________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
क्रीडत्तारासमुद्भूतः -पय:पालीष्वनारतम् । वनेषु वनखण्डेषु, हृद्यानारामभूमिषु ॥२७९॥ तारा जिनगृहे भक्त्या, नृत्यत्येणामुखी सदा । वीणां च वादयत्येष सुग्रामस्वरमूर्छनम् ।।२८०॥ एणामुख्या समं तस्य, क्रीडतो यान्ति वासरा: । क्षणात्सौख्यं क्षणाद्दुःखं, करोति विधिरङ्गिनाम्॥२८१।। नक्तं स्वकान्तया सार्ध, सुप्त: शुश्राव सुस्वरम् । वीणावेणुमृदङ्गानां, गीतं च श्रुतिकोमलम् ।।२८२।। कान्ते! कोऽयं जनो धन्यो, जिनस्याग्रे मनोरमाम् । प्रेक्षां करोति पुण्यात्मा, सावोचत् श्रूयतां प्रिय!। सर:पालीनिकुञ्जेषु सिद्धविद्या नभश्चरा: । अष्टाह्निकां महापूजा, चक्रुरत्र कृतादरा: ॥२८॥ गम्यते दृश्यते पूजा, कीदृग्विद्याधरो जनः । कीदृशं वादितं तस्य, गीतं नृत्यं च कीदृशम् ? ॥२८५॥ तयोक्तं कान्तकायस्त्व-मेकाकी भूमिगोचर: । मानर्थः कोऽपि जायेत, तेन यानं न सङ्गतम् ॥२८६।। हितेयं सङ्गतं ब्रूते, सन्त्रस्तमृगलोचना । न जगाम स्थितोऽत्रैव, नीतिमान् कमलाशय: ॥२८७॥ इतश्च कीर्तिधर्मेण, नक्तं स्वप्नोऽवलोकित: । सिंहासनादहं भ्रष्टः, पतितो मेदिनीतले ॥२८८॥ स्वयं शङ्कितचित्तेन, गणकाय निवेदितम् । तेनापि भणितं शीघ्रं, छत्रभङ्गो भविष्यति ॥२८९।। स्वप्नो न सङ्गतो भाति, न स्यादस्यानृतं वच: । दृढधर्मोऽपि नायाति, नेदं कल्याणकारणम् ॥२९०॥ आप्तनरा समाहूता:, शिक्षयित्वा विसर्जिताः । शालाटव्यां द्रुतं यात, दृढधर्मगवेषणाम् ॥२९१।।। कृत्वा सर्वत्र भूयोऽपि, समागच्छत सत्वरम् । न जाने तस्य किं वृत्तं, साशङ्कं मम मानसम् ।।२९२।। गतास्ते तत्र सर्वत्र, कृता तस्य गवेषणा । न दृष्टो दृष्टमेकत्र, निर्मासमस्थिपञ्जरम् ।।२९३।। तारासर: समासन्ने, कान्तकान्तासमन्वित: । दृष्टश्चैको युवा कोऽपि, कामदेव इवापरः ॥२९४।। निषेदुष: पतत्यस्य, नभस: सिंहविष्टरम् । शिरोपरि धृतं याति, छत्रमस्य नरं विना ।।२९५॥ सव्येतरविभागे च, लुलतो वरचामरे । नरं विनापि तस्यैतं, जीवद्भिः किं न दृश्यते ।।२९६।। अत्रान्तरे समायाता, योषैका कान्तदर्शना । कृतानि मङ्गलान्यस्य, सर्वाण्यपि तयाञ्जसा ॥२९७|| प्रणम्य भणिता तेन, मुञ्च मामम्बसाम्प्रतम् । तयोक्तं कीर्तिधर्मस्य, राज्ये त्वमभिषिच्यसे ।।२९८।।। इत: पञ्चमदिने नूनम् , निश्चलीकुरु मानसम् । मा त्वरिष्या गरिष्ठत्व-मित्युक्त्वा सा तिरोदधे ।।२९९।। वयमप्येतदाकर्ण्य, भीतभीता द्रुतं द्रुतम् । युष्मत्समीपमायाता:, पानभोजनवर्जिताः ।।३००॥ कथितं स्वामिने सर्वं, यथादृष्टं यथाश्रुतम् । आसन्नं व्यसनं देव !, ह्युपाय: कोऽपि चिन्त्यताम्॥३०१।। कीर्तिधर्मोऽपि तत् श्रुत्वा, चतुरङ्गबलान्वित: । नगरान्निर्गत: क्रोधा-द्गत: शालाटवीं प्रति ॥३०२।। दिवा रात्रौ च वेगेन, ह्यखण्डितप्रयाणकैः । तारासर: समासन्ने, तारारामे कृतस्थिति: ॥३०३।।
आरामे च कृतावासं, कीर्तिधर्मं विलोक्य स: । चचाल समरापेक्षी, गजयूथे केशरी यथा ॥३०४।। रेरे गृह्णीत शस्त्राणि, प्रगुणीभव साम्प्रतम् । सुप्तमत्तप्रमत्तेषु, न प्रहारं करोम्यहम् ॥३०५।। एकाकिनं तकं दृष्टवा, निर्भीका: स्थिरमानसा: । शरं कृत्वा समायाता:, प्रवृत्तो दारुणो रण: ॥३०६|| १ आरामकृता BJP |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org