________________
अधिकार २ / श्लोक ५०-५९ / दीपकपूजायां भानुप्रभकथा ४
रथस्थेसु गजस्थेषु, वाजिस्थेषु पदातिषु । पतत्सु सत्सु सर्वत्र, सङ्कीर्णाऽजनि मेदिनी ॥३०७॥ गजस्कन्धात्समाकृष्टो, गृध्रेणेव भुजङ्गम: । न ज्ञायते गत: क्वापि, कीर्तिधर्मो नराधिप: ॥३०८|| दत्त्वावस्वापिनी निद्रां, शायितं सकलं बलम् । अस्तं गते रवौ रात्रौ, यथा कमलवनं तथा ॥३०९॥ तारा समागता दृष्टं, भानुप्रभविचेष्टितम् । प्रतिविद्याविधानेन, नष्टनिद्रं समुत्थितम् ।।३१०॥ कीर्तिधर्मं न पश्यन्ति, येन सार्धं समागताः । तारया कथितं सर्वं, तेभ्यस्तस्य च चेष्टितम् ॥३११॥ ततो विरक्तचित्तैस्तैः, प्रधानैः प्रतिपादितम् । भानुप्रभकुमारोऽयं, तस्य स्थाने निवेश्यताम् ।।३१२। तारया भणितं भद्रा:, कुरुध्वं स्वसमीहितम् । कृतस्य करणं नास्ति, कालक्षेपो न सङ्गत: ॥३१३।। श्रीविलासपुरे नीतो, राजामात्यपुरस्सरैः । कीर्तिधर्मपदे राज्ये, स्थापितो वरमङ्गलैः ॥३१४॥ राज्ये स्वचिन्तका मुक्ता-श्चन्द्रशेखरसूरयोः । सर्वा: कन्या: परिणीता:, समानीता निजान्तिके ॥३१५।। त्रिराज्याधिपतिर्जात, उत्खातप्रतिरोपितान् । कुर्वन्नशेषभूपालान्, गमयामास वासरान् ॥३१६।। पितृसत्का: समायाता, एकदा पुरुषा वरा: । मन्त्रिभि: प्रेषिता: सन्तो, भानुप्रभनृपान्तिके ॥३१७॥ कुशलं तस्य तातस्य, चारुकीर्तेर्महौजसः । कुशलं यशसा ताव-न प्राणै: क्षणभङ्गुरैः ॥३१८|| श्रुत्वेदं शोकसम्भार-भ्रान्तचेता महीपति: । न विवेद सुखं दुःखं, जीवितं मरणं तथा ॥३१९॥ मूर्छान्ते लब्धचैतन्यः, प्रश्नयामास सादरम् । सुखमास्ते सदाकालं, कालथ्री: श्रीरिवापरा ॥३२०॥ पुरे राज्ये धने धान्ये, भाण्डागारे च रोधने । सिंहविक्रमराजस्य, वर्तते कुशलं ननु ! ॥३२१॥ पुरुषा: प्राहु:-नानुकूला: प्रजास्तस्य, नृपा न वशवर्तिन: । प्रताप: सुसहस्तस्य, घनच्छन्नरवेरिव॥३२२॥ तस्करास्तरलायन्ते हन्यन्ते प्रान्तभूमय: । किं बहुना विचारेण, सर्वं राज्यं विसंस्थुलम् ।।३२३॥ तदधिष्ठीयतां शीघ्र-मागत्य पैतृकं पदम् । प्रजाश्चिरन्तनं पाहि, मूलनाशो न सङ्गत: ? ॥३२४|| श्रियोऽपि ता न शस्यन्ते, दृश्यन्ते या न सज्जनैः । तच्छ्रुत्वा मर्षितश्चित्ते, शरविद्ध इव केसरी ॥३२५।। जघान भूतलं मुष्टया, खड्ने दृष्टिं ददौ च स: । देवो वा दानवो वापि, खेचरो भूमिगोचरः ॥३२६॥ य: करोति पराभूति, सिंहविक्रमभूभुजः । किं तस्य विस्मृतो मृत्यु:, कुबुद्धिर्वा विजृम्भिता ॥३२७|| दूरस्थोऽपि समासन्न:, किं नाहमवलोकित: । निश्चक्राम धराधीशो, लग्ने गणकसूचिते ॥३२८॥ प्रताप: पप्रथे तस्य, मेघमुक्तरवेरिव । चचाल चतुरङ्गेण, बलेन भृतभूतलः ॥३२९॥ स्वत एव समागत्य, राजभि: परिवारित: । शालाटव्यां समागत्य, तारया कृतगौरव: ॥३३०।। तारासर: समासन्ने, आवासं कृतवान् स च । चतुर्वर्णसमाकीर्णं, नानावेश्मसमाकुलम् ॥३३१।। विशालशालसंच्छन्नं, खातिकापरिवेष्टितम् । विचित्रचित्रसम्पन्न-चतुर्गोपुरराजितम् ॥३३२॥ पुरं तारापुरं नाम, स्वल्पकालेन कारितम् । दत्तं युगादिदेवस्य, सारामं पुण्यहेतवे ॥३३३।। भानुप्रभनरेन्द्रेण, ताम्रशासनलेखितम् । [समर्पितं च सङ्घाय, जिनपूजाकृते पुरम् ॥३३४|| अन्यदा भणिता तारा, मातर्गच्छामि साम्प्रतम् । करसम्पुटमादाय, तयापीदं प्रजल्पितम् ॥३३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org