________________
९८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
लिखित्वा कणसारोऽपि, प्रतिलेखं सविस्तरम् । समर्प्य प्रेषयामास, तं भटं त्वरितैः पदैः ॥१११॥ तेनापि शीध्रमागत्य, राज्ञो लेख: समर्पितः । ततो वाचयितुमारब्धो, लेखं स्वयमेय भूपतिः ॥११२॥ यथा देशान्तरस्थोऽपि, तातायं तावको जन: । कणा अपि मदीया ये, ते सर्वेऽपि च तावकाः॥११३।। गृह्यन्ताम् च यथाकाम, निस्तार्यतां जनोऽखिलः । ततस्तारप्रभादीनां । सम्मतेन महीभुजा ॥११४॥ बहव: प्रेषिता उष्ट्रा, धान्यानयनहेतवे । ते पत्तनं गतास्तत्र, कणसारस्य सन्निधौ ॥११५।। भृत्वा तेनापि धान्येन, प्रेषिता: शीघ्रमेव हि । तथान्ये उष्ट्रसङ्घाता, बहुधान्यभृता निजा: ॥११६॥ भूयोभूयोऽपि भूयांस:, प्रेषितास्तेन भूभुजे। पाञ्चालेषु तत: सौस्थ्यं, कणसारकणैरभूत् ॥११७॥ जीविताशा च सञ्जाता, लोकानां तदनन्तरम् । ततस्तुष्टेन भूपेन, पौरलोकै: समन्विता: ॥११८॥ प्रेषिता मन्त्रिसामन्ता-स्तस्यानयनहेतवे। प्राप्तास्ते कणसारोऽपि, तान् सन्मान्य यथोचितम् ॥११९।। स्वकीयं सर्वमादाय, काम्पिल्यपुरमागत: । भूभुजापि महर्द्धचासौ, पुरमध्ये प्रवेशित: ॥१२०॥ दत्ता पूर्वस्थिति: सर्वा, साधिका क्षामितस्तथा । श्रेष्ठितारप्रभाद्यांश्च, बन्धून पुरजनांस्तथा ॥१२१।। प्रणनाम यथायोगं, सन्मानं च चकार स: । मिलिता च सुताराख्या, सुदर्शना च सत्प्रिया ॥१२२।। तत: शालिप्रभा चक्रे, प्रणामं सादरं तयोः । ततो भात्रियोपेतो, भुजानो भोगसम्पदम् ॥१२३॥ वल्लभो भूभुजोऽत्यर्थं, लोकानां च विशेषत: । शशीव बन्धुलोकानां, कुर्वाणो नयनोत्सवम् ॥१२४|| महासौख्यार्णवे मग्नो, गमयति स्म वासरान् । भुक्त्वा भोगाश्चिरं तेन, जाता: पुत्रा मनोहरा: ॥१२५।। ततश्च भुक्तभोगत्वा-द्धर्मे चित्तं ददात्यसौ । अन्यदा मेघनादाख्या, मेघनादसमप्रभाः ॥१२६॥ संसारसागरोत्तार-सेतवो भव्यदेहिनाम् । चतुर्ज्ञानसुविज्ञात-समस्तभवविस्तरा: ॥१२७॥ भवकान्तारनिस्तार-सार्थवाहसमा नृणाम् । लतागुल्ममहोद्याने, स्थाने मुनिजनोचिते ॥१२८॥ समागत्य स्थितास्तत्र, सूरयो धर्मदेशका: । वन्दनार्थं गतो राजा, लोकाश्च बहवस्तथा ॥१२९॥ प्रारब्धा देशना रम्या, [भव्यबोधप्रदायिनी । मेघनादध्वनिनोच्चै]-मेघनादमुनीश्वरैः ॥१३०॥ भो भो भव्या: ! शृणुत विशदं, मामकं वाक्यमेतत्, कर्णं दत्त्वा, विगतविकथं, द्वेषरागव्यपेतम्,। संसाराब्धेस्तरणतरिकाकल्पमाप्तोपदिष्टम्, यत्कल्याणं, त्विह परभवे तिष्ठतां गच्छतां च ॥१३१॥ नास्तिकैर्नैव भाव्यं च, भवद्भिर्भवभीरुभिः । नास्तिक्यं परमो दोष, आस्तिक्यं परमो गुण: ॥१३२॥
तथाहि-अनेकभवपरम्पराकोटाकोटीभिः कथंचिन्मानुष्यं जन्म लब्ध्वापि नास्तिक्यदोषदूषितो नास्तिको युक्त्यागमबाधितमेवं वक्ति, नास्ति परलोकः, न विद्यते कुशलाकुशलकर्मण: फलं, न सम्भवति खल्वयमात्मा, नोपपद्यते सर्वज्ञः, न घटते तदुपदिष्टो मोक्षमार्गः, ततोऽसावतत्त्वाभिनिविष्टचित्तो हिनस्ति प्राणिनः, भाषतेऽलीकं, समादत्ते परधनं, रमते परदारेषु, गृह्णात्यपरिमितपरिग्रहं, भुङ्क्ते रजन्यां, खादति मांसं, पिबति सुरां, नगृह्णाति सदुपदेशं, प्रकाशयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org