________________
अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५
श्रुत्वेदं भुवनालोक-भाषितं मेदिनीपतिः । सद्य: सञ्जातवैराग्यो, निजजातिस्मरोऽभवत् ॥३६३॥ ततश्च भणितस्तेन, भुवनालोक केवली । यद्यस्ति योग्यता स्वामि-स्तदा दीक्षा प्रदीयताम् ॥३६३।। केवल्युवाच भूपेश!, महदेतत्प्रयोजनम् । सङ्गतं सर्वजीवानां, विशेषेण भवादृशाम् ॥३६४॥ व्रतमेतन्महापुण्यै-स्तीर्थनाथै: स्वयं कृतम् । चक्रवर्तिभिराचीर्णं, बलदेवैर्निषेवितम् ॥३६५।। परं सम्यक्समालोच्य, ह्यङ्गीकारोऽस्य सङ्गतः । सुकुमारशरीरस्त्वं, कष्टमत्र पदे पदे ॥३६६।।
तथाहि
यदिदं प्रव्रजनं नाम साक्षाद्बाहुभ्यां तरणमेतत्स्वयम्भूरमणस्य, प्रतिश्रोतोगमनमेतद्गङ्गाया:, चर्वणमेतल्लोहमययवानां, भरणमेतत्सूक्ष्मपवनेन कम्बलमुत्कोल्या:, भेदनमेतच्छिरसा सुरगिरेः, मानग्रहणमेततत्कुशाग्रेण नीरधे:, नयनमेतदबिन्दुपातं धावतो योजनशतं तैलपूर्णपात्र्या:, ताडनमेतत्सव्यापसव्यभ्रमणशीलाष्टचक्रवर्तिविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं निशातकरवालधारायामिति, यतोऽत्र परिषोढव्या: परीषहाः, निराकर्तव्या दैत्याधुपसर्गाः, विधातव्या समस्तपापयोगनिर्वृत्तिः, वोढव्यो यावत्कथं सुरगिरिगुरुरष्टादशशीलाङ्गसहस्रभारः, वर्तितव्य: सकलकालमात्मा माधुकर्या वर्तनया, निष्टप्तव्यो विकृष्टतपोभिर्देह: सात्मीभावतां नेतव्य: सप्तदशभेदभिन्न: संयम:, समुन्मूलयितव्या रागादय:, निरोद्धव्यो हार्दतम:प्रसर:, किं बहुना ? निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल इति, मृदुशयनाहारलालितं पालितं तावकं शरीरकम्, अपर्यालोचितकारिता हि महतेऽनयेति, राजाह-भगवन्नंगीकृतं सर्वं, कष्टजातं मयाधुना। विधायानुग्रहं देहि, शीघ्रं भागवतं व्रतम् ॥३६७॥ वन्दित्वा भुवनालोकं, तत: स्वगृहमागत: । प्रोक्त: सर्वोऽपि वृत्तान्त:, प्रधानानां महीभुजां ॥३६८॥ राजश्रीसम्भवं पुत्रं, विजयं विश्वविश्रुतम् । स्वराज्ये स्थापयामास, भानुप्रभनरेश्वरः ।।३६९।। सूरश्रीसम्भवं सूरं, केरलाकुक्षिसम्भवम् । सूरसेनाभिधं पुत्रं, कलाकौशलशालिनम् ।।३७०॥ एणाचन्द्राभिधं पुत्र-मेणामुख्या: समुद्भवम् । त्रयो मातामहे राज्ये, ह्यभिषिच्य विसर्जिताः ॥३७१॥ अन्यदपि यथायोग्य, धर्मकर्म विधाय स: । निष्क्रान्तो भुवनालोक-केवलिन: पदान्तिके ॥३७२॥ आगमाधिगमाज्जातो, गीतार्थो गतमत्सरः । विजहार महीपीठे, भानुप्रभमहामुनिः ॥३७३।। प्रशमामृततृप्तात्मा, क्षमालङ्कृतविग्रह: । निर्ममो निरहङ्कारो, गतरागो जितेन्द्रियः ॥३७४॥ सर्वजीवाभयं दत्त्वा, तपस्तप्त्वा सुदुस्तरम् । परिपाल्यामलं शीलं, विभाव्य वरभावनाः ॥३७५॥ विशुद्धसंयमस्थानो, हत्वा घातिचतुष्टयम् । उत्पाद्य केवलज्ञानं, जगाम परमं पदम् ॥३७६।। सर्वज्ञपुरतो दत्तो, दीपो भावपुरस्सरम् । लोकद्वयेऽपि संसूते, सत्कल्याणपरम्पराम् ।।३७७||
पपूजाफलं समाप्तम ॥ For invate & Personal Use Only
Jain Education International
www.jainelibrary.org