेमचन्द्राभिधानोऽस्ति, विद्याधरमहाप्रभुः । अहं तु पुत्रिका तस्य, नाम्ना मदनसुन्दरी|१४८। मत्पित्रा चान्यदा पृष्टः, सिद्धपुत्रो विचक्षणः । यथास्या मम सत्पुत्र्या:, को भर्ता भविता वद ॥१४९।। ततस्तेन समादिष्टो, रत्नशेखरनन्दनः । रत्नचन्द्र इति ख्यातः, कुमारो भूमिगोचरः ॥१५०॥ ततोऽहं पुष्णती तत्र, सत्कला: सकला अपि । सन्तिष्ठामि निजे गेहे, सखीचक्रसमन्विता ॥१५॥ अन्यदा भानुवेगस्य, पुत्रेणाहं विलोकिता। भानुप्रभाभिधानेन, कामान्धेन दुरात्मना ॥१५२॥ तत: संहृत्य मामत्र, प्रासादे स विमुक्तवान् । स्वयं पुनर्गत: पापो, विद्यासाधनहेतवे ॥१५३।। तथेयं या द्वितीयात्र, कन्यका कनकच्छवि: । पुत्री चम्पाधिराजस्य, नाम्नातुरत्नमेखला|१५४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org