________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
सम्यगेणामुखी राजन्, द्रष्टव्या स्निग्धया दृशा । त्वमस्या: सर्वकार्येषु, हर्ता कर्ता च सम्पदम् ।।३३६।। चचाल स्वप्रतापेन, समाक्रान्तमहीतल: । पश्चिमां दिशमाश्रित्य, प्रभाते सविता यथा ॥३३७।। आगच्छन्तं समाकर्ण्य, भानुप्रभनराधिपम् । सिंहविक्रमराजेन, मत्सरेण पलायितम् ॥३३८॥ बहिरावासितो राजा, समये च प्रवेशितः । कृतर्द्धिशोभं नगरं, मञ्चमालाविराजितम् ॥३३९।। सोत्कण्ठाश्च प्रजा: सर्वा, दर्शनार्थं समागता: । अहो ! रूपमहो रूप-महो कान्तिर्मनोहरा ॥३४०॥ सकलानि कलत्राणि, अहो! तुल्य: समागमः । अनुकूलो विधिः पुंसां, किं किं यन्न करोत्यहो! ॥३४१।। इत्येवं सर्वलोकेन, श्लाघ्यमान: पदे पदे। विवेश मन्दिरं पैत्र्यं, राजमानो नृपश्रिया ॥३४२।। पूजयित्वा यथायोग्यं, लोक: सर्वो विसर्जित: । स्थित: सिंहासने राजा, प्रधानपरिवारितः ॥३४३।। यदर्थं वयमायाता, यश्च मे हृदि वर्तते । शूरो विक्रमभूपाल:, स किं भो नात्र दृश्यते ? ॥३४४|| मन्त्रिणोक्तं च किं तेन, मत्सरच्छन्नबुद्धिना। नाऽधन्यश्च जनो येन, देवदर्शनमर्हति ।।३४५।। महेन्द्रमातुलेनापि, राज्यश्रीरिव दुर्लभा । राज्यश्रीकन्यका दत्ता, विस्तरेण विवाहिता ॥३४६।। गुणानुरक्तनि:शेष-लोकमुद्धृतकण्टकम् । प्रणताशेषसामन्तं, विनमन्मन्त्रिमण्डलम् ॥३४७॥ पालयतोऽप्रयासेन, रम्यं राज्यचतुष्टयम् । कामभोगान् यथाकामं, भुञ्जानस्याऽनुवासरम् ॥३४८॥ संसारसुखसन्दोह मनमूर्तेर्महात्मन: । सञ्जातयोग्यपुत्रस्य, गत: काल: कियानपि ॥३४९॥ अन्यदा भुवनालोक-केवल्यत्र समागतः । वन्दना गतो राजा, प्रभूतैर्नागरैः सह ।।३५०।। केवली कथयामास, धर्मं दुर्गतिनाशनम् । हितञ्च सर्वजीवानां, सर्वजन्तुसुखावहम् ।।३५१॥ अथ प्रस्तावमासाद्य, भानुप्रभनृपोऽवदत् । पूर्वजन्मनि लोकेश!, किं मया सुकृतं कृतम् ॥३५२।। येनेदृक्षा महाभोगा, रम्यं राज्यचतुष्टयम् । कान्ता: कान्ता: सुपुत्राश्च, श्रिय: सर्वमनोहरा: ॥३५३॥ केवल्युवाच भो राजन् !, सङ्घपात् शृणु कारणम् । शुभाशुभपदार्थानां, पुण्यपापे निबन्धनम् ॥३५४।। समस्तीह कलिङ्गेषु, सुखावासं महापुरम् । धाराख्या निर्धना नारी, तत्रोवास निरन्वया। नानाकोलसमाकीर्ण-कुटीरकनिवासिनी । कुग्रासाच्छादना नित्यं, कुकर्मशतकारिणी ॥३५६॥ तैलकर्षं समादाय, सापणाद्वलितां सती। विवेश मन्दिरं जैनं, राज्यहस्तिभयाकुला ॥३५७॥ अहो महति संसारे, जीवद्भिः किं न दृश्यते । यद् दृष्टोऽदृष्टपूर्वोऽयं, देवदेवो जिनेश्वरः ॥३५८॥ शान्त: सौम्य: सदाकार:, प्रदीपोद्योतितानन: । गतरागो गतद्वेषो, गतमोहो 'निरञ्जनः ॥३५९।। अस्यैव पुरतो भाति, प्रदीप इति मे मतिः । इत्यालोच्य तया दत्त: प्रदीप: स्नेहपूरित: ॥३६०॥ अस्यैव पुरतो भाति, प्रदीप इति मे मति: । इत्यालोच्य तया दत्त: प्रदीप: स्नेहपूरित: ।।३६०॥ अन्वमोदि चिरं कालं, रोमाञ्चाञ्चितगात्रया । बद्धं परभवायुष्कं, भोगसारं तदा तया ॥३६१।। मृत्वा कालेन सञ्जातो, भानुश्रीपरमोदरे । भानुप्रभ इति ख्यात:, स च त्वं मेदिनीपते ॥३६२।। १निरंगत:- BJP॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org