________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ग्रामं पुरं दिशं स्थानं, यावदेषा प्रबुद्धयते । प्रश्नयामि पुरोभूय, तावदेनां मृगेक्षणाम् ॥१११॥ चलित: खङ्गमादाय, भानुप्रभ: सकौतुक: । समीपमागते तस्मिन्, मृगयूथं पलायितम् ॥११२।। साङ्गभङ्ग सनि:श्वासं, सम्भ्रमभ्रान्तलोचनम् । सापि कम्पितुमारब्धा, लतेव पवनाहता ॥११३।। भानुमतो नरेन्द्रस्य, पुत्रोऽहं भूमिगोचरः । दिङ्मोहमोहितो मूढो, ? बम्भ्रमीमि मृगेक्षणे ! ॥११४॥ का त्वं? कस्याथवा पुत्री ? । कानि नामाक्षराणि ते ?एकाकिन्या कथं सुभु! शून्यारण्यमलङ्कृतम्।। मन:प्रमोदकारीदं, सर: केनेह खानितम् ? । केन वा कारितं चेद-मुद्यानं नन्दनोपमम् ॥११॥ उद्यानान्तर्महानेष, प्रासाद: केन कारित: ? । समस्ति निकटे किञ्चि-द्रोकुलं ग्राम एव वा ? ॥११७॥ अदत्त्वैवोत्तरं बाला, मार्गतो वलितेक्षणा । जृम्भारम्भं प्रकुर्वाणा, गता प्रासादसन्मुखी ॥११८॥ सविलक्ष: कुमारोऽपि, चिन्तयामास मानसे । अहो अलौकिकी कन्या, लोकाचारविवर्जिता ॥११९।। स्वयमेव समागत्य, पुरतोभूय प्रश्निता । अदर्शितार्थिभावेन, सान्वयाख्यानपूर्वकम् ॥१२०॥ तथापि कथितं नैव, किंचिदप्यनया मम । अहो मयार्थिना नून-मात्मायं मे लघूकृतः ॥१२१।। सखेदश्च निरुत्साह-स्तैरेव चलित: पदैः । लतागृहेऽथ नो सापि, दृष्टा कनकसुन्दरी ॥१२२॥ निभालयितुमारब्धः, स विलक्ष इतस्तत: । विलोकिता नदीतीरे, तरुण्या: पदपद्धतिः ॥१२३।। गत: स्तोकान्तरं याव-त्पदलग्नो नृपाङ्गज: । दृष्टा लतागृहस्यान्त-श्चतस्रो राजकन्यकाः ॥१२४॥ द्वारस्था रक्षिका चैका, खड्गहस्ता निरीक्षिता । विकोशासिकरा कान्ता, मृगाक्षी नवयौवना ।।१२५॥ नन्वेका सैव लोलाक्षी, यदर्थं बम्भ्रमीम्यहम् । पृच्छामि किं विकल्पेन, प्रविष्टश्च लतागृहे ॥१२६।। भानुप्रभेण सा पृष्टा, किं त्वं कनकसुन्दरी ? । सापि तां रक्षिकां दृष्ट्वा, रुदत्येव न जल्पति ॥१२७॥ रक्षिकापि विमुच्यासिं, समारूढमनोभवा । प्रोवाच कुमरं वाक्यं, वेपमानाङ्गयष्टिका ॥१२८॥ संकाससिंहसूराणां,। पुत्रिका धरणीभुजाम् । सुन्दरी मदना तारा, तिम्रस्तरललोचनाः॥ एषा [च] पुनरत्रैव, सुखसुप्ता लतागृहे। रतिग्रहाभिधानेन, भ्रात्रा मेऽक्षत्रकारिणा ॥१३०॥ आनीतास्ता गत: सोऽपि, वैताढये निजकार्यत: । इमां विवाहसामग्री, सम्पूर्णा किं न पश्यसि ? ॥१३१॥ करग्रहं कुमारीणां, कुरु त्वमग्निसाक्षिकम् । विधेहि धीर ! विश्रब्धं, पञ्चमी मां चतसृणाम् ॥१३२॥ सर्वासां सम्मतं ज्ञात्वा, कुमारेण विवाहिता: । सङ्क्षपेण कृतं सर्वं, पाणिग्रहणमङ्गलम् ॥१३३॥ अत्रान्तरे समायत-स्तत्र वेगानभश्चरः । लता गृहाद्विनिर्गच्छ-निबद्धनवकङ्कणः ॥१३४॥ नव्यविवाहवेषश्च, सरोषं तेन वीक्षित: । प्रश्निता भगिनी कोऽयं, निर्गत: पुरुषाधमः ॥१३५।। हे भ्रातरार्यपुत्रोऽयं, भानुमन्नृपनन्दनः । विश्वविश्वम्भराभार-धरणोद्भुरकन्धरः ॥१३६।। रे पापे ! केन ते दत्तो, येनाजन्यार्यपुत्रकः । अथैनं प्रथमं ताव-न्मारयामि नराधमम् ॥१३७॥ पश्चादेनां महापापां, भगिनीरूपेण वैरिणीम् । यया कामान्धया सत्या, वञ्चित: स्वसहोदरः ।।१३८॥ रे पाप ! जार ! दुर्जात ! दुराचार ! नराधम ! । केनैता: कन्यका दत्ता-स्त्वया येन विवाहिताः॥१३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org