________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
८९
वने जाता वने भुक्ता, वने वृद्धिमुपागता । कुतोऽस्या ईदृशा भावा:, प्रादुर्भूता अशिक्षिता: ॥२५१॥ ससम्भ्रमं समागत्य, मया पृष्टा पुन: पुन: । बाधते किं शरीरे ते, रुद्यते किं पुन: पुन: ॥२५२॥ एवमापृच्छयमानापि, रुदत्येव हि केवलम् । नाचष्टे कारणं किचि- त्ततोऽहं मौनमाश्रिता ॥२५३।। सामान्येन मया ज्ञातं, दृष्टः कोऽपि युवानया। निर्निमित्ता न जायन्ते, भावा: कामसमुद्भवाः ॥२५४॥ वत्से! चिन्ता न कर्तव्या, चिन्तेयं मम साम्प्रतम्। तथा तथा करिष्यामि, सुखितासि यथा यथा॥२५५। ततश्चेदं समाकर्ण्य, निपत्य मम पादयोः । स्नाता भुक्ता प्रतीताच, रेमे च हरिणैः सह ॥२५६॥ इतश्चेतो गवेषन्त्या, ग्रामेऽरण्ये जले स्थले । न दृष्टो न श्रुत: क्वापि, विफलो मे परिश्रमः ॥२५७॥ अद्य सुप्तो मया दृष्टो, वत्सायां पुरि मन्दिरे । चन्द्रशेखरराजस्य, तल्पेऽस्य मनोरमे ॥२५८।। गते यामे च यामिन्या:, सुप्ते परिजनेऽखिले । दत्त्वावस्वापिनीं विद्या- मानीतोऽसि मयाधुना ॥२५९।। वत्स ! खेदो न कर्तव्यो, ह्यवज्ञातोऽहमेतया। अज्ञानमथवा लज्जा, द्वयमत्रापराध्यति ॥२६०॥ सर्वदैव सलज्जेयं, दोषादोषं गुणागुणम् । नैव जानात्यतस्तुभ्यं, नानया दत्तमुत्तरम् ।।२६१।। शरदभ्रसमानानि, मनांसीह मनस्विनाम् । बहिरुष्णानि कार्येण, मध्ये शीतानि सर्वदा ।।२६२॥ कन्यकैणामुखी नाम, प्राणेभ्योऽपि मम प्रिया। सा तुभ्यं दीयते वत्स!, वाक्यं मे मा वृथा कृथा:।। अत्रान्तरे समायाता, सुतारा नाम देवंता । दृष्ट्वा भानुप्रभं पुत्रं, रुद्धकण्ठं रुरोद सा ॥२६॥ कृत्वोत्सङ्गे समाघ्राय, पुत्रं मूर्ध्नि मुहुर्मुहुः । सुतारोवाच हे वत्स !, कुशलं ते शरीरके ? ॥२६५।। सर्वत्र कुशलं मात-र्मा कार्कीर्दुःखितं मनः । सुखदुःखानि सर्वेषां, समीपस्थानि देहिनाम् ॥२६६॥ आतिथेयं समासाद्य, तारातो ह्युचितं तत: । सौजन्यवर्धितानन्दा, सुतारा मुमुदेतराम् ॥२६७॥ परस्परं समालापो, जातस्तारासुतारयोः । कृता विवाहसामग्री, मिलिता वनदेवता: ॥२६८॥ भानुप्रभकुमारेण, प्रशस्ते तिथिवासरे । एणामुखी विधानेन, परिणीता मुदा तदा ॥२६९॥ कोटिश: स्वर्णरत्नानि, वरवस्त्राणि कोटिश: । दत्तानि वनदेवीभिः, सर्वं हि महतां महत् ।।२७०॥ तत: सर्वाणि मिलितानि, गतानि जिनमन्दिरे । पूजा कृता विधानेन, विधाय जिनवन्दनम् ॥२७१॥ भानुप्रभः पुरोभूय, प्रमोदभरनिर्भरः । युगादिधर्मकर्तार, तुष्टुवे तुष्टमानसः ।।२७२।। युगादिजिन ! योगीश !, योगिगम्य ! निरञ्जन ! । रागद्वेषमहामोह-मुक्तमूर्ते ! नमोऽस्तु ते ।।२७३|| अद्यैव सफलं जन्म, यौवनं जीवितं च मे। शान्ता कान्ता शिवा सौम्या, यन्मूर्तिस्तेऽवलोकिता॥२७४।। एवं देवं नमस्कृत्य, युगादिजिननायकम् । मण्डपस्थे ततस्तस्मिन्, देव्य: प्रेक्षां प्रचक्रिरे ।।२७५।। प्रगीतं किन्नरैर्गीतं, वादितं व्यन्तरैः सुरैः । प्रनृत्तं वनदेवीभि-हस्वभावपुरस्सरम् ।।२७६॥ प्रणम्य परमात्मानं, दत्वा नीवीं द्विलक्षिकाम् । स्वस्थानं च गता: सर्वे, प्रमोदभरनिर्भरा: ॥२७७॥ माता विसर्जिता स्थाने, वनदेव्योऽपि तथैव च । स्वयं तारानिरोधेन, 'तत्रैवासाञ्चकार स:॥ १ अत्रैव तत्रैवासाश्चकार सः ॥ IP
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org