________________
अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५
बाधते किमु ते वत्से!, सदुःखा येन दृश्यसे । वारंवारं तयाप्येवं, सादरं पृच्छयमानया ॥२७॥ प्रोक्त: सर्वोऽपि वृत्तान्त:, कणसारेक्षणादिकः । तदम्ब! त्वं कुरु यत्नं, यथा मे स्यादभीप्सितम्।२८॥ धात्र्या च तत्क्षणादेव, तस्या मातुर्निवेदितम् । तयापि नरनाथस्य, तेनोचे नातिचार्विदम् ।।२९॥ यद्राजपुत्रिकायास्तु, सम्बन्धो वणिजा सह । तथाप्येवं करिष्यामि, मत्सुता लभतां धृतिम् ॥३०॥ ततस्तारप्रभश्रेष्ठी, समाहूतो महीभुजा। वृत्तान्तं सर्वमाख्याय, सादरं भणितो यथा ॥३१।। दत्तेयं कणसारस्य, मया पुत्री सुदर्शना । निर्विचारमिदं कार्य, कालक्षेपं विना-कुरु ॥३२॥ देव एव विजानाति, किमत्र ब्रूमहे वयम् । इत्युक्त्वा भूपतेर्वाक्यं, श्रेष्ठिना प्रतिपद्यते ॥३३॥ शोभने तिथिनक्षत्रे, महद्धर्या विहितोत्सवम् । वृत्तं तयोः प्रमोदेन, पाणिग्रहणमङ्गलम् ॥३४॥ दत्ताश्च भूभुजा तस्मै, वाजिन: स्यन्दना गजा: । कोशश्च द्रव्यसम्पूर्णः, प्रासादाश्च मनोहरा: ॥ ३५॥ अथासौ कणसारोऽपि, विलसन् राजलीलया। सुदर्शनासुताराख्या-संयुक्तो युक्तकारकः ॥३६॥ राज्ञा च राजलोकैश्च, दृश्यमान: सगौरवम् । कुर्वन् बन्धुजनानन्दं, कालं नयति नीतिमान् ॥३७॥ अन्यदा च निजे राज्ये, भूपतिस्तप्तिकारकम् । कणसारं व्यवस्थाप्य, ययौ विजययात्रया ॥३८॥ कणसारोऽपि तद्राज्यं, सम्पालयति नीतित: । दुष्टामां निग्रहं कुर्वन्, शिष्टानां पालनं तथा ॥ ३९॥ एवं च राजलोकानां, सम्मतो रञ्जितप्रजः । सर्वाण्यपि निरुत्सेको, राज्यकार्याणि चिन्तयन् ॥४०॥ राज्ञो [ऽस्य] वल्लभादेव्या, चन्द्रकान्ताभिधानया। गवाक्षगतया दृष्टो, नेत्रानन्दविधायकः ।।४।। तत: सा चिन्तयामास, तद्गुणाक्षिप्तमानसा । अहो रूपमहो रूप-महो कान्तिरहो गति: ।।४२।। अहो देहस्य लावण्य-महो मधुरता गिराम् । वार्तायां श्रूयते कामो, मन्ये कामोऽयमेव हि ॥४३।। तदत्र यद्ययं कामी, गत्वा कामं न काम्यते । तदेदं यौवनं रूपं, नरजन्म च निष्फलम् ॥४४॥ विचिन्त्यैवं तया दासी, प्रेषिता तस्य सन्निधौ । पृष्टा तेन यथा भद्रे!, निवेदय प्रयोजनम् ॥४५॥ तयोक्तं चन्द्रकान्ताया, देव्या: शरीरकारणम् । तदेहि सत्वरं देवी, प्रतिजागर्यतामिति ॥४६॥ श्रुत्वेदं कणसारोऽपि, चन्द्रकान्तान्तिकं गतः । प्रणम्य भणितं तेन, किमम्ब ! बाधते तव? ॥४७।। तयापि प्रकटं चैव, हावभावपुरस्सरम् । उक्त: समन्थरैर्नेत्रैः, सर्वाङ्गं वीक्ष्य लीलयां ॥४८॥ यथेदं मामकं देहं, सन्तप्तं कामवह्निना । स्वाङ्गसङ्गजलप्लावै-स्त्वं निर्वापय साम्प्रतम् ॥४९॥ मदीयां प्रार्थनामेना, सर्वथा मा कृथा वृथा। म्रियेऽहमन्यथा नाथ!, त्वद्विरहाग्निपीडिता ॥५०॥ श्रुत्वेदं कणसारोऽपि, ब्रूते खेदवशं गतः । मा मा भाणि च यन्निन्द्यं, मातरेवंविधं वचः ॥५१॥ यन्मनसापि नो चिन्त्यं, लोकद्वयविरोधकम् । तत्कथं त्वयका पापं, वचसा प्रकटीकृतम् ॥५२॥ प्राणत्यागेऽपि नो कर्म, करिष्याम्यहमीदृशम् । तदम्ब! मुञ्च गच्छामि, किं वृथा बहुजल्पितैः ॥५३॥ एवमुक्त्वा गतस्तूर्णं, कणसारो निजाश्रयम् । सापि तं प्रति सावेशा, जाता मत्सरिणी दृढम् ॥५४॥ अथ कालेन दिग्यात्रां, कृत्वायातो नराधिप: । प्रविष्टश्च पुरे तुष्टः, क्रमाच्च निजमन्दिरे ॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org