________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
८७
समर्पितौ नरेन्द्रस्य, तेनापि च कदर्थितौ । पृष्टौ रे! कथ्यतां कुत्र, चन्द्रशेखरकन्यका ॥१९५॥ तच्छुद्धिं यदि जानीथः, स्वर्णकोटिं ददाम्यहम् । अन्यथा मारयाम्येव, युवामत्र न संशयः ॥१९६।। विस्मृतस्वामिसन्मानै- र्जीवितार्थोपलोभितैः । कुमारी कथिता तस्मै, स्वाभिज्ञानपुरस्सरम् ।।१९७॥ इत एति महीनाथ:, सूरः सबलवाहन: । श्रुत्वेदं मूर्च्छिता वृद्धा, पतिता मेदिनीतले ॥१९८॥ क्रन्दन्ती निर्गता मध्या- त्सूरश्री सम्भ्रमाकुला। मा भैषीरम्ब! निस्त्रिंशो, यावन्मे दक्षिणे करे॥१९९॥ इत्युक्त्वा पतित: शक्र- सैन्ये कुमरकेसरी । पराजितं च तत्तेन, सूर: स्वयमुपागतः ॥२००॥ सोऽपि खड्गप्रहारेण, प्रहत: पतितो भुवि । वलितं च भरं कृत्वा, कृतकोलाहलं बलम् ।।२०१॥ कुमारेण स्मृता विद्या, शत्रुसंमोहकारिणी । कापालिकेन या दत्ता, सुप्तं तयाखिलं बलम् ।।२०२॥ कुमारस्योपचारेण, सूर: स्वास्थ्यमुपागत: । प्रतिविद्याप्रदानेन, बलं च प्रगुणीकृतम् ।।२०३।। चन्द्रशेखरभूपोऽपि, बहिरेव समागतः । कृता परस्परं मैत्री, सहैव पुरमागताः ॥२०४।। चन्द्रशेखरभूपेन, सूरश्री राज्यसम्पदा । भानुप्रभकुमाराय, दत्ता प्रीतिपुरस्सरम् ।।२०५॥ सूरेणापि कुमारस्य, दुहिता केरलाभिधा.। प्रार्थनापूर्वकं दत्त्वा, विस्तरेण विवाहिता ।।२०६॥ अत्रान्तरे समायाता, विद्युत्सेना नभश्चरी । चंतस्रोऽपि समादाय, पञ्चमी मुक्तकञ्चुका ॥२०७॥ भणितं च कुमारेण, युष्माकं क्षेमं वर्तते । विद्युत्सेनाह सोद्वेगं, क्षेमाक्षेमं च वर्तते ॥२०८।। मन:समुद्रराकेन्दु- रद्य त्वं येन वीक्षित: । महोदयसमारूढ- स्तेन न: क्षेमं वर्तते ॥२०९॥ विद्यामुक्तश्च भ्राता स, कन्यकानां वधोद्यत: । यन्मारितो मयाऽक्षेमं, तेन नाथ ! निगद्यते ॥२१०॥ प्रयोजनप्रिय: प्रायो, जनोऽयं न जनप्रिय: । पत्यु: प्रयोजने येन, भग्न्या भ्राता निपातित: ।।२११॥ भानुप्रभवचो लब्ध्वा, तया दत्तो जलाञ्जलि: । गृहीत: कञ्चुक: पृष्ठौ, पतितश्च सहोदरः॥ लतागृहे समूढानां, कन्यकानां चतसृणाम् । पितरो मिलितास्तत्र, सूरेण सममागता: ॥२१३॥ दृष्टा दुहितरस्ताभि- वृत्तान्त: कथितो निजः । तेन सत्पात्रयोगेन, ननन्दुः सुतरां नृपाः ।।२१४।। सूरेणापि निजं राज्य- मपुत्रेण समर्पितम् । भानुप्रभकुमारस्य, चतुरङ्गबलसङ्गतम् ।।२१५।। नि:सन्तानो गतानन्दः, सूर: संहृतविस्तरः । न केवलं तपस्तेपे, शिश्रिये च तपोवनम् ।।२१६।। गीतनृत्यविनोदेन, रजन्या: प्रहरे गते । सुप्तो हर्म्यतले रम्ये, तल्पे सर्वाङ्गकोमले ॥२१७॥ प्रभाते च प्रबुद्धोऽसौ, प्रासादशिखरस्थितम् । पश्यत्यात्मानमत्रस्त:, किमेतदिति विस्मित: ॥२१८॥ न तत्सौधतलं रम्यं, न तल्पं तूलकोमलम् । सुवत्सा नगरी नैषा, न कान्ता कमलेक्षणा: ॥२१९।। एवं तर्कपरो याव- दास्ते भानुमदङ्गज: । तावत्तारा समायाता, देवता तत्र वासिनी ॥२२०॥ मात:! कात्वं वने शून्ये?, प्रासाद: केन कारित: ? । उद्यानं च कृतं केन?, कस्य कीर्तिसरोवरम्॥२२१।। केनेदं कारितं रम्यं ? मन्दिरं मदनद्विष: ? चराचरजगद्वन्धो- न भेयस्य महात्मनः ॥२२२॥ १BJPCI भयाकान्तं-मु. । भर = भय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org