SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अधिकार २ / श्लोक ४९-५९ / जिनपूजाप्रकारा: ३९ य: कश्चिदक्षतैस्तण्डुलैरक्षतैरखण्डैः शुभैर्विशदैरर्हतां जिनानां कुरुते विधत्ते बलिम् उपहारं कणसार इव कणसाराख्यश्रेष्ठिपुत्रवदत्यन्तमत्यर्थं वर्धते वृद्धिं यात्यसौ स कणश्रिया धान्यलक्ष्म्योपलक्षणत्वाच्छेषश्रीभिरपीति पञ्चमश्लोकार्थः ॥५४॥ जिनानाम् अर्हतामग्रत: पुरतो दद्यात्प्रयच्छेत् सुन्दराणि प्रधानानि फलानि आम्रनालिकेरादीनि य : कश्चित् फलवत्य : सफला: क्रिया वाणिज्यादिकर्माणि तस्य फलपूजाकर्तुर्भवन्ति जायन्ते फलसारवत् फलंसाराभिधानराजपुत्रस्येवेति षष्ठश्लोकार्थः ॥५५॥ सुगन्धसर्पिषा सद्गन्धनाशिकापेयघृतेन य: पुन: करोति विधत्ते जिनमज्जनं जिनस्नानं, सघृतभृतपात्राणिशोभनघृतसम्पूर्णस्थालानि स्थापयेद्वान्यसेद्वा तदग्रतो जिनाग्रत इत्यर्थः सोऽसौ गोवर्धन (गोधन) इव गोवर्धना (गोधना) भिधानकुटुम्बिक इवोदग्रामुदारां भुक्त्वा भूयो भोगपरम्परां शब्दादिविषयसुखमालिकां क्षीणनि:शेषकर्मांश: प्रलीनाखिलज्ञाना- वरणीयादिकर्मकलङ्कांश: प्रयाति गच्छति परमां प्रधानां गतिं सिद्धिगतिमित्यर्थः, इति सप्तमाष्टमश्लोकद्वयार्थः ॥५६-५७॥ य: कश्चित् स्नापयति अभिषिञ्चति बिम्बानि प्रतिमा: सुगन्धवरवारिणा सुरभिप्रवरनीरेण, सदम्भ:पूर्णकुम्भान् वा प्रवरतरविमलजलभृतकलशान् वा ढोकयेत् स्थापयेत्तदग्रतो जिनबिम्बाग्रत: सो ऽसौ प्राप्य समासाद्य सुन्दरा : प्रधाना, लक्ष्मी : श्रियो रससार इव रससाराभिधानराजनन्दन इव ईप्सिता: सम्पूर्णधर्मसम्पत्त्या परिपूर्णयतिधर्मप्राप्त्येत्यर्थः ततस्त दनन्तरं याति गच्छति शिवालयं निर्वाणनगरमिति नवम-दशमश्लोकद्वयार्थः ॥५८-५९।। अथ प्रकरणकारसूचितपुष्पाद्यष्टविधपूजाफलप्रतिपादकरत्नचन्द्रादिकथानकानि कथ्यन्ते, तानि पुनरमूनि, तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy