________________
अधिकार २ / श्लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
सुरासुरनराभ्यर्च्य, विमुच्य मां महाबलम् । का चैषा दृश्यते क्षुद्रा, लिखिता भुवि देवता ।। २४९॥ कुमारः प्राह कल्पोऽयं, कोपस्तव निरर्थकः । भिन्नोष्ठसम्पुटा : सन्तो, न हसन्ति महास्वरैः ॥२५०॥ विद्यासाधकपुंसस्तु, दुर्लभे मांसशोणिते । देवयोनेर्दुराशेयं, तव चेतसि वर्तते ॥२५१॥ वेतालोऽपि जगादेदं, कुमारं पुरतः स्थितम् । मुञ्च मार्गं व्रज स्थानं, यदि ते जीवनस्पृहा ॥ २५२ ॥ कुमारः प्राह-
I
अद्य श्वो वा ध्रुवो मृत्यु-र्मित्रार्थं यद्यसौ भवेत् । तदा मे किं न पर्याप्तं, मरणान्न बिभेम्यहम् ॥ २५३॥ अर्थाः प्राणाश्च ये यान्ति, गुरुदेवप्रयोजने । त एवात्र प्रशस्यन्ते, शेषाः सक्लेशहेतवः ॥२५४॥ कोऽपि केनाप्युपायेन, जीवो जीवति भूतले । देवयोने र्न युक्तं ते, विघ्नं कर्तुं निरर्थकम् ॥२५५॥ मलयेऽस्मिन्नहं स्वामी, गर्वोऽप्येष न सङ्गतः । किं न श्रुतं त्वया वाक्यं, वीरभोग्या वसुन्धरा ॥ २५६ ॥ महाबलः प्रोवाच
डिम्भ प्रथमं तावद्भवतो मांसशोणिते । भक्षयामि पिबाम्युच्चैः, पश्चादस्य दुरात्मनः ॥ २५७॥ इत्युक्त्वा धावितो वेगा-द्वेताल: कुमरं प्रति । वाहिता कर्त्तिका तेन, कुमारेणापि वञ्चिता ॥२५८॥ खङ्गमादाय तेनापि, प्रहतो दक्षिणे करे । वेतालः पतिता तस्य, कराद्भुवि च कर्त्तिका ॥२५९॥ विलक्षो वीक्षयामास, दिक्चक्रं शून्यया दृशा । उक्तो भूयोऽपि भो भद्र!, करे कुरु निजायुधम् । २६०। निरायुधेषु दीनेषु, पतितेषु नतेषु च । प्रहारं न प्रकृर्वन्ति, सन्तः सन्मार्गगामिनः ॥ २६१॥ तथा भोकाविमौ क्षिप्तौ, वामदक्षिणकक्षयोः । नरौ निर्घृण ! यावेवं, पीडयसि निरन्तरम् ॥२६२॥ महाबलभूतः प्राह, श्रूयतां कथयामि ते । कपालकुण्डो नाम वामतो मन्त्रसाधकः ॥२६३॥ यमुनो दक्षिणेनास्य, पुमानुत्तरसाधक: । अत्रैवाविधिना विद्यां साधयन्तौ विलोकितौ ॥२६४॥ अवस्थामीदृशीं नीता-वन्येषां शिक्षणाकृते । दुर्मेधसोऽल्पसत्त्वाश्च खेदयन्ति यतोऽनिशम् || २६५॥ त्वत्साहससमाकृष्ट-चेता वच्मि वचो हितम् । ब्रूहि यत्ते प्रयच्छामि मोघं देवदर्शनम् ॥ २६६ ॥ कुमारः प्रोवाच
I
देवयोने! न मे कार्यं केनाप्यस्तीह वस्तुना । कूजन्तौ करुणं मुञ्च, कक्षागतनराविमौ ॥ २६७॥ मुक्तावर्धकमृतौ तेन, तौ नरौ लोललोचनौ । भणितौ च कुमारेण, यात भद्रौ ! युवां गृहम् ॥ २६८ ॥ भूयोऽपि निकटीभूय, वेतालेन प्रजल्पितः । यदहं वच्मि तत्कार्यं भवता परिहितैषिणा ॥ २६९ ॥ नितान्तं यद्यपि त्यागी, महाविनयसङ्गतः । वीर्यवानुत्तमैश्चर्यो, भवान् गुणविभूषितः ॥ २७० ॥ मद्दर्शनं तथाप्येत- त्तव मा भूदनर्थकम् । याचेऽहं तेन कार्येण, भवन्तं ग्रहणं प्रति ॥ २७१ ॥ एकया दशया कस्य, कालो गच्छति देहिनः । विपदोऽनन्त रा सम्पत्, सम्पदोऽनन्तरा विपत् ॥ २७२ ॥ मुद्रारत्नं गृहाणेदं, वरवत्रैर्विराजितं । एतेन ह्यङ्गुलिस्थेन, दुर्जयोऽसि महाहवे ॥२७३॥ सुगन्धगन्धगव्यूत-व्यापी ज्वरहरः पटः । धूपसाराभिधानोऽयं, कुमार! क्रियतां करे ||२७४||
Jain Education International
For Private & Personal Use Only
७३
www.jainelibrary.org