________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
एता: स्वार्थं मयानीताः, सामग्री सकला कृता । त्वया तु दुर्जनेनैवं, छिद्रं लब्ध्वा विवाहिताः ॥१४०॥ शस्त्रं गृहाण कालस्ते, क्रुद्धो मूढाधुना ध्रुवम् । अद्यैव पाप ! ते मूर्ध्नि, सद्यः पततु पातकम् ॥ १४१ ॥ भानुप्रभकुमारोऽपि, दुर्वचः शरशल्यितः । केसरीव निराशङ्की, डुढौके तस्य सन्मुखः ॥१४२॥ खेचरेणापि निस्त्रिंशो, वाहित: कुमरं प्रति । मुहूर्तं मूर्च्छितस्तेन, स्थितो भूपालनन्दनः ॥१४३॥ भूयोऽपि लब्धचैतन्यः, खड्गमादाय धावितः । तीक्ष्णखड्गप्रहारेण, प्रहतो दक्षिणे करे ॥ १४४॥ मुमोच दक्षिण बाहुं, खड्गेन सह खेचरः । स्मृता विलक्षवक्त्रेण तेन विद्या- समागता ॥ १४५॥ वद वत्स ! यन्मया कार्यं, चिन्तिताहं समागता । दुराचारं दुराशं मे, मातर्मारय वैरिणम् ॥ १४६ ॥ विधाय विकृतं रूपं, संवर्द्धय च नभस्तले । भुजपञ्जरमध्यस्थं कृत्वा च नृपनन्दनम् ॥ १४७॥ गत्वोर्ध्वं नभसा सापि, चलिता दक्षिणया दिशा । समुद्रे प्रक्षिपाम्येन-मिति बुद्धया कदाशया ॥ १४८ ।। हता खड्गप्रहारेण मूर्ध्नि भानुप्रभेण सा । मुक्त्वा खिन्ना कुमारं च गता विद्या यथागतम् ॥१४९॥ कुमारोऽपि नभोमार्गा-त्पतितो निम्नगाजले । ततार तारबाहुभ्यां, नदीमदीनमानसः || १५० || विश्रम्य च नदीतीरे, कन्दमूलकृताशनः । अजानानो दिशां भागं स चचालैकया दिशा ॥ १५१ ॥ स्तोकान्तरं गतेनाथ, ददृशे वंशजालिका । द्वारदेशसमासीना, स्त्री दृष्टा गतयौवना ॥ १५२ ॥ निरुद्धपदसञ्चारा, त्रस्तमुग्धमृगेक्षणा । दृष्टैका कन्यका मध्ये, लावण्यामृतसारणी ॥ १५३॥ उपसृत्य कुमारेण, प्रणम्येदं प्रजल्पितम् । का त्वं ? च केन कार्येण, दृश्यसे भयविह्वला ? ॥१५४॥ केयं मध्यस्थता कन्या ?, कः प्रदेशोऽयमुच्यताम् । न जानेऽहं महाभागे !, तेन पृच्छामि कथ्यताम् ॥ १५५॥ अथ वृद्धा प्राह
इतो योजनमात्रेण, वत्साविषयभूषणा । सुवत्सास्ति पुरी तत्र, नरेन्द्रश्चन्द्रशेखरः ॥१५६॥ चन्द्रलेखा महादेवी, रूपसौभाग्यभाजनम् । शर्वाणी शङ्करस्येव, शशाङ्कस्यैव कौमुदी ॥ १५७ ॥ उपयाचितशतैस्तस्या, एकैवाजनि कन्यका । सम्मता मातृपित्रो: सा, भ्रातॄणां नेत्रकौमुदी ॥ १५८॥ दानसन्मानसत्कारैः, पूजयित्वा महाजनम् । सूरश्रीरिति नामास्याः, समये सम्प्रतिष्ठितम् ॥१५९॥ पित्रा पृष्टः प्रहृष्टेन, समाहूय सगौरवम् । नैमित्तिक: शुभारम्भः ख्यातः सत्यप्रभावकः ॥ १६०॥ नैमित्तिक ! शरीरेऽस्या, लक्षणानि निवेदय । निरूप्य भणितं तेन, राजपुत्रीशरीरकम् ॥ १६९॥ राजन् ! कल्याणमालेयं, चतूराज्यनिबन्धना । जन्मग्रहबलं श्रेष्ठं लक्षणानि शुभानि च ॥ १६२॥ कल्याणभाजनं भव्यः, शुभग्रहनिरीक्षितः । धन्यः कोऽपि युवा योऽस्याः, करिष्यति करग्रहम् ॥ १६३ ॥ विसर्जित: शुभारम्भ-श्चन्द्रशेखरभूभुजा । चन्द्रलेखा समाहूता, तस्याः सर्वं निवेदितम् ॥१६४|| विस्तृतं सर्वराज्येषु, शुभारम्भप्रजल्पितम् । देशे देशे पुरे ग्रामे, तैलबिन्दुर्यथा जले ॥१६५॥ विषयराज्यलोभेन, 'राजानस्तां ययाचिरे । न निषेधं न वा दानं कुरुते चन्द्रशेखरः ॥ १६६ ॥
१ राजानस्तं- BJPC II,
Jain Education International
For Private & Personal Use Only
८५
"
www.jainelibrary.org