________________
७८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अन्ते चाराधनां कृत्वा, मृत्वानशनपूर्वकम् । औदारिकी तनुं त्यक्तवा, स्वर्गे जग्राह वैक्रियाम् ॥३८२।। देवलोकात्समागत्य, भूत्वा च नृपनन्दनः । विधाय निर्मलां दीक्षां, सम्प्राप्य वरकेवलम् ॥३८३।। त्यक्त्वा सर्वशरीराणि, अनन्तज्ञानदर्शन: । अनन्तवीर्यसम्पन्न:, सिद्धौ सिद्धौ भविष्यति ॥३८४।। हेमसुन्दरभूपोऽपि, नरकेसरिभूभुजा । सादरं ध्रियमाणोऽपि, जगाम निजपत्तने ॥३८५।। रणकेसरिण: पुत्रो-ऽप्युत्खातप्रतिरोपितान् । मुद्रा रत्नप्रभावेण, कुर्वन् सर्वमहीभुजः ॥३८६।। प्रधानधूपगन्धेन, वासिताखिलदिङ्मुख: । बम्भ्रमीति गजारूढो, धूपसारपटावृतः ॥३८७।। जन्मान्तरसमाचीर्ण-पूर्णपुण्यानुभावतः । सर्वं सम्पद्यते पुसां, देवानामिव चिन्तितम् ।।३८८॥ इत्येवं सर्वलोकस्य, कृतचित्तचमत्कृतिः । बुभुजे राज्यसौख्यानि, स्वेच्छया वनितासख: ॥३८९।। क्वचिद्विमानयानेन, क्वचिन्मत्तगजं गतः । क्वचिञ्जात्याश्चमारूढ: क्वचित्स्यन्दनवाहन: ॥३९०॥ नन्दनादिषु रम्येषु, काननेषु वनेषु च । रमते रम्यकान्ताभिः, सहितो नरकेसरी ॥३९१।। क्वचिददृश्यरूपेण, क्वचिद् दृश्येन सञ्चरन् । विज्ञातजनसंलाप:, साहसाङ्क इवापरः ।।३९२।। पटरवप्रभावेन, ज्वरं तुदन् शरीरिणाम् । प्रजा रक्षन् विपक्षेभ्यो, यर्थार्थ: क्षत्रियोऽभवत् ।।३९३॥ सम्पन्नोचितसन्तान:, सर्वलोकमन:प्रिय: । एकातपत्रमत्रस्तो, बुभुजे राज्यं निराकुल: ॥३९४।। अन्यदा च समासीन:, सभामण्डपविस्तरे । अमात्यमन्त्रिसामन्त भटलक्षसमाकुले ॥३९५॥ काननाच्च समागत्य, नरेण भणितो नृपः, दिष्टया त्वं वर्धसे देव!, तवोद्याने मनोरमे ।।३९६।। सन्तोषसागरा नाम, सूरय: श्रुतसागरा: । नानातिशयंसम्पन्ना, बहुशिष्या समागता: ॥३९७|| तच्छ्रुत्वा रञ्जितो राजा, दत्त्वास्मै पारितोषिकम् । चचाल पादचारेण, वन्दनार्थं बलान्वितः ।।३९८॥ गत्वा प्रदक्षिणीकृत्य, वन्दित्वा भक्तियोगत: । उचितासनमासीनो, धर्मं शुश्राव पार्थिवः ॥३९९।। सम्प्राप्यावसरं राजा, पप्रच्छ निजसंशयम् । कथं मे वर्धते लक्ष्मी: ?, कथमाज्ञाकरो जन: ? ॥४००॥ निजगृहोपविष्टस्या-कृतदण्डस्य मे सदा। समानीतोपदा: स्व स्व, कथमानेमुर्धराधिपा: ? ॥४०१।। कथं मे वल्लभोऽयत्यन्तं, सुहृन्मलसुन्दर: ? । सविशेषमभीष्टा मे, केन वा जयसुन्दरी ? ॥४०२।। अवधिज्ञानविज्ञात-पूर्वजन्मपरम्परः । राजानं प्रत्युवाचेदम्, सूरि: सन्तोषसागरः ॥४०३॥
इतस्तृतीपर्याये, वाराणस्यां द्विजात्मजः ।
शङ्खचूडाभिधो भव्यो-ऽभवद्भार्या च दुर्गिला ॥४०४॥ मधुसुन्दरनामा ते, भ्राता भक्तिपरायणः । मधुसुन्दरी तद्भार्या, धर्मकर्मपरायणा ॥४०५॥ शङ्खचूडो द्विजो मृत्वा, जातो वणिक्सुतस्तत: । भार्याकार्मणदोषेण, धर्मकर्मपरायण: ॥४०६॥ सर्वज्ञपुरत: शुद्ध-भावसारं पुन: पुन । कर्पूरागुरुसन्मिश्र - सारथ्रीखण्डसंयुतः ॥४०७।। धूपो दग्घो विधानेन, मृत्वा देवगतिं गतः । ततश्च्युत्वेह सञ्जातो, नरकान्तोदरे सुत: ।।४०८।। १BJ सामानीतोपदचाऽपि, कथं नेमु मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org