________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
केरलाधिपसूरस्य, राज्ञो दूत: समागत: । नृपं प्रणम्य दूतेन, सदएँ जल्पितं वचः॥१६७॥ सूरस्य दुहितरं दत्त्वा, सुखं भुक्ष्व महीपते ! । कृतं कालविलम्बेन, युद्धसज्जो भवाथवा ॥१६८|| अज्ञस्तव नृपो दूत, ! भवानपि न कोविदः । न्यायेन लभ्यते कन्या, तत्रापि गुणसम्पदा ॥१६९।। अर्धचन्द्रं गले दत्त्वा, दूतो निष्काशितो पुरात् । गत्वा तेनापि सूरस्य, सविशेषं निवेदितम् ॥१७०॥ श्रुत्वा दूतवच: सूरो, दिदीपे क्रोधवह्निना। विधाय सर्वसामग्री, चचालोद्भुरकन्धरः ॥१७१।। अचिरादेव सम्प्राप्त:, सुवत्सां सूरपार्थिव: । चन्द्रशेखरभूपोऽपि, नोपसर्पति मानतः ॥१७२।। बहि: स्थातुं न शक्नोति, योद्धुमल्पबलो यत: । दग्धतृणेन्धनो मानी, विनाशितजलाशयः ॥१७३|| जलेन्धनतृणादीनां, प्रभूतकृतसङ्ग्रहः । पूर्वव्युच्छिन्नभूपाल-सन्धानकरणोद्यत: ॥१७॥ मध्यस्थकूपवाप्यादि-संशोधितजलाशय: । शूरसामन्तमन्त्र्यादि-साथै रक्षितगोपुरः ॥१७५।। प्राकारशिखरासक्त-शिलाशतसमाकुलाम् । यन्त्रस्थटोलपाषाण- पातभीतारिपौरुषाम् ॥१७६॥ प्राकारासन्नविस्तीर्ण-खातिकाम्भ: समाकुलाम् । जात्याऽश्चहेषिताराव भृताम्बररसातलाम् ॥१७७॥ निरुद्धजनसञ्चारां, दुष्प्रवेशविनिर्गमाम् । सुवत्सां नगरीं कृत्वा, प्रतस्थे चन्द्रशेखरः ॥१७८।। सूरोऽपि पर्वताकारै- र्मदमत्तमतङ्गजैः । प्राकारपातनाहेतोः, सन्नद्ध: सपरिच्छदः ॥१७९।। सुवत्सा वेष्टिता तेन, परितो मत्तवारणैः । वाजिभि: स्यन्दनैः सारैः, पादातैर्गुरुविक्रमैः ॥१८०॥ सूरश्रियं समादाय, दासदासीसमन्विता । उपयाचितदानार्थं, पूर्वमेव त्वहं गता ॥१८१।।। दूरस्थभैरवीगेहे, कृतस्तत्रैव जागरः । प्रभाते चलिता यावद्, दृश्यते नार्कमण्डलम् ॥१८२।। हृदयान्यपि दीर्यन्ते, शिवानां फारफेत्कृतैः । वचो न श्रूयते तत्र, घूकानां घोरघूत्कृतैः ।।१८३॥ न प्राकारो न वेश्मानि, न च देवकुलानि च । दृश्यन्ते हेतुना केन?, किं वा मे मतिविभ्रम: ? ॥१८४|| चिरं निरीक्ष्य सत्रासं, कुन्तलेन प्रजल्पितम् । भद्रे! नगररोधोऽयं, लक्ष्यते शत्रुणा कृतः ॥१८५|| सूरश्रियं समादाय, गम्यते न विलम्ब्यते, तथैव कृतमस्माभि- रहमत्र समागता ॥१८६॥ शेष: परिजन: सर्वः, कोऽपि क्वापि विसर्जितः । कञ्चुकी कुन्तलो वृद्धो जटाभारधरः कृतः॥ घरदासीकुक्षीसम्भूतौ, दासौ कपिलकेरलौ। अव्यक्तलिङ्गिनौ जातो, परानीके विरतुः ॥१८८॥ सर्वत्र तत्र तौ भ्रान्त्वा, ज्ञात्वा वार्ता चःशात्रवीम् । दिने दिने समागत्य, कथयामासतुर्मम ।।१८९।। एवं करोति सा याव- त्स्ववृत्तान्तनिवेदनम् । भानुप्रभकुमारस्य, पुरत: प्रीतमानसा ॥१९०॥ तावतूर्णपदैर्धावन, श्वाससम्पूरिताननः । वृद्धान्तिके समायात:, कञ्चुकी कुन्तलाभिध: ॥१९॥ व्याकुलो दृश्यसे भद्र !, केन कार्येण कथ्यताम् । तेनापि भणितं भद्रे!, सक्षेपेण निशम्यताम् ॥१९२।। अद्य दासीसुतौ दृष्टौ, केरलाधिपमन्त्रिणा । पृष्टौ च कौ भवन्तौ च ? कस्यादेशादिहागतौ ? ॥१९३।। अशक्तावुत्तरं दातुं, क्षोभितौ लोललोचनौ । नियम्य सुदृढं रज्ज्वा, कशादण्डैः समाहतौ ॥१९४।। १ पृष्टौ च भवतौ को कस्या BJP ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org