________________
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
दीपपूजायां भानुप्रभकथा
धूपपूजाफलं प्रोक्तं, दृष्टान्तेन सविस्तरम् । दीपपूजाफलं वच्मि, सम्प्रत्यवसरागतम् ॥१॥ समस्ति सकलद्वीपमध्यस्थश्च स्वशोभया । द्वीपानामुपरीवोच्चै - जम्बूद्वीपो व्यवस्थितः ।।२।। तत्रापि भारते क्षेत्रे, षड्भिः खण्डैर्विराजिते । समस्ति मध्यमं खण्डं, धर्मधाम गुणाश्रयम् ।।३।। मगधाजनपदस्तत्र, जिनमन्दिरराजित: । गुणग्राही गुणाधारो, धर्मवान् धार्मिकप्रिय: ॥४॥ परदोषग्रहे मूको, जात्यन्धो दोषदर्शने । सुशीलो वृद्धसेवी च, नरवर्गो विराजते ॥५॥ नार्यो यत्र स्वसौन्दयै हेपयन्ति सुरस्त्रियः । पुष्पेषो: साधनीभूतै-विभ्रमैरपि केवलैः ॥६॥ विकाररहिता लक्ष्मी यौवनं विनयान्वितम् । श्रुतं प्रशमसंयुक्तम्, शौर्यं क्षान्त्या विभूषितम् ॥७॥ अर्थ: परोपकाराय, दक्षता धर्मकर्मणि । प्रयत्नपरता नित्यं, व्रतशीलादिरक्षणे ॥८॥ स्वगुणाविष्कृतौ लज्जा, सौहार्द कारणं विना । एते गुणा विलोक्यन्ते, यस्मिन्निवसतां सताम् ।।९।। अस्त्यैश्वर्यवतां धाम, तत्र भानुमती पुरी । भानवीया प्रभा यत्र, पताकाभिर्निषिद्धयते ॥१०॥ रत्नकुट्टेषु सङ्क्रान्त-सञ्चरज्जनमूर्तिभि: । सजीवानीव लक्ष्यन्ते, चित्राणि गृहभित्तिषु ॥११॥ प्रसर्पत्तारतेजोभि ाटकामलसारकैः । राजमार्गीविराजन्ते, यत्र सर्वज्ञमन्दिरैः ॥१२॥ सञ्चारदीपिका यस्यां, भवन्त्याभरणप्रभा: । प्रियवेश्म प्रयातीनां, रजन्यां रम्ययोषिताम् ॥१३॥
तस्यामजनि राजेन्द्रो, भानुमान् भुवनप्रिय: ।
यस्य वक्त्रे स्थिता वाणी, लक्ष्मी: खड़गे व्यवस्थिता ॥१४॥ सन्नप्यन्यायशब्दो यो, लुप्तो येन बलात् क्षितौ । इतीयानेव यत्रासीदन्यायो न्यायशालिनि ॥१५।। अथ तस्य प्रजेशस्य, प्रजाक्षेमविधायिन: । बभूव भूरिशृङ्गारा, भानुश्रीरिति गहिनी ॥१६॥ नीत्या लक्ष्म्या च भूपालो, नैवारमत केवलम् । भानुथ्रियापि सार्धं, स, रेमे राजा यथाक्षणम्।१७। अजायत महादेव्या:, पुत्रो भानुप्रभाभिध: । निजतेजः श्रिया येन, भानुमानपि निर्जितः ॥१८॥ दु:सहेन प्रतापेन, रूपेण यशसा श्रिया। शेषैरपि गुणैः सर्वै- स्तेनातिशयित: पिता ॥१९॥ द्वासप्ततिकलानां यः, परं पारमुपागतः । धामामलगुणानां च, रत्नानामिव सागरः ॥२०॥ चलत्वाज्जीवितव्यस्य, तथा सोपक्रमत्वत: । भानुश्री: सर्पसन्दष्टा, जगामान्यद्भवान्तरम् ।।२१।। तत्पदे स्थापिता चान्या, देवी हारप्रभाभिधा। तद्गुणैर्विस्मृता तस्य, भानुश्री: सा हदि स्थिता।। यब्रूते तत्करोत्येव, यत्कृतं तत्कृतं तया । अविचारो नृपस्तत्र, यथा गड्डुरिको नरः ॥२३॥ यौवनं पल्लवस्तस्याः, सौभाग्यं कुसुमोद्यम: । सूरनामा गुणाधारः, सत्पुत्र: फलसन्निभः ॥२४॥ भानुप्रभं विलोक्यासौ, विधत्ते हृदि मत्सरम् । यावदेष कुत स्ताव-द्राज्यं तत्तस्य जायते ॥२५॥ अवज्ञादुःखदावाग्नि दग्घदेहापमानत: । यदेष: दूरतो याति, म्रियते वा तदा सुखम् ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org