________________
अधिकार २ / श्लोक ५०-५९ / पुष्पपूजायां रत्नचन्द्रकथा १
तद्यथा- जय त्वं जगदानन्द! जय त्वं जगदीश्वर! । जय त्वं त्रिजगन्धो!, जय त्वं त्रिजगत्प्रभो! ।।२८।। जय त्वं त्रिजगनेत्र! जय त्वं जगदर्चित! | जय त्वं त्रिजगन्नाथ! जय त्वं नाभिनन्दन! ॥२९॥ नमस्ते केवलालोक-लोकालोकविलोकिने । नमस्ते भुवनादित्य-भव्याम्भोजविकासिने ॥३०॥ नमस्ते सर्वत: सर्प-न्मोहध्वान्तविनाशिने । नमस्ते विश्वविख्यात-सर्वनीतिप्रकाशिने ॥३१॥ नमस्ते सर्वकल्याण-कारिणे क्लेशवारिणे । नमस्ते भक्तिमल्लोक-भवसन्तापहारिणे ॥३२॥ रागो द्वेषश्च मोहश्च, त्रयोऽपि प्रहतास्त्वया। अहं त्वेभिः सदाकालं, प्रहन्ये सन्ततं प्रभो! ॥३३|| हन्यमानश्च देवेश!, त्वां शरण्यमुपाश्रितः । तदेतेभ्यो भयोद्धान्तं, रक्ष रक्ष मुनीश! माम् ॥३४॥ चत्वारोऽपि त्वयात्यर्थं, कषायारातयो हताः । अहं पुनरिमैः पापैः, प्रभो! पीडये निरन्तरम् ॥३५।। तदित्थं मामिमानुच्चै-बर्बाध्यमानान्महाप्रभो! । अचिन्त्यशक्तिसंयुक्त!, नाथ! वारय वारय ॥३६॥ कर्माष्टकं त्वयात्यन्तं प्रलयं प्रापि लीलया। नाथेऽपि त्वयि बद्धोऽह-मष्टभिरपि कर्मभिः ॥३७॥ तदित्थं बद्धमालोक्य, बद्धानां प्रविमोचक ! । निष्कर्मन् ! सर्वकर्मभ्यो, मां विमोचय मोचय ॥३८॥ लीलयापि त्वया तीर्णो, विस्तीर्णोऽपि महार्णव: । अहं तु तत्र मज्जामि, कर्मसम्भारभारित: ॥३९।। प्रसीद साम्प्रतं स्वामिन्! मज्जन्तं मां भवार्णवे । सद्धर्मपोतमारोप्य, देव! तारय तारय ॥४०॥ ध्वस्तमिथ्यात्वनिद्रस्त्वं, त्वं निद्रासु प्रबोधक! । मिथ्यात्वनिद्रया सुप्तं, मां प्रबोधय बोधय ॥४१॥ किं बहुनान्तरैः सर्वैः, शत्रुभि: सततं सदा । हन्यमानं जगत्त्रात-र्मामपालय पालय ॥४२॥ अनन्तपरमानन्द-युक्त! मुक्तिसुखालय! । सुप्रसन्नं मनः कृत्वा, मां प्रापय शिवालये ॥४३॥ त्वं स्वामी त्वं च मे बन्धु-स्त्वं मित्रं त्वं च मे गुरु: । त्राणं त्वमेव देवेश!. भूयाजन्मनि जन्मनि॥४४॥ आभवं भवसम्भ्रान्त-जन्तुसन्तानरक्षक! । भूयान्मे भूयसी भक्ति-स्त्वय्येव परमेश्वर! ॥४५॥ तथा प्रसीद मे नाथ!, शरणागतवत्सल! । यथाज्ञां तावकी पूर्णा-मासंसारं करोम्यहम् ॥४६॥ एवं स्तुत्वा जिनाधीशं, संवेगभरनिर्भरः । जिनालयाद्विनिष्क्रम्य, निषण्ण: सोऽपि मण्डपे ॥४७॥ ततो गत्वा कुमारोऽपि, तं ननाम नताङ्गकः । उपविश्य तदासन्ने, पप्रच्छेदं कृताञ्जलिः ॥४८॥ केनेदं कारितं तुझं, सुन्दरं जिनमन्दिरम्? । को वा देवाधिदेवोऽयं?, कुतो वा त्वं समागत: ? ॥४९।। गन्तव्यं वा त्वया कुत्र?. कुत्र वावस्थितिस्तव ? । स प्राह श्रूयतां वत्स!, सावधानेन कथ्यते॥५०॥ वैताढ्यपर्वते रम्ये, पुरे गगनवल्लभे। सूरप्रभाभिधस्तत्रा-भवन्मे पितामहः ॥५१॥ तेनेदं कारितं वत्स!, जिनवेश्म मनोहरम् । युगादिदेवदेवोऽय-मृषभो जिनपुङ्गवः ॥५२॥ आगच्छामि त्वहं तस्मा-त्पुराद्गगनवल्लभात् । गन्तव्यं तु न कुत्रापि, मया मंर्तव्यमत्र हि ॥५३।। यत: कल्ये समायातो, विद्याचारणसन्मुनिः । केवलज्ञानविज्ञात-विश्वव्यापारविस्तर: ॥५४॥ स वन्दित्वा मया पृष्टः, प्रमाणं निजकायुषः । तेनोक्तं दिवसा भद्र!, पञ्चैव तव जीवितम् ॥५५॥ १ मिपालय- BJ मु.। = आनन्दालय- J पार्श्वभागे ॥२ BC | भवन्मम-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org