________________
४०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
पुष्पपूजायां रत्नचन्द्रकथा
अस्ति समस्तसुश्रेष्ठ-वस्तुस्तोमविराजितम् । जितशत्रुपुरश्रीकं, चारुप्रासादसम्पदम् ॥१॥ सम्पदाकुलशालीन-भूरिलोकसमाकुलम् । कुलक्रमागतानेक-सद्व्यवहारसुन्दरम् ॥२॥ मध्यखण्डे क्षितौ ख्यातं, भूभालतिलकोपमम् । बङ्गाजनपदस्यान्त-र्धनधान्यसमाकुलम् ॥३॥ समस्तशस्तसंसार-सारभूतं महीतले । अत्रैव भारते क्षेत्रे, पुरं विजयवर्धनम्॥४॥ तत्रास्त्यनेकसंग्राम-शिरोनियूंढसाहस: । साहसाङ्कसमो राजा, नाम्ना च रत्नशेखरः ॥५॥ रत्नावली च तस्याग्र-महिषी विश्वविश्रुता । संसारसुखसर्वस्वं, हरस्य ललिता यथा॥६॥ तया सार्धं महीशस्य, कुर्वत: कामसेवनम् । सञ्जातस्तनय: सारो, भववृक्षफलोपमः ॥७॥ समये प्रतिष्ठितं नाम, रत्नचन्द्र इति स्फुटम् । ततोऽसौ वर्धते विश्व-माह्लादयन् यथा शशी॥८॥ काले समर्पितो राज्ञा, कलाग्रहणहेतवे । कलाचार्यस्य तेनापि, पाठित: सकला: कला: ॥९॥ ततो यौवनमारूढः, परिणीता नृपाङ्गजा: । युवराजपदे पित्रा, प्रमोदेन प्रतिष्ठित: ॥१०॥ एकदा चाश्ववाहिन्यां, निर्गतो हयहेषया । पूरयन्नम्बरं सर्वं, महाटव्यां विवेश सः ॥११॥ ततोऽप्यपहृतोऽश्वेन, सुवेलगिरिगह्वरे। नीत्वा मुक्त्वा ततो वाजी, जगामादर्शनं क्षणात् ॥१२॥ कुमारोऽपि पिपासातः, श्रान्तो विस्मितमानस: । पपौ निर्झरनियूढं, शीतलं निर्मलं पय: ।।१३।। कन्दमूलकृताहार, इतश्चेतश्च पर्यटन् । ददशैकत्र शुभ्रोच्चं, सुन्दरं जिनमन्दिरम् ॥१४॥ प्रविष्टस्तत्र सानन्दो, रोमाञ्चाञ्चितविग्रहः । सर्वतोऽपि क्षिपच्चक्षुः, कौतुकाक्षिप्तमानसः ।।१५।। शान्तं कान्तं शिवं सौम्यं, सुरूपं सुमनोहरम्। बिम्बंयुगादिदेवस्य, दृष्ट्वात्यर्थं मुमोद सः॥१६॥ ततश्च चिन्तयामास, विस्मितो हर्षनिर्भरः । यथा कोऽप्येष नि:शेष-विश्ववन्द्यो जगत्प्रभुः ॥१७॥ जगत्पूज्यो जगज्ज्येष्ठो, देवदेवो जगद्धितः । तदहं पूजयाम्येनं, सत्पुष्पैर्भक्तियोगत: ॥१८॥ विचिन्त्यैवं सुगन्धीनि, गृहीत्वा कुसुमानि स: । भक्त्या युगादितीर्थेशं, सप्रमोदमपूपुजत् ॥१९॥ तत: प्रणम्य निष्क्रान्तो, राजपुत्रो जिनालयात् । बहिर्मण्डपमागत्य, वेदिकायां निषण्णवान् ॥२०॥ सानन्दो जिनबिम्बास्य-न्यस्तदृष्टिरचिन्तयत् । धन्योऽहं पुण्यवानद्य, कृतार्थ: कृतरक्षण: ॥२१।। येन देवाधिदेवोऽयं, मया दृष्टो महाप्रभुः । पूज्योऽयं सर्वदेवानां, ध्येयोऽयं सर्वयोगिनाम् ॥२२॥ वन्द्योऽयं सर्वसाधूनां, त्राताऽयं सर्वदेहिनाम् । हितोऽयं सर्वजीवानां, दातायं सर्वसम्पदाम् ॥२३॥ इत्याद्यनेकधा हृष्टो, यावदास्ते स चिन्तयन् । तावदेक: समायातो, वृद्धस्तत्र नभश्चरः ॥२४॥ ततो वापीजलेनाशु, शुचिर्भूत्वा सितांशुक: । गृहीत्वा शतपत्रादि, सुगन्धकुसुमोत्करम् ॥२५॥ प्रविश्य जिनवेश्मान्त:, पूजयित्वा जिनेश्वरम् । विधाय विधिवद्भक्त्या, विशुद्धं चैत्यवन्दनम् ॥२६।। दधान: सर्वतो देहे, प्रकटं पुलकोत्करम् । ततोऽसौ स्तोतुमारब्धः, संवेगातिशयं वहन् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org