________________
अधिकार २ / श्लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
७७
चलितस्तरसा रम्यां, रङ्गशाला महापुरीम् । प्राप्त: कतिपयैरेव, वासरेहेमसुन्दरः ।।३५४॥ बहिरेव कृतावासो, विवेशान्त: स्वयं नृपः । निवेदितं विशांपत्यु-र्देव्या च सह मन्त्रिभिः ॥३५५॥ अस्ति मे दुहिता कांता, वरप्राप्ता सुदर्शना । अत्रैव [सा] समानीता, प्रीत्या कुमरहेतवे ॥३५६।। यदि व: सम्मतं चेदं, तदा लग्नं निरूप्यताम् । अत्रान्तरे समायातो, गणक: स्वत एव हि ॥३५७॥ स्वप्रयोजनमुद्दिश्य, सुप्रसन्न: सुवेषभृत् । कृतानुज्ञो नरेन्द्रेण, निषण्णो दर्शितासने ॥३५८॥ रिक्ते रिक्तं विजानीयात्, पूर्णे पूर्णं समादिशेत् । ताम्बूलफलपुष्पादि-कृतपूजो महीभुजा ॥३५९|| पृष्टो लग्नं विवाहस्य, तेन शीघ्रं निवेदितम् । अथवा कृतपुण्यानां, चिन्तितं निकटस्थितम् ॥३६०॥ प्रारब्धा सर्वसामग्री, सम्प्रातो लग्नवासरः । वृत्तं महाप्रमोदेन, पाणिग्रहणमङ्गलम् ॥३६१।।। सामन्ताऽमात्यपौरादि-पर्यालोचपुरस्सरम् । निवेशितो निजे राज्ये, कुमारो नरकेसरी ॥३६२।। प्रशस्तेऽह्रि शुभे चन्द्रे, मुहूर्ते कार्यसाधके । मन्दं मन्दं सुखस्पर्श, पृष्ठतो वाति मारुते ॥३६३॥ कृतर्द्धिशोभां सर्वत्र, तोरणध्वजराजिताम् । वरमञ्चसमारूढ-नृत्यत्पण्याङ्गनाकुलाम् ॥३६४॥ शुभ्रादभ्रमनोहारि-चित्रप्रासादतोरणाम् । विद्वज्जनसमाकीर्णा, द्विपवाजिरवाकुलाम् ॥३६५।। नानासंव्यवहाराभि-रापणालीभिराकुलाम् । विवेश रङ्गशालां सोऽलकामिव धनेश्वरः ॥३६६॥ सभासन्ननिषण्णस्य, बहुलोककृतसन्निधेः । सुप्रसन्नदृशा लोकं, पश्यतो मेदिनीपतेः ॥३६७॥ तत: कुलक्रमायात-नाथदर्शनलालसा: । गृहीत्वाघु: फलैः पुष्पैः, पत्रैरन्यैश्च कल्पितम् ॥३६८॥ वीणावेणुविमिश्रेण, शङ्खनादानुगामिना । महता तूर्यनादेन, पूरिताखिलदिङ्मुखाः ॥३६९।। सर्वे पौरा: समागत्य, आशीर्वादपुरस्सरम्। यथाविध्यर्चयामासु-स्तस्य पादौ मुदाकुला: ॥३७०॥ विसर्जिता नरेन्द्रेण, 'सम्प्राप्तप्रतिमानना: । स्वं स्वं च निलयं जग्मु-स्तद्गुणोक्तिभृताननाः ॥३७१॥ अथ तद्भवनं स्त्रीभिः, कौतुकाकुलबुद्धिभिः । कृतनानाविभूषाभिः, परित: परिपूरितम् ।।३७२।। गवाक्षाभिमुखा काश्चि-त्वराविसस्तवासस: । अन्योन्यघट्टनोच्छिन्न-मुक्ताहारादिभूषणा: ॥३७३।। पीनस्तनकृतान्योन्य पीडनाश्चलकुण्डला: । मञ्जुमञ्जीरशब्देन, वाचालचरणद्वया: ॥३७४॥ किं न तृप्तासि दुस्तृप्ते, पार्श्वतो भव दुर्भगे ! । विवदन्त्य एवमादीनि, वचांस्याम्बुरुहाननाः ॥३७५।। मुक्त्वा व्यापारजातानि, तमैक्षन्त पुराङ्गना: । स्वरूपमेतन्नारीणां, यतस्ता: कौतुकाकुला: ॥३७६।। एका ब्रूते वरो भर्ता, परा ब्रूते वराङ्गना । अन्योभयमपि श्रेष्ठं, वदतीह मुहुर्मुहुः ।।३७७।। प्रतिहारनरेणाथ, मन्दं मन्दं विसर्जितः । पुरनारीजन: सर्वो, गतो निजनिजालयम् ॥३७८॥ सन्तोषामृतमनाना-मन्योन्यं प्रीतियोगत: । ददतां भुञ्जतां चैव, गत: काल::कियानपि ॥३७९|| रणकेसरिणा दीक्षा, प्रपन्ना जिनशासने । सन्तोषसारसूरीणां, समीपे भक्तियोगतः ।।३८०।। सर्वजीवाभयं दत्त्वा, शीलमासेव्य निर्मलम् । तपश्च दुश्चरं तप्त्वा, विभाव्य वरभावना: ॥३८॥ १ BJP । ते सन्मानपुरस्सरम्-मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org