________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
समायाता: पुरि सर्वे, मारणोपायतत्परा: । अलक्षिताश्च लोकेन, पापा भ्रमुरितस्ततः ॥५५।। भूयोऽपि च समायाता, कुशलान्वेषण हेतवे । कृता रक्षा शरीरस्य, निहता दुष्टचेतसः ॥५६॥ गता भूयोऽपि भानुश्री:, स्वस्थानं हृष्टमानसा । नानाक्रीडनकैः क्रीडन्, कुमारस्तत्र तिष्ठति ॥५७॥ अन्यस्मिन्दिने कुमरौ भानुप्रभमणिप्रभौ । जात्याश्वयो: समारूढौ, चलितौ बलवेष्टितौ ॥५८।। दूरं गत्वा निवृत्तेषु, शेषवाजिषु सत्वरम् । सुदूरं गन्तुमारब्धो, भानुप्रभतुरङ्गमः ॥५९॥ वल्गां करद्वयेनोच्चै- राकर्षति यथा यथा । तथा तथा च गृह्णाति, वेगं दुष्टतुरङ्गमः ॥६०॥ प्रवेशितो महाटव्यां, मुक्ता वल्गा स्थितो हयः । समुत्तीर्ण: कुमारोऽपि, वाजी पञ्चत्वमागत: ॥६१॥ बुभुक्षितस्तृषार्तश्च, परिभ्राम्यन्नितस्तत: । कन्दमूलकृताहारः, पीत्वाच समलं जलम् ।।६२॥ सखेद: श्रान्त सर्वाङ्गो , विश्राम्य स तरोरध: । शृणोत्यतीव दीनानि, वचांसि रुदितानि च ॥६३॥ भानुश्रीकुक्षिसम्भूत ! भानुप्रभमहाप्रभो ! । मुञ्च मे मन्दभाग्याया, हृदयं मा मरिष्यसि ॥६४|| त्वं भर्ता मे समादिष्टो, मुनिना दिव्यचक्षुषा । यश:प्रभेण तस्यापि, वचनं किं वृथा भवेत् ? ॥६५॥ अहो निर्मानुषा पृथ्वी, नूनं वीरविवर्जिता । अन्यथा पापपाखण्डी, कथं मां मारयत्ययम् ॥६६॥ एवमुक्त्वा भयभ्रान्ता, मुक्तकण्ठं रुरोद सा । हृदयान्यपि दीर्यन्ते, यत् श्रुत्वा नार्द्रचेतसाम् ॥६७॥ भो भो भीरु ! न भेतव्यं, मा रोदी लोललोचने! । यमजिह्वासमो यावत्, खड्गो मे दक्षिणे करे॥६८॥ इति जल्पंस्तदन्तेऽसौ, खड्गव्यग्रकरो गतः । इदं निशम्य कोपान्ध, कापाली भैरवाभिधः ॥६९॥ धावित: खड्गमादाय, रुष्टो भानुप्रभं प्रति । पर्यन्तों. जीवितव्यस्य, स्मर रे ! पितरौ निजौ ॥७०|| रे पाप ! पापबुद्धिस्ते, केन दत्तेयमीदृशी ? । इत्युक्त्वा वाहित: खगो, भैरवेण भयङ्करः ॥७१॥ लब्धलक्षेण दक्षेण, कुमारेणापि वञ्चित: । गृहीत्वा पादयोस्तूर्णम्, मस्तकोपरि धूनित: ।।७२।। भैरवेण भयादूचे, तुष्टोऽहं त्वं च मुञ्च माम् । गृहाणेमां महाविद्यां, शक्रसंमोहकारिणीम् ॥७३॥ इमां चानेकरूपाणां, तत्क्षणं करणक्षमाम् । विद्यां गृहाण येनाहं, कृतकृत्यो भवाम्यलम् ॥७४॥ मुक्तो भूमौ कुमारेण, क्षामितोऽविनयं निजम् । भणितश्चेदृशं कर्म, कर्तुं तव न सङ्गतम् ॥७५।। स प्राहानुग्रहं कृत्वा, विद्याद्वन्द्वं गृहाण मे । दत्त्वा यद्गुरुदक्षिणां, योगशुद्धिं करोम्यहम् ॥७६।। अकार्ये च प्रवृत्तोऽहं, त्वया नूनं निवारितः । तेन त्वं मे गुरुर्जात: प्रार्थनां 'मावजीगण: ॥७७॥ उपरोधगृहीतेन, गृहीतं तेन तद् द्वयम् । गतो भैरवकापाली, पृष्टा तेनाथ कन्यका ॥७॥ का त्वं कस्य वा पुत्री, सम्प्राप्ता व्यसनं कथम् ? | भानुप्रभकुमारस्य, नाम किं वा स्मृतं त्वया? ७९। तयोक्तं पुत्रिका श्रीम-त्सिंहलाधिपभूपतेः । कनकश्रीकुक्षीसम्भूता, नाम्ना कनकसुन्दरी॥ गीतनृत्यविनोदेन, रजन्या: प्रहरे गते । रम्ये हर्म्यतले सुप्ता- त्रानीताहं कपालिना ॥८१॥ विद्यासिद्धिकृते पापो, मां मारयितुमुद्यत: । भानुप्रभश्च मे भर्ता, कथितो मुनिना पुरा ॥८२।। १ मा ववीमम- B मा ववीगण-JP ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org