________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
अक्षतपूजायां कणसारकथा
दीपपूजाफलं प्रोक्तं, लोकद्वयसुखावहम् । सम्प्रत्यक्षतपूजाया:, श्रूयतां कथ्यते फलम् ॥१॥
पञ्चालविषयस्यान्तः, पुरं काम्पिल्यसज्ञितम् ।
तत्रासीनिषधो नाम, राजा सर्वजनप्रिय: ॥२॥ तारप्रभाभिध: श्रेष्ठी, पुरकार्यविचिन्तकः । समग्रनैगमग्राम-ग्रामणी राजसम्मत: ॥३॥ तारप्रभा प्रिया तस्य, शशाङ्कस्येव रोहिणी । स्त्रीजनोचितनि:शेष-कलाकौशलशालिनी ॥४॥ ताप्रभस्तया साधू, भुङ्क्ते विषयजं सुखम् । चिन्तानन्तरनि:शेष-पूर्यमाणमनोरथः ॥५॥ अन्यदा पश्चिमे यामे, यामिन्यास्तल्पशायिनी । स्वप्ने शुभमिदं स्वप्नं, तारप्रभा समैक्षत ॥६॥ यथा मे सर्वतो गेह-माकीर्णं कणराशिभि: । कोष्ठागाराणि सर्वाणि, कणैः पूर्णानि भान्त्यलम्॥७।। प्रबुद्धा च समुत्थाय, गत्वा भर्तृसमीपके । यथा दृष्टं तथा सर्वं, तुष्टा तस्मै न्यवेदयत् ॥८॥ तेनाभाणि प्रिये श्रेष्ठ !, पुत्रस्तव भविष्यति । सर्वलक्षणसम्पूर्णो, वृद्धिकृत्सर्वसम्पदाम् ॥९॥ सत्यं भवतु ते वाक्य-मित्युक्त्वा हृष्टमानसा । जगाम निजकस्थाने, दधौ गर्भं यथासुखम् ॥१०॥ गतेषु त्रिषु मासेषु, तस्याजनि च दोहदः । यथा तण्डुलदानेन, लोकं सुस्थीकरोम्यहम् ॥११॥ पृष्टया च तयाचष्टे, श्रेष्ठिन: स विशेषतः । तेनापि पूरितस्तूर्णं, तुष्टा तारप्रभाजनि ॥१२॥ गर्भाधानत आरभ्य, श्रेष्ठिन: सम्पदा सह । सर्वतोऽपि प्रवर्धन्ते, कणा गर्भानुभावत: ॥१३॥ चिन्तानन्तरनि:शेष-पूर्यमाणसुदोहदा। सुखं सुखेन सा गर्भ-मुवाह मुदितानना ॥१४॥ मासानां नवकेऽतीते, साधु सप्तदशाधिके । सासूत सुन्दरं पुत्रं, सर्वलक्षणसंयुतम् ॥१५॥ कारितं च तत: पित्रा, महर्द्धया बन्धुभिः सह । सर्वलोककृतानन्दं, वर्धापनकमुच्चकैः ।।१६।। समये च कृतं तस्य, नाम स्वप्नानुसारतः । कणसार इति ख्यातं, महामहपुरस्सरम् ॥१७॥ अथासौ वर्धते बालो, धात्रीपञ्चकलालितः । सार्धं कलाकलापेन, पुष्णानो वपुषः श्रियम् ॥१८॥ कालेन यौवनं प्राप्त:, कामिनीजनमोदकम् । श्रेष्ठिपुत्रीं सुताराख्यां, परिणिन्ये च कन्यकाम् ॥१९॥ भुञ्जानस्य यथाकामं, कांमभोगांस्तया सह। गच्छन्ति प्रीतचित्तस्य, कणसारस्य वासरा: ॥२०॥ अथान्यदा समं मित्रै- नाक्रीडापरायणः । कणसारो ललन् वीथ्यां, ददृशे राजकन्यका ॥२१॥ कामवेश्मनि गच्छन्त्या, सुदर्शनाख्यया तदा । आलोकितश्च सस्नेहं, सादरं स्निग्धचक्षुषा ॥२२॥ विद्धा च कामदेवेन, तत: सा निशितैः शरैः । सन्ततं तं प्रपश्यन्ती, चिन्तयन्ती च तद्गुणान् ॥२३॥ कायेनैव न चित्तेन, गता सा काममन्दिरम् । सम्पूज्य कामदेवस्य, प्रतिमामप्रतिमाकृतिम् ।।२४।। कणसारस्य रूपेण, मोहिता वलिता क्षणात् । कामग्रहगृहीतासा-वगच्छद्राजमन्दिरे ॥२५॥ सुप्ता सुन्दरपर्यङ्के, न च प्राप सुखासिकम् । ददृशे च तथावस्थां, धात्र्या पृष्टा च सा यथा।।२६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org