________________
अधिकार २ / श्लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
७९
तेन पुण्येन ते सर्व मनुकूलं धनादिकम् । भ्राता भ्रान्त्वेह संसारे, जातो मलयसुन्दरः ॥४०९॥ मधुसुन्दरी तद्भार्या, जाता च जयसुन्दरी । द्वयोरपि परा प्रीति-स्त्वां प्रति प्रतिवासरम् ॥४१०॥ एतावत्तु तवाप्युच्चै रासीत्प्रेम निरन्तरम् । पूर्वजन्मानुभावेन, स्नेहाधिक्यं महीपते ! ॥४११॥ भूयोऽप्युवाच भूपोऽथ, पर्यन्तो मम कीदृशः? पुण्यानुबन्धिपुण्येन, राजन्! समवलोकित: ॥४१२।। आदौ मध्येऽवसाने च, शुभं विद्धि त्वमात्मन: । जातिस्मरणविज्ञात-निजपूर्वभवो नृपः ।।४१३।। गृहे गत्वा समालोच्या-ऽमात्यमन्त्रिपुरस्सराद् । जयसुन्दरीसुतं राज्ये-ऽभिषिच्य जयशेखरम् ॥४१४॥ सप्तक्षेत्र्यां धनं दत्त्वा, कृत्वा यात्रामहोत्सवम् । दीनानाथान्धपगुभ्यो, दत्त्वा दानं यदृच्छया ॥४१५।। सहस्रवाहिशिबिकां, समारुह्य विनिर्गत: । सन्तोषसागराचार्य-समीपे निर्मलं व्रतम् ।।४१६।। जग्राह तृणवत्त्यक्त्वा, स्वं राज्यं मेदिनीपति: । शिक्षाद्वयानुसारेण, कृत्वानुष्ठानमुत्तमम् ॥४१७॥ केवलं शीलमासेव्य, समभावव्यवस्थित: । कृतसंलेखनो धीरो, धर्मारामरत: सदा ।।४१८|| सम्प्राप्य केवलं ज्ञानं, लोकालोकप्रकाशकम् । सर्वाहारनिरोधेन, विधायानशनकियाम् ॥४१९।। शुक्लध्यानेन निर्दघ सर्वकर्मेन्धनो मुनिः । चतुर्गतिविनिर्मुक्तः, पञ्चमी गतिमाश्रितः ॥४२०॥
इति धूपपूजाकथानकं परिसमाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org