________________
७४
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
प्रतिपन्नं कुमारेण, क्षेत्रपालप्रजल्पितम् । सिद्धा च कामदेवस्य, विद्याथ बहु रूपिणी ॥२७५॥ कुमारकामदेवाभ्यां, कृतपूजो महाबलः । जगामादर्शनं तुष्टः, कामदेवोऽप्यभाषत ॥२७६॥ तव सम्पर्कत: सिद्धा, विद्या मे बहरूपिणी। अथवाचिन्त्यमाहात्म्या:, सन्त: कल्पद्रुमोपमा:॥२७७।। कामसंरोहिणी भगिनी, विद्या चाकाशगामिनी। सोपचार द्वयं दत्तं, कुमाराय खगामिना ॥२७८॥ कृतस्तत्रैव वीवाहो, धनं चानाय्य कोटिशः । कर्पूरागुरूश्रीखण्ड-खण्डानां राशय: कृताः ॥२७९॥ सप्रणयं 'पूरोभूय, जगादेदं नभश्चरः । कुमारावितथं विद्धि, वच्म्यहं यत्तवाग्रतः ॥२८०॥ एते वयमिमे चार्था, यदन्यदपि मामकम् । प्राणा अपि त्वदीया मे, यथायोगं नियुज्यताम् ॥२८१॥ विहितं केन सौरभ्यं, पुष्पाणां केन वा कृतम् । माधुर्यमिक्षुयष्टीनां, लीला च वरहस्तिनाम् ।।२८२।। उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । स्वजनानां स्वभावोऽयं, केनेन्दुः शिशिरीकृत: ।।२८३॥ इत्यादिभिवरैर्वाक्यै: श्लाघयित्वा कुमारकम् । सानन्देन ततस्तेन, विमानं प्रविकुर्वितम् ।।२८४।। नवकङ्कणकरां कान्तां, कुमारोऽपि नवकङ्कण: । कामदेवविमानेन, प्रातरेव समागतः ॥२८५।। स्वावासं सर्वलोकेन, वीक्षित: स्फारचक्षुषा । भृत्यैर्मित्रैः कलत्रैश्च, सानन्दमवलोकित: ।।२८६।। पुञ्जीकृत्य धनं धान्यं, कामदेवो विसर्जित: । कान्तयोश्च कुमारेण, कृता ज्येष्ठकनिष्ठता ॥२८७।। प्रदोषे कृतकर्तव्य:, समये सुप्तो निराकुल: । निशीथे खङ्गमादाय, जने सुप्ते विनिर्गतः ॥२८८।। दक्षिणां दिशमाश्रित्य, चलितो नरकेसरी । शनैः शरैरसौ गच्छन्, गतो दूरतरां भुवम् ॥२८९।। शृणोति मधुरं गीतं, कर्णपीयूषसन्निभम् । तरुण्या न नरस्येदं, सप्ततन्त्रीस्वरानुगम् ॥२९०॥ चचाल स्वरमार्गेण, मन्दं मन्दं नृपाङ्गाज: । स्तोकान्तरं गतेनाथ:, ददृशे देवमन्दिरम् ॥२९१॥ श्रीखण्डसारगन्धेन, घ्राणाघ्राणकरं परम् । जात्यश्रीखण्डकाष्ठेन, सर्वतोऽपि विनिर्मितम् ॥२९२॥ रम्यस्तम्भसमाकीर्ण, शान्तिनाथजगद्गुरोः । शान्तकान्तकृतानन्द-बिम्बेन तु विराजितम् ।।२९३।। पद्यरागमयोत्प्रेड-त्कलशेन- नभ:स्पृशा । वातोद्भूतध्वजैः शुभैः समाकारितसज्जनम् ।।२९४॥ निरुद्धपदसञ्चार, प्रविश्य जिनमन्दिरे । दृष्टैका कन्यका तेन, गायन्ती वीणया जिनम् ॥२९५।। गीतगर्भं जिनं स्तौति, वादयति च वल्लकीम् । तन्त्रीस्वरस्य गीतस्य, विशेषो नैव लक्ष्यते ॥२९६॥ नमस्ते शांतिनाथाय, जगच्छान्तिविधायिने । शान्ताकाराय शान्ताय, सुवर्णसदृशद्युते ॥२९७।। नमस्ते देवदेवाय, लोकालोकविलोकिने । गुणैरतीतलोकाय, दुर्लक्षाय महात्मने ।।२९८।। त्रिलोककृतपूजाय, नष्टमोहमहारये । वाणीगोचरतातीत-गुणसङ्घातधारिणे ॥२९९।। शरण्य! शरणायातां, पाहि मां परमेश्वर! । मनोवाञ्छितसम्प्राप्त्या, सफला मेऽस्तु तव स्तुतिः ।।३००।। एवं जिनमभिस्तुत्य, मुक्त्वा कोणे च वल्लकीम् । निर्गत्य मण्डपद्वारि, वेदिकैकामाशिथ्रियत् ॥३०१॥ कुमारोऽपि प्रविश्यान्त:, प्रणम्य जिननायकम् । वेदिकैकां समासीन:, केसरीव शिलातलाम् ॥३०२॥ १ पुरतो भूय-BJP ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org