________________
८८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सापि वक्तुं समारेभे । बाष्पाम्भोभृतलोचना । तारा वनदेवता वत्स!, प्रासादोऽयं मया कृतः॥२२३।। सरश्च जलसम्पूर्णं, कल्लोलालिविराजितम् । युगादिजिननाथस्य, मन्दिरं च मया कृतम् ॥२२४।। आरामोऽपि मयाकारि, नानावनविराजित: । पूजार्थं पूजनीयस्य, वृषभस्य जगद्गुरोः ।।२२५॥ भणितञ्च कुमारेण, यतस्त्वं वनदेवता । स्वच्छन्दचारिणां कार्यं, किमेतैर्विस्मयो मम ! ॥२२६।। तयाभाणि महाभाग !, सक्षेपात् शृणु कारणम् । अङ्गाजनपदस्यान्त:, श्रीविलासपुरं पुरम्॥ श्रीविलासो नृपस्तत्र, मन्दिरं सर्वसम्पदाम्। कामश्रीर्गेहिनी तस्य, रूपलावण्यशालिनी। शतोपयाचितैर्जाता, अहमेकैव कन्यका । तस्या: प्रतिष्ठितं नाम जयश्रीरिति सुन्दरम् ॥२२९।। अवन्तिवर्धनेनाहं, कलिङ्गाधिपसूनुना । परिणीता प्रमोदेन, व्रजन्ति मम वासरा: ॥२३०।। सम्भूतो मेऽन्यदा गर्भो, मृतश्चावन्तिवर्धनः । कीर्तिधर्माभिधस्तस्य, भागिनेय: प्रतिष्ठित: ॥२३१।। अन्यदा च सशङ्केन, पृष्टो नैमित्तिक: स्वयम्। स्थिरं मे भद्र ! किं राज्यं?, चलं वेति निगद्यताम्॥२३२।। जयश्रीकुक्षिसम्भूतां, कन्यां य: परिणेष्यति । स एतद्भोक्ष्यते राज्यं, निश्छद्म यदि जल्प्यते ॥२३३॥ नैमित्तिक ! गृहं याहि, हृदि धार्यमिदं त्वया । एकान्ते भणितस्तेन, दृढधर्मा निजमातुल: ॥२३४|| जयश्रियं गृहीत्वा त्वं, नयामि त्वां पितुर्गृहे। इत्युक्त्वा गच्छ कान्तारे, व्यापाद्यागच्छ सत्वरम् ॥२३५॥ प्रतिपद्य वचस्तस्य, एकाकी च मया समम् । रथमारुह्य वेगेन, कान्तारमिदमागतः ।।२३६।। ततो रथात्समुत्तीर्य, निवेद्य नृपशासनम् । कटीतटात्समाकृष्टा, तेन तीक्ष्णासिधेनुका ॥२३७।। तीव्रार्ककरसम्पर्क- दुर्दर्शामसिपुत्रिकाम् । दृष्ट्वाहं कम्पितुं लग्ना, लतेव पवनाहता ॥२३८।। भीताया: पतितो गर्भो, भूतलेऽजनि पुत्रिका । हताहं च मृतात्रैव, सञ्जाता वनदेवता ॥२३९।। दारिकां मारयन् सोऽपि, वनदेव्या निपातित: । पापानां निपतत्येव, पापमत्रैव जन्मनि ॥२४०॥ स्त्रीहत्यां भ्रूणहत्यां च, कृत्वासौ भावतोऽधम: । महापापभराक्रान्तो, मृत्वा च दुर्गतिं गतः ॥२४१॥ स्त्रीहत्या हि महापाप- महानर्थनिबन्धनम् । महापापा: प्रकुर्वन्ति, दुर्गदुर्गतिगामिनः ॥२४२॥ अनाचारे मतिर्यस्य, 'जन्मद्वयं निहन्ति सः । दुर्गति: परलोकेऽस्य, लोके चेह विडम्बना ॥२४३।। पुत्रिकापि मया पुत्र !, महामोहेन पालिता। साम्प्रतं च वरप्राप्तौ, चिन्ता मे हृदये स्थिता ॥२४४॥ मानुषी तु न देवेषु, मनुष्येषु न रूपवान् । वरोऽस्या विद्यते योग्य:, सचिन्तं तेन मे मनः ।।२४५।। वरचिन्ताकुला याव- तिष्ठामि प्रतिवासरम् । तावदन्यदिने दृष्टा, तल्पासीनातिदुःखितम ॥२४६|| एकाकिन्येव जल्पन्ती, रुदन्ती च पुन: पुन: । शून्यचित्ताह्यधोवक्त्रा, भ्रष्टमन्त्रेव योगिनी ।।२४७।। अहो मे निघृणं कर्म, कृतमज्ञानदोषतः । न दत्तमुत्तरं तस्य, सस्नेहं पृच्छयमानया ॥२४८॥ लज्जानुरोधतो नैष, युवा सम्भाषितो मया। दूरस्था साम्प्रतं लज्जा, दुःखं निपतितं मम ॥२४९।। क्व यामि कुत्र तिष्ठामि, परित्राणं कुतो भवेत् ? । मनो मेऽपहृतं तेन, कायस्तिष्ठति केवलः ॥२५०॥ १स हन्ति जन्मद्वयं- BJP ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org