________________
एवं तस्याः प्रजल्पन्त्या, मातापितरावागतौ । प्रणतौ देवदेवस्य, 'दृष्टं द्वन्द्वं तयो स्तथा ।।३३२।। निविष्टौ वेदिकापृष्टे, कुमारेण नमस्कृतौ । सकङ्कणकरा पित्रोः, प्रणता सरलप्रभा ॥३३३॥ कुमाराकृतिमालोक्य, विलोक्य दुहितुर्मुखम् । समसंयोगसन्तुष्टी, पितरौ रञ्जितौतराम् ॥३३४॥ दुर्नयोऽप्येष ते वत्से!, सुनयोऽजनि वेधसा । न गङ्गा सागरं मुक्त्वा, निपतत्यल्पजलाश्रये ॥३३५।। कृत्वा विवाहकार्याणि, स्वहस्तेन समर्पिता । भवत्वाजन्म संयोगो, गङ्गासागरयोरिव ॥३३६॥ इत्यभिधाय वेगेन, गतौ तौ सत्वरं गृहे। प्रातरेव कुमारोऽपि, समेतो नवकान्तया ॥३३७।। नवकङ्कणकर: प्राप्तः, स्वावासं सारसाहसः । भृत्यमित्रकलत्राणां, कथिताखिलसङ्कथ: ।।३३८॥ सावशेषां निशां नीत्वा, नानालापैर्नृपाङ्गज: । कृतप्रत्यूषकर्तव्यो, रेमे मलयभूमिषु ।।३३९॥ पंचषानि दिनान्यत्र, नीत्वा विगतकौतुकः । उत्ततार गिरेस्तूर्णं, तत्कूटादिव केसरी ॥३४०॥ मलयकेतुभूपस्य, पुरं प्राप्तो मनोहरम् । भूभुजा कृतसन्मानो, श्वश्वा च कृतसत्कृति: ॥३४१॥ अहानि कतिचित्स्थित्वा, युक्तो मलयकेतुना । वरं विमानमारुह्य, नभसा सपरिच्छदः ॥३४२।। सम्प्राप्तश्च क्षणादेव, कुमारो हेमपत्तने । अतर्कित: समुत्तीर्णो, हेमसुन्दरमन्दिरे ॥३४३।। किमेतदिति लोकेन, विस्मितेन विलोकित: । सस्नेहं सादरं स्निग्धं, गौरवेण कुमारकः ॥३४४|| समासन्नोपविष्टश्च, पृष्टो राज्ञा सकौतुकम् । कथं भूमिचरो भूत्वा, भवानजनि खेचरः ॥३४५।। लक्ष्मीसरस्वतीकल्पे, के इमे वरबालिके । परस्परविरुद्ध च, भवतोऽन्तिकमाश्रिते ॥३४६।। कथितं मेघनादेन, नरकेसरिचेष्टितं । राज्ञाचिन्ति यथा नास्ति, दुर्लभं सुकृतकर्मणाम् ।।३४७।। अत्रान्तरे समायातं, प्रधानपुरुषद्वयम् । प्रविष्टं च सभामध्ये, प्रतिहारनिवेदितम् ॥३४८॥ हेमसुन्दरराजेन्द्रं, नत्वा तेन समर्पितः । पितृलेख: कुमारस्य, स्वयं तेनापि वाचित: ॥३४९।। यथा
स्वस्तिश्रीरङ्गशालापुरीतोराजारणकेसरीनरकान्तादेवीसमन्वितस्तत्रस्थं वत्सं नरकेसरिणं सस्नेहं सादरं समाश्लिष्य भुजाम्यां समादिशति, यत्किं विस्मृता वयं कुमारस्य ? येनाद्यपि विलंब्यते, कतिपयदिनमध्ये शीघ्रमागन्तव्यमिति । कुमारेण भणितमवगतो लेखार्थ: अथ किं कुशली मे तात:? निर्व्याकुला च पुत्रवत्सलाम्बा ? तावूचतु:
मातुर्व्यामिलिते दृष्टी, रुदन्त्या प्रतिवासरम् । तवादर्शनदुःखार्त्तः, पिता कष्टेन जीवति ॥३५०॥ भवदर्शनलिप्सूनां, गुरूणां क्वाप्यनिर्वृति: । युक्तायुक्तविचारे च, भवानेवात्र पण्डित: ॥३५१॥ प्रयाणेच्छुकुमारेण, मातुलास्यं निरीक्षितम् । तेनापि भणितं वत्स ! गम्यते न विलम्ब्यते ॥३५२॥ चतुरजबलोपेतः, कुमारमनु मातुल: । निजपुत्रीं समादाय, कुमारार्थं सुदर्शनाम् ॥३५३॥ १ दृष्टं च वधूवरम्-BJPC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org