________________
अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५
श्रुत्वेदं धान्यसारोऽपि, मनस्येवं व्यचिन्तयत् । अहो वरकुलोत्पन्न:, कोऽप्ययं सुपुमानिति ॥८३॥ तेनायं पृच्छयमानोऽपि, नाख्याति निजकां कथाम् । आकृत्यैवास्य मन्येऽयं, भूतपूर्वमहोदयः ॥८४|| यत:- यत्राकृतिर्गुणास्तत्र, गुणिन: सम्पदो ध्रुवम् । श्रीमत्याज्ञां परां प्राहु-स्ततो राज्यं महोदयः॥८५।। लक्षणानि च दृश्यन्ते, यादृशान्यस्य विग्रहे । तैरस्य निश्चितं भावि, भूरिवैभवमुत्तमम् ॥८६।। विचिन्त्यैवं करे-कृत्वा, नीतस्तेन निजे गृहे। कृत्वा स्नानादिकं सर्वं, भोजितश्च सगौरवम् ।।८७॥ दत्ता शालिप्रभा कन्या, शुभेऽह्नि परिणायित: । समर्पितं गृहं चैकं, चारु कुप्येन संयुतम्॥८८॥ दत्तं तस्मै तथा चैकं, शालिक्षेत्रं मनोहरम् । रोपिता: शालयस्तत्र, जाता भूरिफलप्रदाः ॥८९|| लघुक्षेत्रेऽपि भूयांसो, जायन्ते तस्य शालय: । पुण्यानि फलदानीह, व्यवसायो न देहिनाम् ॥१०॥ एवं च सर्वधान्यानि, जायन्ते तस्य कर्षणे । सर्वलोकातिशायीनि, प्रतिवर्षं यथोत्तरम् ॥११॥ नानाधान्यभृता: 'पल्या:, प्रभूतास्तेन कारिता: । धान्यविक्रयतो जातं, द्रविणं चातिपुष्कलम् ॥९२।। तथा गावो महिष्यश्च, बलीवस्तुरङ्गमा: । उष्ट्रा गन्त्रीविशेषाश्च, प्रभूतास्तस्य जज्ञिरे ॥१३॥ द्रव्यं कलान्तरेणैष, धान्यं वृद्धया ददात्यलम् । यथेच्छं सर्वलोकेभ्यो, ग्रामे ग्रामे पुरे पुरे ॥९४|| स्तोकेनापि च कालेन, विस्तृतो भूरिसम्पदा । औदार्यादिगुणग्रामैः, परां ख्यातिमवाप च ॥१५॥ देशे च तत्र सर्वत्र, ग्रामे ग्रामे पुरे पुरे । तेनानेके महापल्या, धान्यपूर्णा निवेशिता: ॥९६।। एवं च तत्र सर्वत्र, देशे ग्रामपुरादिषु । राजभिः सर्वलोकैश्च, मन्यमानस्य सादरम् ॥९७|| शालिप्रभासमेतस्य, भुञ्जानस्यार्थसम्पदः । श्रीमत: कणसारस्य, गत: काल: कियानपि ॥९८॥ अथान्यदा च पाञ्चाल-देशेऽजनि सुदारुणम् । दुर्भिक्षं बहुकालीनं, जातोऽत्यन्तकणक्षय: ॥१९॥ मूल्येनापि यदा धान्यं, लोकैस्तत्र न लभ्यते। ततोऽसौ निषधो राजा, सचिन्तोऽजनि मानसे॥१००।। अहो भूरिधनोपेतः, कोषोऽयं मेऽस्ति पुष्कल: । परं धान्यं ममापीह, कोष्ठागारेषु निष्ठितम् ॥१०१।। तत: सर्वेसमाहूता, पुरलोका मन्त्रिणस्तथा। उक्ताश्च ते यथा भो! भो!, साम्प्रतं किमु कुर्महे॥१०२।। मूल्यमस्ति न धान्यानि । क्षुधया म्रियते जनः । तदत्र चिन्त्यतां कश्चि-दुपायो येन जीव्यते ॥१०३॥ अत्रान्तरे गुणश्रेष्ठः, श्रेष्ठी तारप्रभोऽवदत् । अहो राजन्नहं किञ्चि-दाख्यामि यन्मया श्रुतम् ॥१०४।। श्रूयते कणसाराख्य, उत्तरापथमण्डले । ग्रामे च धान्यपूराख्ये, प्रभूतकणसङ्ग्रही ॥१०५॥ यद्यसौ मामक: पुत्र-स्तत्कणा अपि मामका: । अथान्य: कोऽपि तन्नामा, तदा तल्लाभसंशयः॥१०६।। राजाह यदि ते पुत्रो, नाऽसावत्र समेष्यति । यतो निष्कासितो देशा-निर्भर्त्य स मया पुरा ॥१०७॥ श्रेष्ठ्याह सत्यमेवेदं, यद्देवेन प्रभाषितम् । तथापि प्रेष्यते कश्चि-ल्लेखहस्तो निजो भटः ॥१०८॥ श्राव्यते च स वृत्तान्त:, सर्वकणक्षयादिकः । आकर्ण्य श्रेष्ठिनो वाक्यं, भूभुजापि तथा कृतम् ॥१०९॥ गतश्च स पुमांस्तत्र, लेखस्तस्मै समर्पितः । उच्छोट्य वाचितो लेख-स्तदर्थश्चावधारित: ॥११०॥ १ पाल्या: BJमु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org