________________
अधिकार २ / श्लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
७५
तत: ससम्भ्रमा बाला, वेदिकातो भुवि स्थिता । भणिता च कुमारेण, भद्रे का त्वं किमागता? ॥ शून्ये जिनगृहे नक्तं, कुतो वा कस्य वा सुता? । स्त्रीलक्षणयुक्तापि, सशोका केन हेतुना ? ॥३०४।। दृष्टपूर्वेव मे भासि, भवती तालवनास्पदे । आवासयितुमारब्धे, सैन्ये व्याकुलमानसे ॥३०५॥ तयोक्तं सत्यमेवेदं, नान्यथा तव दर्शनम् । भवन्त दूरतो दृष्टवा, चलिता दक्षिणामभि ॥३०६।। तत: सा रोदितुं लग्ना, कुमारेण निवारिता । स्वस्थीभूय क्षणादेवं, प्रोवाच सरलप्रभा ॥३०७॥ महाभाग! महामेघ-विद्याधरतनूद्भवा । सुवदनाकुक्षिजा चाहं, नाम्चा च सरलप्रभा॥ मत्पित्रा शैशवे पृष्टः, सिद्धपुत्रो यश:प्रभ: । को भर्ता भद्र! भाव्यस्या-स्तेनापीदं प्रजल्पितम्।। समस्तविश्वविख्यात-स्त्यागी भोगी महाबल: रणकेसरिजो भावी भर्तास्या नरकेसरी ॥३१०॥ साम्प्रतं चाहमन्यत्र, पित्रा दातुं समीहिता । निर्विण्णा जीवितस्याहं, मरणार्थमिहागता ॥३१॥ प्रणम्य भक्तित: कान्तं, शान्तं शान्तिकरं जिनम् । आरुह्य शिखरे मुक्तो, मयात्मा घातहेतवे॥३१२।। पतिता पश्यामि तल्पस्थ-मात्मानं पापकारिणी। उत्थिता नभसो वाणी, पुत्रि! पूर्णा मनोरथा: ।।३१३॥ प्रभाते ह्यर्धरात्रे ते, प्रियेण सह सङ्गम: । सम्भवी-भाविकल्याणे, मागमोऽन्यत्र कुत्रचित् ॥३१४|| ततोऽहं जिननाथस्य, शान्तिदेवस्य पूजनम् । सङ्गीतकं च कुर्वाणा, स्थितात्रैव जिनालये ॥३१५।। अद्य त्वतर्कितो जात-स्त्वया सह समागम: । अरण्यं वसितं जातं, सञ्जाता चित्तनिर्वृत्तिः ॥३१६।। कथितं यत्त्वया पृष्टं, रहस्यं सकलं मया । साम्प्रतं श्रोतुमिच्छामि, त्वदीयमपि मूलत: ॥३१७॥ कस्त्वं? कस्याथवा पुत्र:, किमेकाकी समागत: । नामाक्षराणि व: कानि, श्रवन्ति श्रवणामृतम्।। कुमारेणापि नि:शेषं, मूलतश्चरितं निजम् । कथितं नामपर्यन्तं, सानन्दा सरलप्रभा ॥३१९॥ नाथ ! त्वां प्रार्थये ह्येवं, पाणिग्रहं कुरुष्व मे । अत्रैव भवने भव्ये, देवतादृष्टिगोचरे ॥३२०॥ जीवने मरणे त्राण-मेष मे कुलदेवता । विश्वविश्वम्भरो बन्धुः, प्रथितामितकीर्तिकः ॥३२१॥ प्रतिपन्नं कुमारेण, सक्षेपेण विवाहिता। पूजितो वन्दितो भक्त्या, श्रीशान्ति: षोडशो जिनः ॥३२२।। वेदिकायां निषण्णेन, कुमारेण समन्तत: । उत्फणा विफणाश्चैव, नानारूपा भुजङ्गमा: ॥३२३॥ प्रविशन्त: परितो दृष्टाः, स्वल्पसत्त्वभयङ्करा: । फूत्कारस्फारनिर्घोष-भृतावनिनभस्तला: ।।३२४॥ परित: स्तम्भमूलानि, स्तम्भाग्राणि समन्ततः । वेष्टयित्वा स्थिता रात्रौ, गन्धलुब्धा: सरीसृपाः ॥३२५॥ वेदिकासु विशालासु, चित्रपुत्तलिकासु च । सिंहशार्दूलमातङ्ग-कन्धरासु ललम्बिरे, ॥३२६।। बहिरन्तश्च सर्वत्र, विसर्पद्भिर्भुजङ्गमैः । भवनं शान्तिनाथस्य, भुजङ्गैरिव निर्मितम् ॥३२७|| नरकेसरिणा पृष्टा, कौतुकाकृष्टचेतसा । प्रिये! किमिदमाभाति, यदि जानासि तद्वद ॥३२८॥ सा प्राह गन्धलोभेन, दिवारात्रौ निरन्तरम् । न च मुञ्चत्यमी प्रायो, जैनसऱ्या निरन्तरम् ॥३२९॥ अन्यदा क्षेत्रपालेन, दुर्मुखो नाम सेवकः । महाबलेन सन्दिष्टो रे दुर्मुख ! त्वया सदा ॥३३०॥ दिवा देयो न सर्पाणां, प्रवेशो जैनमन्दिरे । रात्रौ च] निर्विषा: कार्याः प्रविशन्तु यदृच्छया ॥३३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org