________________
अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५
कुमार्ग, निन्दति वन्दनीयान, वदति परापवादं, आचरति समस्तपातकानि ततो बद्धवा निबिडं कर्मजालं पतत्येष जीवो नरकेषु, तत्र च पतित: पच्यते कुम्भीपाकेन, छिद्यते क्रकचपाटनेन, आरोह्यते वज्रकण्टकाकुलासु शाल्मलीषु, पाय्यते सन्दंशकैर्मुखं विधृत्य कलकलायमानं तप्तं त्रपु, भक्ष्यते निजमांसानि, भुज्यतेऽत्यन्ततप्तभ्राष्ट्रेषु, तार्यते पूयवसारुधिरक्लेदमूत्रान्त्रकलुषां वैतरिणी नदी, छिद्यतेऽसिपत्रवनेषु स्वपापभप्रेरितैः परमाधार्मिकासुरैः, तथा समस्ताशुभपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा, नि:शेषजलधिपानेऽपि नापगच्छति पिपासा, अभिभूयते शीतवेदनया, कदर्थ्यते तापातिरेकेण, ततश्चायं जीवो गाढतापानुगतो हा तात! हा मात:! हा भ्रात: ! इत्यादि विरसमाक्रन्दति, न चास्य तत्र गात्रत्रायक; कश्चिद्विद्यते, कथंचिदुर्तीणोऽपि नरकाद्बाध्यते तिर्यक्षु वर्तमान:, कथं ? वाह्यते भारं, कुट्यते लकुटादिभि:, छिद्यन्ते कर्णपुच्छादयः, खाद्यते कृमिजालकै:, सहते बुभुक्षां, म्रियते पिपासया, तुद्यते नानाकारयातनाभिरिति तत: । कथञ्चिदवाप्तमनुष्यभावोऽप्येष जीव: पीड्यत एव दुःखै:, कथं ? तदुच्यते-क्लेशयन्त्येनं रोगवाता:, जर्जरयति जरा, दोदूयन्ते इष्टवियोगानिष्टसंप्रयोगा:, विसंस्थुलयन्ति धनहरणानि, आकुलयन्ति स्वजनमरणानि, विधुरयन्ति व्यसनानि, तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो ग्रस्यत एव नानाविधदुःखवेदनाभि:, तथाहि-आज्ञाप्यते विवश: शक्रादिभिः, खिद्यते परॊत्कर्षदर्शनेन, जीर्यते प्राग्भवकृतप्रमादफलदर्शनेन, दन्दह्यतेऽस्वाधीनामरसुन्दरीप्रार्थनेन, शल्यते तनिदानचिन्तनेन, निन्द्यते महर्द्धिकदेववृन्देन, विलपत्यात्मनश्च्यवनदर्शनेन, आक्रन्दति गाढं प्रत्यासन्नमरणदर्शनेन, पतति समस्ताशुचिनिधाने स्त्रीतिरश्चीगर्भकलिमले इति ।
चातुर्गतिकसंसारे, नास्ति सौख्यं शरीरिणाम् । कर्मक्लेशप्रहाणोत्थां, विमुच्य पञ्चमी गतिम् ॥१३३।। सा च विशुद्धधर्मेण, स च सर्वज्ञभाषित: । पूर्वापराविसंवादि, दयासार: क्षमान्वित: ॥१३४।। तनोर्विधूननं धत्ते, दत्ते च प्रशमं परम् । पुष्णाति च परं श्रेय:, मुष्णाति कुमतेर्मतिम् ।।१३५॥ स्वर्गापवर्गसंसर्ग-साधक: पापबाधकः । सर्वसौख्यकर: सत्यो, धर्म: सर्वज्ञभाषित: ॥१३६।। द्वात्रिंशता सहस्राणां, महाबलमहीभृताम् । षोडशयक्षसहस्रैः, सर्वदा कृतसन्निधिः ॥१३७॥ चतुःषष्टया सहस्राणां, कान्ताकान्तकुचोष्मणा । शीतकालेऽपि नि:शीत:, शेते चक्री निराकुलः॥ यद् भुङ्क्ते भारतं वर्ष-मुद्धृताखिलकण्टकम् । विचचार गजारूढ-च्छत्रछन्नदिगन्तर: ॥१३९॥ जीवनन्द चिरं देव ! । देहि दृष्टिं मदानने । इत्यादिमागधोद्गीत-गीर्भिर्गीतगुणान्तरः ॥१४०॥ भोगाभोगान् यथा शक्र-श्चक्री भुङ्क्ते निराकुल: । तदेतदर्हदुक्तस्य, दयाधर्मस्य जृम्भितम् ॥१४१।। किं बहुनात्र संसारे, यदन्यदपि सुन्दरम् । दृश्यते वस्तु तत्सर्वं, दयाधर्मस्यं सत्फलम् ॥१४२।। १JI परावर्तवादं - BPC मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org