________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
कुमारेणापि तुष्टेन, तया पृष्टेन मूलतः । नामान्तो निजवृत्तान्त:, सङ्क्षेपेण निवेदितः ॥८३॥ एहि सुन्दरि ! कान्तारा - त्तारयामि महाभयात् । इत्युक्त्वा चलितः पूर्वां, सापि तत्पृष्ठतः स्थिता ॥ ८४॥ क्षणान्तरेण सा ब्रूते, प्रियात्यन्तं पिपासिता । व्यक्तं वक्तुं न शक्नोमि, तृषा शुष्यति तालुकम् ॥८५॥ आमलकफलं दत्त्वा समाश्वास्य पुनः पुनः । नीता स्तोकान्तरं तेन, बुभुक्षिता पिपासिता ॥ ८६ ॥ अत्रान्तरे महाभोगं, शीतवातेन सूचितम् । हंससारसचक्रादि- कूजितेन प्रकाशितम् ॥ ८७॥ अखण्डवनखण्डेन, शश्वच्छ्यामायमानया । अदभ्रशुभ्रया पाल्या, परितः परिवेष्टितम् ॥८८॥ लावण्यजलसम्पूर्णं, भूरमण्या मनोहरम् । नाभिहदमिवाभाति, वृत्तं गम्भीरमुज्ज्वलम् ॥८९॥ दिशावधूकुमारीणां मुखालोकनहेतवे । वेधसा निर्मितं मन्ये, विशालमिव दर्पणम् ॥९०॥ देवनद्याः पयःपूर-रसातलप्रवेशने । द्वारमिव शशाङ्कस्य, ज्योत्स्नेव भुवमागता ॥ ९१ ॥ ग्रहनक्षत्रयुक्तेन, नक्तमन्तः प्रसर्पता । स्वच्छताप्रार्थना हेतो - र्व्योम्नेव कृतसेवनम् ॥९२॥ रक्ताशोकसमुद्भूत- पल्लवैः प्रतिबिम्बितैः । मांसखण्डधिया धाव- -मुग्धमीनैर्विराजितम् ||१३|| तटस्थजलसङ्क्रान्त-पूगीफलमहीरुहैः । चलद्भिर्वातसम्पर्का - त्सपैरिव भयङ्करम् ॥९४॥ स्फाटिकाभिरदभ्राभि-र्निश्छिद्राभिः समन्ततः । निर्मुलाभिर्विशालाभिः, शिलाभिर्बद्धभित्तिकम् ॥९५॥ भित्तेरुपरि दुर्लक्ष-सन्धिबन्धैः सुनिर्मलैः । निबद्धवेदिकं शुभ्र - चन्द्रकान्तशिलातलैः ॥९६॥ वेदिकालग्नखर्जूर-नालिकेराम्रकेतकैः । पुन्नागहिङ्गुहिन्ताल-तालपूगैर्विराजितम् ॥९७॥ सुगन्धगन्धिभिः सार्दै - र्बकुलै राजचम्पकैः । धूलीधाराकदम्बैश्च, सर्वतः परिवेष्टितम् ॥ ९८|| प्रधाननागवल्लीनां, द्राक्षाणां च मनोहरैः । आर्द्रैश्च सरसैः पत्र - र्मण्डितं वरमण्डपैः ॥९९॥ नानानारङ्गजम्बीर-दाडिमैर्बीजपूरकैः । वेदिकासन्नसद्वृक्ष - कक्षेण कृतवेष्टनम् ॥१००॥ तरङ्गभङ्गरङ्गद्भिः, पयोभिः कृतविस्मयम् । तारासरः समारव्यातं, तारया येन कारितम् ॥ १०१ ॥ तरङ्गबाहुभिर्दूरा-त्पक्षिणां विरुतेन च । शब्दयन्तमिवानेकान्, स्नानपानकृते जनान् ॥१०२॥ अवगाह्य तत्सरस्ताभ्यां स्वशीलमिव निर्मलम् । पयः पीतं कृतं स्नानन-मुत्तीर्य सरसस्ततः ॥ १०३॥ कन्दमूलैः फलैश्चैव, द्राक्षाद्यैः सुमनोहरैः । स्मृत्वान्तर्गुरुदेवांश्च', विहिता भोजनक्रिया ॥ १०४ ॥ श्रान्ता लतागृहस्यान्तः स्थिता कनकसुन्दरी । कुमारः खड्गमादाय, दुष्टसंरक्षणाकृते ॥ १०५ ॥ निषण्णो द्वारि निक्षिप्त-लोचनो दिक्षु पश्यति । सरः पालीसमासन्नं, नागवल्लीविराजितम् ॥१०६॥ वृक्षलक्षैः समाकीर्ण-मुद्यानं नन्दनोपमम् । आलवालपयःपान-प्रहृष्टमृगयूथकम् ॥१०७॥ तस्यान्तर्वरपुष्पाणि, चिन्वती कोमलैः करैः । दृष्टैका कन्यका तेन, पारिजाततरोरधः || १०८ ॥ सारङ्गयूथमध्यस्था, चन्द्रवक्त्रा मृगेक्षणा । उत्तप्तस्वर्णवर्णाभा, यौवनारम्भवर्तिनी ॥१०९॥ सर्वसीमन्तिनीसीमा, शशाङ्कस्येव कौमुदी । शर्वाणी शङ्करस्येव, शङ्करा प्रियदर्शना ॥ ११० ॥
१ देवानां - BJC ॥
Jain Education International
For Private & Personal Use Only
८३
www.jainelibrary.org