________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततो राज्ञे प्रणामार्थं, पौरलोकः समागतः । तेनापि च यथायोगं, स सन्मान्य विसर्जितः ॥५६॥ पृष्टाश्च निजका लोका, अमात्याद्या नियोगिका: । यथा भो अत्र सर्वत्र, युष्माकं क्षेम वर्तते ॥५७॥ कणसारकुमारो वा, युष्मानाश्रित्य कीदृश: । प्रजासु वापि कीदृक्ष: ?, श्रुत्वेदं तैः प्रजल्पितम् ॥५८॥ देव देवप्रसादेन, क्षेमं सर्वत्र वर्तते । कणसारस्तु निःशेष-गुणरत्नमहोदधिः ॥५९।। येन चिन्तयता राज्यं, दुष्टलोकं निगृह्णता । रक्षता शिष्टलोकं च, गुणग्राही जनः कृतः ॥६०॥ एवं पृष्टा च दृष्टा च, कृत्वापि च यथोचितम् । विसय॑ च निजं लोकं, राजेन्द्रोऽन्त:पुरं ययौ ॥६१।। यावच्च पश्यति तत्र, चन्द्रकान्तावलोकिता। विमनस्का विदीर्णाङ्गी, भूमौ विन्यस्तदृष्टिका॥६२।। महामन्युभराक्रान्ता, सखेदा दुःखनिर्भरा। ध्यायन्ती किञ्चिदव्यक्तं, भ्रष्टमन्त्रेव योगिनी ॥६३॥ तत: सा प्रनिता राज्ञा, किमर्थं दुःखिता प्रिये! । तवाज्ञा खण्डिता केन ?, सखेदा केन दृश्यसे ?।।६४|| सा प्राह किमहं राजन्, कथयामि तवाग्रत: । कथितं यत्तु नो कोऽपि, श्रद्धातुमपि शक्ष्यति ॥६५॥ राजाह किं तवानेन, यदि कथ्यं भणस्व मे । तथा तथा करिष्यामि, यथा ते जायते धृतिः ॥६६॥ सा प्राह देव योऽयं ते, जामाता राज्यचिन्तकः । तेनाहं प्रार्थिता बाढं, विषयासेवनं प्रति ॥१७॥ विदारिता च पापेन, दारुणं नखकोटिभिः । कष्टेन रक्षितं शीलं, ब्रवीमि किमतः परम् ।।६८॥ श्रुत्वेदं तत्क्षणादेव, निष्क्रान्तोऽन्त:पुरान्नृपः । कणसारं समाहूय, राज्ञा निर्भर्त्तितो यथा ॥६९॥ रे! रे! दुष्ट दुराचार !, महापापाधमाधम । किमन्या निष्ठिता मूढ!, रूपवत्य: कुलस्त्रियः ॥७०॥ मद्दारानपि येन त्वं, नैवं त्यजसि मूढधी: । तद्गर्छ गच्छ मे दृष्टि-मार्गादपि पुरादपि ॥७१॥ देशोऽपि मामकस्त्याज्य:, को द्रक्ष्यति मुखं तव । नामापि श्रूयते नैव, यत्र तत्र व्रजाधुना ।।७२।। प्रसाद इति सञ्जल्प्य, कणसारोऽपि सत्वरम् । प्रणम्य भूभुज: पादा-वपमानभरेरित: ॥७३॥ समुत्थाय तत: स्थाना-देकाक्येव विषादवान् । अनाख्यायैव बन्धूना-मुत्तराभिमुखं ययौ ।।७४|| पूर्व मित्रसमो भूत्वा, पश्चाच्छत्रुसमोऽजनि । नरेन्द्रः कणसारस्य, राज्ञां मैत्री स्थिरा न हि ॥७५।। यत:- काके शौचं दयूतकारे च सत्यं, सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीवे धैर्यं मदयपे तत्त्वचिन्ता, राज्ञां मैत्री केन दृष्टा श्रुता वा ? ॥७६॥ नानानगनदीकीर्णं, नानाग्रामपुराकुलम् । परिभ्राम्यन्महीपीठं, स सम्प्रापोत्तरापथम्॥७७॥ तत्रास्ति शालिपुराख्यो, ग्रामो भूरिजनालय: । बहिस्तस्य वटस्याध:, श्रान्तत्कन्निषसाद स:। दृष्टश्च तत्र वास्तव्य-धान्यसारकुटुम्बिना । पृष्टश्च सादरं गत्वा, यथा कस्मादिहागत: ? ॥७९॥ गन्तव्यं भवता कुत्र ?, किं वा नाम कुलं च ते ? । तेनाभाणि महाभाग!, बृहतीयं कथा मम॥८०॥ कथं वा कथ्यते भद्र!, स्वयमेव जनाग्रत: । स्थानभ्रष्टेन सत्पुंसा, कुलशीलादिकं निजम् ।।८१।। किंच- लहुइंति लहुं पुरिसं, मेरुसमाणं पि दो अकज्जाई ।
अप्पपसंसा परनिंदणा य पयर्ड पकिज्जंता ।।८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org