________________
१००
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तदस्य श्रवणे यत्नो, नित्यं कार्यो हितैषिणा । शृण्वन्नेव हि जानाति, पुण्यापुण्यं हिताहितम्॥१४३॥ श्रुत्वेदं रञ्जितो राजा, सम्यक्त्वं प्रतिपन्नवान् । लोकोऽपि च यथायोग्यं, प्रपन्नो धर्ममार्हतम् ॥१४४| अथ कणसार: प्राहकिमकारि मया पुण्यं, भगवन् ! पूर्वजन्मनि । अक्षता अक्षता येन, सञ्जाता मम मन्दिरे ॥१४५।। कणसारवच: श्रुत्वा, मेघनादैः प्रजल्पितम् । भो श्रेष्ठिन् ! शृणु सक्षेपा-दक्षताक्षतकारणम् ।।१४६॥ पाञ्चालेषु महाग्रामो, पामरैश्च कृतास्पदः । सुखनि: सर्वशस्यानां, सुसीमो जनविश्रुतः ॥१४७॥ तस्मिन्नाजन्मदारियो, निस्सहायो निरन्वय: । पामर: पिङ्गलो नाम, कुटीरककृताश्रयः ॥१४८।। कुकर्मकरणासक्तः, कुचेल: कष्टभोजन: । नित्यं परमुखप्रेक्षी। मुनिवत्कुक्षिसम्बलः ॥४९॥
अन्यदा वेतने लब्ध्वा, शालितण्डुलसेतिकाम् । आनीय च घटे क्षिप्त्वा, घटद्वारं नियन्त्रितम् ॥१५०॥ विक्रणीया मयाप्येषा, सविशेषप्रयोजने । गतोऽसौ जिनदत्तस्य, गृहे कर्मचिकीर्षया ॥१५१||
अग्रे कूरं समायं, प्रेषितो जिनमन्दिरे । सत्पुष्पपूजितं शान्तं, सदाभरणभूषितम् ॥१५२॥ दृष्टं श्रीशान्तिनाथस्य, बिम्बं जनमनोहरम् । तदग्रे विलिखन् दृष्टो, मङ्गलान्यष्ट तण्डुलैः ॥१५३॥ अखण्डास्फुटितैः सारै-भक्तितो जिनदत्तक: । पृष्टश्च पिङ्गलेनैष, किमेतदिति कथ्यताम्॥१५४।। कथितं ज्ञाततत्त्वोऽसौ, गृहादानीय तण्डुलान् । लिलेख मङ्लान्यष्टौ, भूरिभावसमन्वितः ॥१५५।। अहो मे तण्डुला धन्या, यैरयं पूजितो जिनः । एवं विशुद्धभावेन, भावतश्चानुमोदिता: ॥१५६।। बद्धंपरभवायुष्कं, भोगसारं ततो गृहे। कदन्नाहारयोगेन, जाता गाढविसूचिका ॥१५७॥ ततो मृत्वा समुत्पन्न-स्त्वं तारप्रभनन्दन: । महर्द्धया ते कृतं नाम, कणसार इति स्फुटम् ॥१५८|| जिनाग्रे तण्डुला दत्ता, भावतश्चानुमोदिता: । कणसार ! कणास्तेन, तव वृद्धिमुपागताः ॥१५९॥ श्रुत्वेदं कणसारेण, स्मृता जातिश्चिरन्तनी । भगवन्नपारसंसार-भयभीतस्त्वदन्तिके ॥१६०॥ व्रतं च लातुमिच्छामि, यद्यस्ति मम योग्यता । व्रतादानमयोग्यानां, यतोऽनर्थाय वर्तते ॥१६१॥ सूरिणाभाणि भो श्रेष्ठिन्, योग्यस्त्वं धर्मकर्मणाम् । अविघ्भवतो भूयात्, संयमाध्वनि गच्छतः ।।१६२॥ सप्तक्षेत्र्यां धनं दत्त्वा, कृत्वा पूजां जिनालये । महीनाथमनुज्ञाप्य, बन्दिमोक्षं विधाय च ॥१६३।। धनसारं पदे कृत्वा, सुताराकुक्षिसम्भवम् । इष्टमित्रजनं सर्वं, सम्भाष्यादरपूर्वकम् ।।१६४|| दीनानाथजनं सर्व-मर्थिनं दुःस्थमानसम् । सुस्थं कृत्वा यथाशक्त्या, आहारादिप्रदानतः ॥१६५॥ श्रेष्ठिन: कणसारस्य, काप्यपूर्वा महार्थता । स्ववित्तं कोटिशो दत्तं, स्फटाटोपो न दर्शित: ॥१६६।। गर्जित्वा बहुदूरमुन्नतिभृतो मुञ्चन्ति वार्यम्बुदा, भद्रस्यापि गजस्य दानसमये सम्भाव्यते दुर्मदः ॥ पुष्पाडम्बरदर्शनेन ददति प्राय: फलानि द्रुमा, नोत्सेको न मदो न कालहरणं दानप्रवृत्तौ सताम्॥१६७।। तृणवत्सर्वं परित्यज्य, बहिरन्त: परिग्रहम् । मेघनादान्तिके श्रेष्ठी, प्रपेदे सर्वसंयमम् ॥१६८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org