________________
अधिकार २ / श्लोक ४९-५९ / जिनपूजाप्रकाराः
अथ सा पूजा कतिविधेति दर्शयन्नाह
चारुपुष्पामिषस्तोत्रै-स्त्रिविधा जिनपूजना। पुष्पगन्धादिभिश्चान्यै-रष्टधेयं निगद्यते ॥४९।।
चारुपुष्पामिप्रस्तोत्रैरिति चारूणि प्रधानानि, पुष्पाणि कुसुमानि, आमिषाणि-नैवेद्यानि, स्तोत्राणि-स्तवनानि, तैश्चारुपुष्पामिषस्तोत्रैः त्रिविधा त्रिप्रकारा जिनपूजना जिनार्चना पुष्पगन्धादिभि: कुसुमवासादिभि: आदिशब्दाद् धूपदीपाऽक्षतादिग्रहः च: समुच्चये अन्यैरपरैराचार्यै: अष्टधा अष्टप्रकारा इयमेषा निगद्यते कथ्यते इति श्लोकार्थः॥४९॥
अथाष्टविधत्वमेवास्या: सदृष्टान्तं श्लोकदशकेनाह
शुभैः सुगन्धिभिः पुष्पै-र्य: कुरुते जिनार्चनम् । स प्राप्नोति समं कीा , रत्नचन्द्र इव श्रियः ॥५०॥ पुटपाकादिभिर्गन्धै-र्येऽर्चयन्ति जिनेश्वरम् । लभन्ते तेऽचिरात्सिद्धिं, रत्नसुन्दरवज्जनाः ॥५१॥ धूपं दहति य: सारं, भावसारं जिनाग्रतः । स याति लब्धसर्वर्द्धि-नरकेसरिवच्छिवम् ॥५२॥ प्रदीपयति यो भक्त्या , प्रदीपं जिनमन्दिरे । स हि स्यादखिलश्रीणां, भानुप्रभ इव प्रभुः ॥५३॥ योऽक्षतैरक्षतैः शुभै-रहतां कुरुते बलिम् । कणसार इवात्यन्तं, वर्धतेऽसौ कणश्रिया ॥५४॥ जिनानामग्रतो दद्यात्, सुन्दराणि फलानि यः। फलवत्यः क्रियास्तस्य, भवन्ति फलसारवत् ॥५५॥ सुगन्धसर्पिषा यस्तु, करोति जिनमज्जनम् । सघृतभृतपात्राणि, स्थापयेद्वा तदग्रत: ॥५६॥ स गोधन इवोदग्रां, भुक्त्वा भोगपरम्पराम् । क्षीणनि:शेषकर्मांश:, प्रयाति परमां गतिम् ॥५७॥ यः स्नापयति बिम्बानि, सुगन्धवरवारिणा। सदम्भ: पूर्णकुम्भान् वा, ढौकयेद्यस्तदग्रतः ॥५८।। स प्राप्य सुन्दरा लक्ष्मी, रससार इवेप्सिताः । सम्पूर्णधर्मसम्पत्त्या, ततो याति शिवालयम् ॥५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org