________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
८१
अन्यदा भणितो वत्स ! हिताहं तव सर्वदा । भानुश्रीरिव द्रष्टव्या, कथनीयं प्रयोजनम् ॥२७॥ वस्त्राभरणताम्बूल- भक्ष्यभोज्यविलेपनम् । पुष्पाणि च विचित्राणि, सम्पादयति कस्तव ॥२८॥ कर्म सम्पादयत्यम्ब!, नान्यः कोऽपि मतिमर्म । किं न दत्ते पिता पुत्र!, नेति तेन प्रजल्पितम् ॥२९॥ कथितं चतुर्गुणं कृत्वा, चित्तोत्तारकृते तया। राज्ञस्तेनापि रुष्टेन, सर्वं चेतसि धारितम् ॥३०॥ द्वितीयेऽह्नि प्रभातेऽपि, सवयस्य: समागत: । सभासिंहासनारूढे, राज्ञि राजसुतस्ततः ॥३१॥ 'प्रणत: पादयोर्भक्तया, रूक्षदृष्टयावलोकित: । निषसादोचितस्थाने, भणितश्च महीभुजा॥३२॥ केन जीवसि रे डिम्भ!, स प्राह निजकर्मणा । राजाह मुञ्च में गेहं, फलं भुश्व स्वकर्मणाम्॥३३॥ श्रुत्वेदं कर्कशं वाक्यं, सभामध्येऽपमानित: । प्रणम्य च पितु: पादौ, सभामध्याद्विनिर्गत: ।।३४॥ द्वे वाससी च मुद्रां च, गृहीत्वा निर्गतो गृहात् । गत्वाभिमानतो भुङ्क्ते, योजनानां चतुष्टयम् ॥३५॥ निजाश्रुस्नेहसन्मिभ्रं, मानव्यंजनसंयुतम् । भुक्तं नदीतटे तेन, भिक्षयाहृतभोजनम् ॥३६॥ वज्रेणेवापमानेना- मानेन व्याहृतो हृदि । पपात श्रान्तसर्वाङ्गः, सहकारतरोरधः ॥३७॥ अत्रान्तरे समायाता, स्त्री भानुश्रीसमप्रभा । भानुप्रभस्य सुप्तस्य, पादप्रक्षालनोद्यता ॥३८॥ प्रबुद्धोऽसौ करस्पर्शा- दुत्थितश्च ससम्भ्रम: । मातरं च पुरो भूत्वा, प्रोवाच विहिताञ्जलिः ॥३९॥ मात: कुत: समायाता ?, देवभूयं गतिं गता। असर्कितसुधासार- समानप्रियदर्शने ! ॥४०॥ तत: शोकभराक्रान्त - कण्ठया सोत्कण्ठया । कृत्वा कुमारमुत्सङ्गे सदुःखं रुदितं तया ॥४१॥ कथं प्राणप्रियो भूत्वा, निजपितुस्त्वमीदृशीम् । अवस्थां प्रापितो धात्रा, धिग्विमातृविचेष्टितम् ॥४२॥ कुमारेणापि नि:शेषो, वृत्तान्त: कथितो निज: । तयोक्तं नैव ते खेदः, कर्तुं युक्तो मनागपि ॥ ४३।। आपद: सम्पदश्चैव, समीपस्था: शरीरिणाम् । अस्तोदयौ दिनस्यान्त:, सूर्याचन्द्रमसोरिव ॥४४॥ अस्ति भानुमती नाम, मे भगिनी सहोदरी । कलिङ्गविषये पुर्यां, नगर्यां जनवत्सला॥४५॥ तत्रस्थेन त्वया वत्स ! नेतव्या विषमा दशा । पश्चादहं करिष्यामि, सर्वं यदुचितं तव ॥४६॥ इत्युक्त्वा तत्क्षणादेव, पुर्यां नीतो निजाङ्गज: । नीत्वा समर्पितो नक्तं, भानुमत्या विशेषतः॥४७॥ चिन्तामणिमणिं दत्त्वा, समाघ्राय च मूर्धनि । ध्यातव्या व्यसने वत्से- त्येवमुक्त्वा तिरोदधे ॥४८|| भानुमत्यपि सत्प्रीत्या, पश्यन्ती कुमरं प्रति । करोति शेषकार्याणि, सतां स्नेह: सदा सम: ॥४९॥ अथ विज्ञाय तत्रस्थं, भानुप्रभकुमारकम् । हारप्रभा दृढं चिते, दूना चैवं व्यचिन्तयत् ॥५०॥ अहो पुण्यैः स्वकैरेव, जीवत्येष कुमारकः । निखातं हृदि मे शल्यं, नितरां न समुद्धृतम् ॥५१॥ यदा तदापकाराय, जीवन्नेष न सुन्दरः । सर्वदापि भयस्थानं, वर्धमान: सुनिश्चितम् ॥५२।। प्रेषिता घातकास्तत्र, विषदा गूढचारिणः । चूर्णयोगकराश्चान्ये, योगिकापालिकादय: ॥५३॥ भानुप्रभकुमारस्य, मरणं य: कुरुते नरः । तस्य लक्षं पुनर्लक्षं, ददामीत्यभिधाय च ॥५४|| १ प्रणम्य - BJP ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org